व्यवहारपदानि - अस्वामिविक्रयः

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा ।
विक्रीयतेऽसमक्षं यद्विज्ञेयोऽस्वामिविक्रयः ॥१॥

द्रव्यं अस्वामिविक्रीतं प्राप्य स्वामी समाप्नुयात् ।
प्रकाशं क्रयतः शुद्धिः क्रेतुः स्तेयं रहः क्रयात् ॥२॥

अस्वाम्यनुमताद्दासादसतश्च जनाद्रहः ।
हीनमूल्यं अवेलायां क्रीणंस्तद्दोषभाग्भवेत् ॥३॥

न गूहेतागमं क्रेता शुद्धिस्तस्य तदागमात् ।
विपर्यये तुल्यदोषः स्तेयदण्डं च सोऽर्हति ॥४॥

विक्रेता स्वामिनेऽर्थं च क्रेतुर्मूल्यं च तत्कृतम् ।
दद्याद्दण्डं तथा राज्ञे विधिरस्वामिविक्रये ॥५॥

परेण निहितं लब्ध्वा राजन्युपहरेन्निधिम् ।
राजगामी निधिः सर्वः सर्वेषां ब्राह्मणादृते ॥६॥

ब्राह्मणोऽपि निधिं लब्ध्वा क्षिप्रं राज्ञे निवेदयेत् ।
तेन दत्तं च भूञ्जीत स्तेनः स्यादनिवेदयन् ॥७॥

स्वं अप्यर्थं तथा नष्टं लब्ध्वा राज्ञे निवेदयेत् ।
गृह्णीयात्तत्र तं शुद्धं अशुद्धं स्यात्ततोऽन्यथा ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP