संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|नारद स्मृतिः|व्यवहारपदानि| अभ्युपेत्याशुश्रूषा व्यवहारपदानि ऋणादानम् निक्षिपः संभूयसमुत्थानम् दत्ताप्रदानिकम् अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म अस्वामिविक्रयः क्रीतानुशयः विक्रीयासंप्रदानम् समयस्यानपाकर्म क्षेत्रजविवादः स्त्रीपुंसयोगः दायभागः साहसम् वाग्दण्डपारुष्ये द्यूतसमाह्वयम् प्रकीर्णकम् स्तेयम् दिव्यानि व्यवहारपदानि - अभ्युपेत्याशुश्रूषा स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmanaradasmritiधर्मनारदनारद स्मृतिःसंस्कृतस्मृतिः अभ्युपेत्याशुश्रूषा Translation - भाषांतर अभ्युपेत्य तु शुश्रूषां यस्तां न प्रतिपद्यते ।अशुश्रूषाभ्युपेत्यैतद्विवादपदं उच्यते ॥१॥शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः ।चतुर्विधः कर्मकरस्तेषां दासास्त्रिपञ्चकाः ॥२॥शिष्यान्तेवासिभृतकाश्चतुर्थस्त्वधिकर्मकृत् ।एते कर्मकराः प्रोक्ता दासास्तु गृहजादयः ॥३॥सामान्यं अस्वतन्त्रत्वं एषां आहुर्मनीषिणः ।जातिकर्मकृतस्तूक्तो विशेषो वृत्तिरेव च ॥४॥कर्मापि द्विविधं ज्ञेयं अशुभं शुभं एव च ।अशुभं दासकर्मोक्तं शुभं कर्मकृतां स्मृतम् ॥५॥गृहद्वाराशुचिस्थान रथ्यावस्करशोधनम् ।गुह्याङ्गस्पर्शनोच्छिष्ट विण्मूत्रग्रहणोज्झनम् ॥६॥इष्टतः स्वामिनश्चाङ्गैरुपस्थानं अथान्ततः ।अशुभं कर्म विज्ञेयं शुभं अन्यदतः परम् ॥७॥आ विद्याग्रहणाच्छिष्यः शुश्रूषेत्प्रयतो गुरुम् ।तद्वृत्तिर्गुरुदारेषु गुरुपुत्रे तथैव च ॥८॥ब्रह्मचारी चरेद्भैक्षं अधःशाय्यनलङ्कृतः ।जघन्यशायी सर्वेषां पूर्वोत्थायी गुरोर्गृहे ॥९॥ नासंदिष्टः प्रतिष्ठेत तिष्ठेद्वापि गुरुं क्वचित् ।संदिष्टः कर्म कुर्वीत शक्तश्चेदविचारयन् ॥१०॥यथाकालं अधीयीत यावन्न विमना गुरुः ।आसीनोऽधो गुरोः कूर्चे फलके वा समाहितः ॥११॥अनुशास्यश्च गुरुणा न चेदनुविधीयते ।अवधेनाथवा हन्यात्रज्ज्वा वेणुदलेन वा ॥१२॥भृशं न ताडयेदेनं नोत्तमाङ्गे न वक्षसि ।अनुशास्याथ विश्वास्यः शास्यो राज्ञान्यथा गुरुः ॥१३॥समावृत्तश्च गुरवे प्रदाय गुरुदक्षिणाम् ।प्रतीयात्स्वगृहानेषा शिष्यवृत्तिरुदाहृता ॥१४॥स्वशिल्पं इच्छन्नाहर्तुं बान्धवानां अनुज्ञया ।आचार्यस्य वसेदन्ते कालं कृत्वा सुनिश्चितम् ॥१५॥आचार्यः शिक्षयेदेनं स्वगृहाद्दत्तभोजनम् ।न चान्यत्कारयेत्कर्म पुत्रवच्चैनं आचरेत् ॥१६॥शिक्षयन्तं अदुष्टं च यस्त्वाचार्यं परित्यजेत् ।बलाद्वासयितव्यः स्याद्वधबन्धौ च सोऽर्हति ॥१७॥शिक्षितोऽपि कृतं कालं अन्तेवासी समाप्नुयात् ।तत्र कर्म च यत्कुर्यादाचार्यस्यैव तत्फलम् ॥१८॥गृहीतशिल्पः समये कृत्वाचार्यं प्रदक्षिणम् ।शक्तितश्चानुमान्यैनं अन्तेवासी निवर्तयेत् ॥१९॥भृतकस्त्रिविधो ज्ञेय उत्तमो मध्यमोऽधमः ।शक्तिभक्त्यनुरूपा स्यादेषां कर्माश्रया भृतिः ॥२०॥उत्तमस्त्वायुधीयोऽत्र मध्यमस्तु कृषीवलः ।अधमो भारवाहः स्यादित्येवं त्रिविधो भृतः ॥२१॥अर्थेष्वधिकृतो यः स्यात्कुटुम्बस्य तथोपरि ।सोऽधिकर्मकरो ज्ञेयः स च कौटुम्बिकः स्मृतः ॥२२॥शुभकर्मकरास्त्वेते चत्वारः समुदाहृताः ।जघन्यकर्मभाजस्तु शेषा दासास्त्रिपञ्चकाः ॥२३॥गृहजातस्तथा क्रीतो लब्धो दायादुपागतः ।अनाकालभृतस्तद्वदाधत्तः स्वामिना च यः ॥२४॥मोक्षितो महतश्चर्णात्प्राप्तो युद्धात्पणे जितः ।तवाहं इत्युपगतः प्रव्रज्यावसितः कृतः ॥२५॥भक्तदासश्च विज्ञेयस्तथैव वडवाभृतः ।विक्रेता चात्मनः शास्त्रे दासाः पञ्चदशा स्मृताः ॥२६॥तत्र पूर्वश्चतुर्वर्गो दासत्वान्न विमुच्यते ।प्रसादाद्स्वामिनोऽन्यत्र दास्यं एषां क्रमागतम् ॥२७॥यश्चैषां स्वामिनं कश्चिन्मोक्षयेत्प्राणसंशयात् ।दासत्वात्स विमुच्येत पुत्रभागं लभेत च ॥२८॥अनाकालभृतो दास्यान्मुच्यते गोयुगं ददत् ।संभक्षितं यद्दुर्भिक्षे न तच्छुध्येत कर्मणा ॥२९॥आधत्तोऽपि धनं दत्त्वा स्वामी यद्येनं उद्धरेत् ।अथोपगमयेदेनं स विक्रीतादनन्तरः ॥३०॥दत्त्वा तु सोदयं ऋणं ऋणी दास्यात्प्रमुच्यते ।कृतकालाभ्युपगमात्कृतकोऽपि विमुच्यते ॥३१॥तवाहं इत्युपगतो युद्धप्राप्तः पणे जितः ।प्रतिशीर्षप्रदानेन मुच्यते तुल्यकर्मणा ॥३२॥राज्ञ एव तु दासः स्यात्प्रव्रज्यावसितो नरः ।न तस्य प्रतिमोक्षोऽस्ति न विशुद्धिः कथंचन ॥३३॥भक्तस्योपेक्षणात्सद्यो भक्तदासः प्रमुच्यते ।निग्रहाद्वडवायाश्च मुच्यते वडवाभृतः ॥३४॥विक्रीणीते य आत्मानं स्वतन्त्रः सन्नराधमः ।स जघन्यतरस्तेषां नैव दास्यात्प्रमुच्यते ॥३५॥चौरापहृतविक्रीता ये च दासीकृता बलात् ।राज्ञा मोक्षयितव्यास्ते दासत्वं तेषु नेष्यते ॥३६॥वर्णानां प्रातिलोम्येन दासत्वं न विधीयते ।स्वधर्मत्यागिनोऽन्यत्र दारवद्दासता मता ॥३७॥तवाहं इति चात्मानं योऽस्वतन्त्रः प्रयच्छति ।न स तं प्राप्नुयात्कामं पूर्वस्वामी लभेत तम् ॥३८॥अधनास्त्रय एवोक्ता भार्या दासस्तथा सुतः ।यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥३९॥स्वदासं इच्छेद्यः कर्तुं अदासं प्रीतमानसः ।स्कन्धादादाय तस्यापि भिन्द्यात्कुम्भं सहाम्भसा ॥४०॥अक्षताभिः सपुष्पाभिर्मूर्धन्येनं अवाकिरेत् ।अदास इति चोक्त्वा त्रिः प्राङ्मुखं तं अथोत्सृजेत् ॥४१॥ततःप्रभृति वक्तव्यः स्वाम्यनुग्रहपालितः ।भोज्यान्नः प्रतिगृह्यश्च भवत्यभिमतश्च सः ॥४२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP