संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|नारद स्मृतिः|व्यवहारपदानि| क्षेत्रजविवादः व्यवहारपदानि ऋणादानम् निक्षिपः संभूयसमुत्थानम् दत्ताप्रदानिकम् अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म अस्वामिविक्रयः क्रीतानुशयः विक्रीयासंप्रदानम् समयस्यानपाकर्म क्षेत्रजविवादः स्त्रीपुंसयोगः दायभागः साहसम् वाग्दण्डपारुष्ये द्यूतसमाह्वयम् प्रकीर्णकम् स्तेयम् दिव्यानि व्यवहारपदानि - क्षेत्रजविवादः स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmanaradasmritiधर्मनारदनारद स्मृतिःसंस्कृतस्मृतिः क्षेत्रजविवादः Translation - भाषांतर सेतुकेदारमर्यादा विकृष्टाकृष्टनिश्चयाः ।क्षेत्राधिकारा यत्र स्युर्विवादः क्षेत्रजस्तु सः ॥१॥क्षेत्रसीमाविरोधेषु सामन्तेभ्यो विनिश्चयः ।नगरग्रामगणिनो ये च वृद्धतमा नराः ॥२॥ग्रामसीमासु च बहिर्ये स्युस्तत्कृषिजीविनः ।गोपशाकुनिकव्याधा ये चान्ये वनगोचराः ॥३॥समुन्नयेयुस्ते सीमां लक्षणैरुपलक्षिताम् ।तुषाङ्गारकपालैश्च कुम्भैरायतनैर्द्रुमैः ॥४॥अभिज्ञातैश्च वल्मीक स्थलनिम्नोन्नतादिभिः ।केदाराराममार्गैश्च पुराणैः सेतुभिस्तथा ॥५॥निम्नगापहृतोत्सृष्ट नष्टचिह्नासु भूमिषु ।तत्प्रदेशानुमानाच्च प्रमाणैर्भोगदर्शनैः ॥६॥अथ चेदनृतं ब्रूयुः सामन्तास्तद्विनिश्चये ।सर्वे पृथक्पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ॥७॥गणवृद्धादयस्त्वन्ये दण्डं दाप्याः पृथक्पृथक् ।विनेयाः प्रथमेन स्युः साहसेनानृते स्थिताः ॥८॥नैकः समुन्नयेत्सीमां नरः प्रत्ययवानपि ।गुरुत्वादस्य धर्मस्य क्रियैषा बहुषु स्थिता ॥९॥एकश्चेदुन्नयेत्सीमां सोपवासः समाहितः ।रक्तमाल्याम्बरधरः क्षितिं आरोप्य मूर्धनि ॥१०॥यदा च न स्युर्ज्ञातारः सीमाया न च लक्षणम् ।तदा राजा द्वयोः सीमां उद्धरेदिष्टतः स्वयम् ॥११॥एतेनैव गृहोद्यान निपानायतनादिषु ।विवादविधिराख्यातस्तथा ग्रामान्तरेषु च ॥१२॥अवस्करस्थलश्वभ्र भ्रमस्यन्दनिकादिभिः ।चतुष्पथसुरस्थान रथ्यामार्गान्न रोधयेत् ॥१३॥परक्षेत्रस्य मध्ये तु सेतुर्न प्रतिषिध्यते ।महागुणोऽल्पबाधश्च वृद्धिरिष्टा क्षये सति ॥१४॥सेतुस्तु द्विदिधो ज्ञेयः खेयो बन्ध्यस्तथैव च ।तोयप्रवर्तनान्खेयो बन्ध्यः स्यात्तन्निवर्तनात् ॥१५॥नान्तरेणोदकं सस्यं नश्येदभ्युदकेन तु ।य एवानुदके दोषः स एवाभ्युदके स्मृतः ॥१६॥पूर्वप्रवृत्तं उत्सन्नं अपृष्ट्वा स्वामिनं तु यः ।सेतुं प्रवर्तयेत्कश्चिन्न स तत्फलभाग्भवेत् ॥१७॥मृते तु स्वामिनि पुनस्तद्वंश्ये वापि मानवे ।राजानं आमन्त्र्य ततः प्रकुर्यात्सेतुकर्म तत् ॥१८॥अतोऽन्यथा क्लेशभाक्स्यान्मृगव्याधानुदर्शनात् ।इषवस्तस्य नश्यन्ति यो विद्धं अनुविध्यति ॥१९॥अशक्तप्रेतनष्टेषु क्षेत्रिकेष्वनिवारितः ।क्षेत्रं चेद्विकृषेत्कश्चिदश्नुवीत स तत्फलम् ॥२०॥विकृष्यमाणे क्षेत्रे चेत्क्षेत्रिकः पुनराव्रजेत् ।खिलोपचारं तत्सर्वं दत्त्वा स्वक्षेत्रं आप्नुयात् ॥२१॥तदष्टभागापचयाद्यावत्सप्त गताः समाः ।संप्राप्ते त्वष्टमे वर्षे भुक्तं क्षेत्रं लभेत सः ॥२२॥संवत्सरेणार्धखिलं खिलं तद्वत्सरैस्त्रिभिः ।पञ्चवर्षावसन्नं तु स्यात्क्षेत्रं अटवीसमम् ॥२३॥क्षेत्रं त्रिपुरुषं यत्स्याद्गृहं वा स्यात्क्रमागतम् ।राजप्रसादादन्यत्र न तद्भोगः परं नयेत् ॥२४॥उत्क्रम्य तु वृतिं यत्र सस्यघातो गवादिभिः ।पालः शास्यो भवेत्तत्र न चेच्छक्त्या निवारयेत् ॥२५॥समूलसस्यनाशे तु तत्स्वामी समं आप्नुयात् ।वधेन पालो मुच्येत दण्डं स्वामिनि पातयेत् ॥२६॥गौः प्रसूता दशाहात्च महोक्षाजाविकुञ्जराः ।निवार्यास्तु प्रयत्नेन तेषां स्वामी न दण्डभाक् ॥२७॥माषं गां दापयेद्दण्डं द्वौ माषौ महिषीं तथा ।अजाविके सवत्से तु दण्डः स्यादर्धमाषकः ॥२८॥अदण्ड्या हस्तिनोऽश्वाश्च प्रजापाला हि ते स्मृताः ।अदण्ड्या गर्भिणी गौश्च सूतिका चाभिसारिणी ॥२९॥प्रोक्तस्तु द्विर्निषण्णानां वसन्त्यां तु चतुर्गुणम् ।प्रत्यक्षचारकाणां तु चौरदण्डः स्मृटस्तथा ॥३०॥या नष्टाः पालदोषेण गावः क्षेत्रं समाश्रिताः ।न तत्र गोमिनो दण्डः पालस्तं दण्डं अर्हति ॥३१॥राजग्राहगृहीतो वा वज्राशनिहतोऽपि वा ।अथ सर्पेण दष्टो वा गिर्यग्रात्पतितोऽपि वा ॥३२॥सिंहव्याघ्रहतो वापि व्याधिभिः चैव पातितः ।न तत्र दोषः पालस्य न च दोषोऽस्ति गोमिनाम् ॥३३॥गोभिस्तु भक्षितं धान्यं यो नरः प्रतिमार्गति ।सामन्तस्य शदो देयो धान्यं यत्तत्र वापितम् ।गवत्रं गोमिने देयं धान्यं तत्कर्षिकस्य तु ॥३४॥ग्रामोपान्ते च यत्क्षेत्रं विवीतान्ते महापथे ।अनावृते चेत्तन्नाशे न पालस्य व्यतिक्रमः ॥३५॥पथि क्षेत्रे वृतिः कार्या यां उष्ट्रो नावलोकयेत् ।न लङ्घयेत्पशुर्नाश्वो न भिद्याद्यां च सूकरः ॥३६॥गृहं क्षेत्रं च विज्ञेयं वासहेतुः कुटुम्बिनाम् ।तस्मात्तन्नाक्षिपेद्राजा तद्धि मूलं कुटुम्बिनाम् ॥३७॥वृद्धे जनपदे राज्ञो धर्मः कोशश्च वर्धते ।हीयते हीयमाने च वृद्धिहेतुं अतः श्रयेत् ॥३८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP