संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|नारद स्मृतिः|व्यवहारपदानि| स्त्रीपुंसयोगः व्यवहारपदानि ऋणादानम् निक्षिपः संभूयसमुत्थानम् दत्ताप्रदानिकम् अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म अस्वामिविक्रयः क्रीतानुशयः विक्रीयासंप्रदानम् समयस्यानपाकर्म क्षेत्रजविवादः स्त्रीपुंसयोगः दायभागः साहसम् वाग्दण्डपारुष्ये द्यूतसमाह्वयम् प्रकीर्णकम् स्तेयम् दिव्यानि व्यवहारपदानि - स्त्रीपुंसयोगः स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmanaradasmritiधर्मनारदनारद स्मृतिःसंस्कृतस्मृतिः स्त्रीपुंसयोगः Translation - भाषांतर विवाहादिविधिः स्त्रीणां यत्र पुंसां च कीर्त्यते ।स्त्रीपुंसयोगनामैतद्विवादपदं उच्यते ॥१॥स्त्रीपुंसयोस्तु संबन्धाद्वरणं प्राग्विधीयते ।वरणाद्ग्रहणं पाणेः संस्कारोऽथ द्विलक्षणः ॥२॥तयोरनियतं प्रोक्तं वरणं दोषदर्शनात् ।पाणिग्रहणमन्त्राभ्यां नियतं दारलक्षणम् ॥३॥ब्राह्मणक्षत्रियविशां शूद्राणां च परिग्रहे ।स्वजात्या श्रेयसी भार्या स्वजात्यश्च पतिः स्त्रियाः ॥४॥ब्राह्मणस्यानुलोम्येन स्त्रियोऽन्यास्तिस्र एव तु ।शूद्रायाः प्रातिलोम्येन तथान्ये पतयस्त्रयः ॥५॥द्वे भार्ये क्षत्रियस्यान्ये वैश्यस्यैका प्रकीर्तिता ।वैश्याया द्वौ पती ज्ञेयावेकोऽन्यः क्षत्रियापतिः ॥६॥आ सप्तमात्पञ्चमाद्वा बन्धुभ्यः पितृमातृताः ।अविवाह्याः सगोत्राः स्युः समानप्रवरास्तथा ॥७॥परीक्ष्यः पुरुषः पुंस्त्वे निजैरेवाङ्गलक्षणैः ।पुमांश्चेदविकल्पेन स कन्यां लब्धुं अर्हति ॥८॥सुबद्धजत्रुजान्वस्थिः सुबद्धांसशिरोधरः ।स्थूलघाटस्तनूरुत्वगविलग्नगतिस्वरः ॥९॥विट्चास्य प्लवते नाप्सु ह्लादि मूत्रं च फेनिलम् ।पुमान्स्यांल्लक्षणैरेतैर्विपरीतैस्तु पण्डकः ॥१०॥चतुर्दशविधः शास्त्रे स तु दृष्टो मनीषिभिः ।चिकित्स्यश्चाचिकित्स्यश्च तेषां उक्तो विधिः क्रमात् ॥११॥निसर्गपण्डो वध्रिश्च पक्षपण्डस्तथैव च ।अभिशापाद्गुरो रोगाद्देवक्रोधात्तथैव च ॥१२॥ईर्ष्यापण्डश्च सेव्यश्च वातरेता मुखेभगः ।आक्षिप्तो मोघबीजश्च शालीनोऽन्यपतिस्तथा ॥१३॥तत्राद्यावप्रतीकरौ पक्षाख्यो मासं आचरेत् ।अनुक्रमात्त्रयस्यास्य कालः संवत्सरः स्मृतः ॥१४॥ईर्ष्यापण्डादयो येऽन्ये चत्वारः समुदाहृताः ।संत्यक्तव्याः पतितवत्क्षतयोन्या अपि स्त्रियाः ॥१५॥आक्षिप्तमोघबीजाभ्यां पत्यावप्रतिकर्मणि ।पतिरन्यः स्मृतो नार्या वत्सरं संप्रतीक्ष्य तु ॥१६॥शालीनस्यापि धृष्टस्त्री संयोगाद्भज्यते ध्वजः ।तं हीनवेगं अन्यस्त्री बालाद्याभिरुपक्रमेत् ॥१७॥अन्यस्यां यो मनुष्यः स्यादमनुष्यः स्वयोषिति ।लभेत सान्यं भर्तारं एतत्कार्यं प्रजापतेः ॥१८॥अपत्यार्थं स्त्रियः सृष्टाः स्त्री क्षेत्रं बीजिनः प्रजाः ।क्षेत्रं बीजवते देयं नाबीजी क्षेत्रं अर्हति ॥१९॥पिता दद्यात्स्वयं कन्यां भ्राता वानुमते पितुः ।मातामहो मातुलश्च सकुल्या बान्धवास्तथा ॥२०॥माताभावे तु सर्वेषां प्रकृतौ यदि वर्तते ।तस्यां अप्रकृतिस्थायां दद्युः कन्यां स्वजातयः ॥२१॥यदा तु नैव कश्चित्स्यात्कन्या राजानं आव्रजेत् ।अनुज्ञया तस्य वरं प्रतीत्य वरयेत्स्वयम् ॥२२॥सवर्णं अनुरूपं च कुलरूपवयःश्रुतैः ।सह धर्मं चरेत्तेन पुत्रांश्चोत्पादयेत्ततः ॥२३॥प्रतिगृह्य च यः कन्यां नरो देशान्तरं व्रजेत् ।त्रीनृतून्समतिक्रम्य कन्यान्यं वरयेद्वरम् ॥२४॥कन्या नर्तुं उपेक्षेत बान्धवेभ्यो निवेदयेत् ।ते चेन्न दद्युस्तां भर्त्रे ते स्युर्भ्रूणहभिः समाः ॥२५॥यावन्तश्च र्तवस्तस्याः समतीता पतिं विना ।तावत्यो भ्रूणहत्याः स्युस्तस्य यो न ददाति ताम् ॥२६॥अतोऽप्रवृत्ते रजसि कन्यां दद्यात्पिता सकृत् ।महदेनः स्पृशेदेनं अन्यथैष विधिः सताम् ॥२७॥सकृदंशो निपतति सकृत्कन्या प्रदीयते ।सकृदाह ददानीति त्रीण्येतानि सकृत्सकृत् ॥२८॥ब्राह्मादिषु विवाहेषु पञ्चस्वेषु विधिः स्मृतः ।गुणापेक्षं भवेद्दानं आसुरादिषु च त्रिषु ॥२९॥कन्यायां प्राप्तशुल्कायां ज्यायांश्चेद्वर आव्रजेत् ।धर्मार्थकामसंयुक्तं वाच्यं तत्रानृतं भवेत् ॥३०॥नादुष्टां दूषयेत्कन्यां नादुष्टं दूषयेद्वरम् ।दोषे तु सति नागः स्यादन्योन्यं त्यजतोस्तयोः ॥३१॥दत्त्वा न्यायेन यः कन्यां वराय न ददाति ताम् ।अदुष्टश्चेद्वरो राज्ञा स दण्ड्यस्तत्र चोरवत् ॥३२॥यस्तु दोषवतीं कन्यां अनाख्याय प्रयच्छति ।तस्य कुर्यान्नृपो दण्डं पूर्वसाहसचोदितम् ॥३३॥अकन्येति तु यः कन्यां ब्रूयाद्द्वेषेण मानवः ।स शतं प्राप्नुयाद्दण्डं तस्या दोषं अदर्शयन् ॥३४॥प्रतिगृह्य तु यः कन्यां अदुष्टां उत्सृजेद्वरः ।विनेयः सोऽप्यकामोऽपि कन्यां तां एव चोद्वहेत् ॥३५॥दीर्घकुत्सितरोगार्ता व्यङ्गा संसृष्टमैथुना ।धृष्टान्यगतभावा च कन्यादोषाः प्रकीर्तिताः ॥३६॥उन्मत्तः पतितः क्लीबो दुर्भगस्त्यक्तबान्धवः ।कन्यादोषौ च यौ पूर्वौ एष दोषगणो वरे ॥३७॥अष्टौ विवाहा वर्णानां संस्कारार्थं प्रकीर्तिताः ।ब्राह्मस्तु प्रथमस्तेषां प्राजापत्यस्तथैव च ॥३८॥आर्षश्चैवाथ दैवश्च गान्धर्वश्चासुरस्तथा ।राक्षसोऽनन्तरस्तस्मात्पैशाचस्त्वष्टमः स्मृतः ॥३९॥सत्कृत्याहूय कन्यां तु ब्राह्मे दद्याद्त्वलंकृताम् ।सह धर्मं चरेत्युक्त्वा प्राजापत्यो विधीयते ॥४०॥वस्त्रगोमिथुने दत्त्वा विवाहस्त्वार्ष उच्यते ।अन्तर्वेद्यां तु दैवः स्यादृत्विजे कर्म कुर्वते ॥४१॥इच्छन्तीं इच्छते प्राहुर्गान्धर्वो नाम पञ्चमम् ।विवाहस्त्वासुरो ज्ञेयः शुल्कसंव्यवहारतः ॥४२॥प्रसह्य हरणादुक्तो विवाहो राक्षसस्तथा ।सुप्तमत्तोपगमनात्पैशाचस्त्वष्टमोऽधमः ॥४३॥एषां तु धर्म्यास्चत्वारो ब्राह्माद्याः समुदाहृताः ।साधारणः स्याद्गान्धर्वस्त्रयोऽधर्म्यास्त्वतः परे ॥४४॥परपूर्वाः स्त्रियस्त्वन्याः सप्त प्रोक्ता यथाक्रमम् ।पुनर्भूस्त्रिविधा तासां स्वैरिणी तु चतुर्विधा ॥४५॥कन्यैवाक्षतयोनिर्या पाणिग्रहणदूषिता ।पुनर्भूः प्रथमा सोक्ता पुनः संस्कारं अर्हति ॥४६॥कौमारं पतिं उत्सृज्य यान्यं पुरुषं आश्रिता ।पुनः पत्युर्गृहं यायात्सा द्वितीया प्रकीर्तिता ॥४७॥असत्सु देवरेषु स्त्री बान्धवैर्या प्रदीयते ।सवर्णायासपिण्डाय सा तृतीया प्रकीर्तिता ॥४८॥स्त्री प्रसूताप्रसूता वा पत्यावेव तु जीवति ।कामात्समाश्रयेदन्यं प्रथमा स्वैरिणी तु सा ॥४९॥मृते भर्तरि या प्राप्तान्देवरानप्यपास्य तु ।उपगच्छेत्परं कामात्सा द्वितीया प्रकीर्तिता ॥५०॥प्राप्ता देशाद्धनक्रीता क्षुत्पिपासातुरा च या ।तवाहं इत्युपगता सा तृतीया प्रकीर्तिता ॥५१॥देशधर्मानपेक्ष्य स्त्री गुरुभिर्या प्रदीयते ।उत्पन्नसाहसान्यस्मै सान्त्या वै स्वैरिणी स्मृता ॥५२॥पुनर्भुवां एष विधिः स्वैरिणीनां च कीर्तितः ।पूर्वा पूर्वाजघन्यासां श्रेयसी तूत्तरोत्तरा ॥५३॥अपत्यं उत्पादयितुस्तासां या शुल्कतो हृता ।अशुल्कोपनतायां तु क्षेत्रिकस्यैव तत्फलम् ॥५४॥क्षेत्रिकस्य यदज्ञातं क्षेत्रे बीजं प्रदीयते ।न तत्र बीजिनो भागः क्षेत्रिकस्यैव तद्भवेत् ॥५५॥ओघवाताहृतं बीजं क्षेत्रे यस्य प्ररोहति ।फलभुग्यस्य तत्क्षेत्रं न बीजी फलभाग्भवेत् ॥५६॥महोक्षो जनयेद्वत्सान्यस्य गोषु व्रजे चरन् ।तस्य ते यस्य ता गावो मोघं स्यन्दितं आर्षभम् ॥५७॥क्षेत्रिकानुमतं बीजं यस्य क्षेत्रे प्रमुच्यते ।तदपत्यं द्वयोरेव बीजिक्षेत्रिकयोर्मतम् ॥५८॥नर्ते क्षेत्रं भवेत्सस्यं न च बीजं विनास्ति तत् ।अतोऽपत्यं द्वयोरिष्टं पितुर्मातुश्च धर्मतः ॥५९॥नाथवत्या परगृहे संयुक्तस्य स्त्रिया सह ।दृष्टं संग्रहणं तज्ज्ञैर्नागतायाः स्वयं गृहे ॥६०॥प्रदुष्टत्यक्तदारस्य क्लीबस्य क्षमकस्य च ।स्वेच्छयोपेयुषो दारान्न दोषः साहसो भवेत् ॥६१॥परस्त्रिया सहाकालेऽदेशे वा भवतो मिथः ।स्थानसंभाषणामोदास्त्रयः संग्रहणक्रमाः ॥६२॥नदीनां संगमे तीर्थेष्वारामेषु वनेषु च ।स्त्री पुमांश्च समेयातां ग्राह्यं संग्रहणं भवेत् ॥६३॥दूतीप्रस्थापनैश्चैव लेखासंप्रेषणैरपि ।अन्यैरपि व्यभिचारैः सर्वं संग्रहणं स्मृतम् ॥६४॥स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्शयेत्तथा ।परस्परस्यानुमते तच्च संग्रहणं भवेत् ॥६५॥भक्षैर्वा यदि वा भोज्यैर्वस्त्रैर्माल्यैस्तथैव च ।संप्रेष्यमानैर्गन्धैश्च सर्वं संग्रहणं स्मृतम् ॥६६॥दर्पाद्वा यदि वा मोहाच्छ्लाघया वा स्वयं वदेत् ।ममेयं भुक्तपूर्वेति सर्वं संग्रहणं स्मृतम् ॥६७॥पाणौ यश्च निगृह्णीयद्वेण्यां वस्त्रान्तरेऽपि वा ।तिष्ठ तिष्ठेति वा ब्रुयात्सर्वं संग्रहणं स्मृतम् ॥६८॥स्वजात्यतिक्रमे पुंसां उक्तं उत्तमसाहसम् ।विपर्यये मध्यमस्तु प्रातिलोमे प्रमापणम् ॥६९॥कन्यायां असकामायां द्व्याङ्गुलस्यावकर्तनम् ।उत्तमायां वधस्त्वेव सर्वस्वहरणं तथा ॥७०॥सकामायां तु कन्यायां सवर्णे नास्त्यतिक्रमः ।किंत्वलंकृत्य सत्कृत्य स एवैनां समुद्वहेत् ॥७१॥माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा ।पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥७२॥दुहिताचार्यभार्या च सगोत्रा शरणागता ।राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥७३॥आसां अन्यतमां गत्वा गुरुतल्पग उच्यते ।शिश्नस्योत्कर्तनं दण्डो नान्यस्तत्र विधीयते ॥७४॥पशुयोन्यां अतिक्रामन्विनेयः स दमं शतम् ।मध्यमं साहसं गोषु तदेवान्त्यावसायिषु ॥७५॥अगम्यागामिनः शास्ति दण्डो राज्ञा प्रचोदितः ।प्रायश्चित्तविधावत्र प्रायश्चित्तं विशोधनम् ॥७६॥स्वैरिण्यब्राह्मणी वेश्या दासी निष्कासिनी च या ।गम्याः स्युरानुलोम्येन स्त्रियो न प्रतिलोमतः ॥७७॥आस्वेव तु भुजिष्यासु दोषः स्यात्परदारवत् ।गम्या अपि हि नोपेयास्ताश्चेदन्यपरिग्रहाः ॥७८॥अनुत्पन्नप्रजायास्तु पतिः प्रेयाद्यदि स्त्रियाः ।नियुक्ता गुरुभिर्गच्छेद्देवरं पुत्रकाम्यया ॥७९॥स च तां प्रतिपद्येत तथैवा पुत्रजन्मतः ।पुत्रे जाते निवर्तेत विप्लवः स्यादतोऽन्यथा ॥८०॥घृतेनाभ्यज्य गात्राणि तैलेनाविकृतेन वा ।मुखान्मुखं परिहरन्गात्रैर्गात्राण्यसंस्पृशन् ॥८१॥स्त्रियं पुत्रवतीं वन्ध्यां नीरजस्कां अनिच्छन्तीम् ।न गच्छेद्गर्भिणीं निन्द्यां अनियुक्तां च बन्धुभिः ॥८२॥अनियुक्ता तु या नारी देवराज्जनयेत्सुतम् ।जारजातं अरिक्थीयं तं आहुर्धर्मवादिनः ॥८३॥तथानियुक्तो भार्यायां यवीयाञ् ज्यायसो व्रजेत् ।यवीयसो वा यो ज्यायानुभौ तौ गुरुतल्पगौ ॥८४॥कुले तदवशेषे तु संतानार्थं न कामतः ।नियुक्तो गुरुभिर्गच्छेद्भ्रातृभार्यां यवीयसः ॥८५॥अविद्यमाने तु गुरौ राज्ञो वाच्यः कुलक्षयः ।ततस्तद्वचनाद्गच्छेदनुशिष्य स्त्रिया सह ॥८६॥पूर्वोक्तेनैव विधिना स्नातां पुंसवने शुचिः ।सकृदा गर्भाधानाद्वा कृते गर्भे स्नुषैव सा ॥८७॥अतोऽन्यथा वर्तमानः पुमान्स्त्री वापि कामतः ।विनेयौ सुभृशं राज्ञा किल्बिषी स्यादनिग्रहात् ॥८८॥ईर्ष्यासूयसमुत्थे तु संरम्भे रागहेतुके ।दम्पती विवदेयातां न ज्ञातिषु न राजनि ॥८९॥अन्योन्यं त्यजतोर्नागः स्यादन्योन्यविरुद्धयोः ।स्त्रीपुंसयोर्निगूढाया व्यभिचारादृते स्त्रियाः ॥९०॥व्यभिचारे स्त्रिया मौण्ड्यं अधःशयनं एव च ।कदन्नं वा कुवासश्च कर्म चावस्करोञ्झनम् ॥९१॥स्त्रीधनभ्रष्टसर्वस्वां गर्भविस्रंसिनीं तथा ।भर्तुश्च वधं इच्छन्तीं स्त्रियं निर्वासयेद्गृहात् ॥९२॥अनर्थशीलां सततं तथैवाप्रियवादिनीम् ।पूर्वाशिनीं च या भर्तुः स्त्रियं निर्वासयेद्बुधः ॥९३॥वन्ध्यां स्त्रीजननीं निन्द्यां प्रतिकुलां च सर्वदा ।कामतो नाभिनन्देत कुर्वन्नेवं स दोषभाक् ॥९४॥अनुकूलां अवाग्दुष्टां दक्षां साध्वीं प्रजावतीम् ।त्यजन्भार्यां अवस्थाप्यो राज्ञा दण्डेन भूयसा ॥९५॥अज्ञातदोषेणोढा या निर्गता नान्यं आश्रिता ।बन्धुभिः सा नियोक्तव्या निर्बन्धुः स्वयं आश्रयेत् ॥९६॥नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ ।पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥९७॥अष्टौ वर्षाण्युदीक्षेत ब्राह्मणी प्रोषितं पतिम् ।अप्रसूता तु चत्वारि परतोऽन्यं समाश्रयेत् ॥९८॥क्षत्रिया षट्समास्तिष्ठेदप्रसूता समात्रयम् ।वैश्या प्रसूता चत्वारि द्वे समे त्वितरा वसेत् ॥९९॥न शूद्रायाः स्मृतः कालो न च धर्मव्यतिक्रमः ।विशेषतोऽप्रसूतायाः संवत्सरपरा स्थितिः ॥१००॥अप्रवृत्तौ स्मृतः धर्म एष प्रोषितयोषिताम् ।जीवति श्रूयमाणे तु स्यादेष द्विगुणो विधिः ॥१०१॥प्रजाप्रवृत्तौ भूतानां सृष्टिरेषा प्रजापतेः ।अतोऽन्यगमने स्त्रीणां एवं दोषो न विद्यते ॥१०२॥आनुलोम्येन वर्णानां यज्जन्म स विधिः स्मृतः ।प्रातिलोम्येन यज्जन्म स ज्ञेयो वर्णसंकरः ॥१०३॥अनन्तरः स्मृतः पुत्रः पुत्र एकान्तरस्तथा ।द्व्यन्तरश्चानुलोम्येन तथैव प्रतिलोमतः ॥१०४॥उग्रः पारशवश्चैव निषादश्चानुलोमतः ।उत्तमेभ्यस्त्रयस्त्रिभ्यः शूद्रापुत्राः प्रकीर्तिताः ॥१०५॥ब्राह्मण्या अपि चाण्डाल सूतवैदेहका अपि ।अपरेभ्यस्त्रयस्त्रिभ्या विज्ञेयः प्रतिलोमतः ॥१०६॥अम्बष्ठो मागधश्चैव क्षत्ता च क्षत्रियासुताः ।आनुलोम्येन तत्रैको द्वौ ज्ञेयौ प्रतिलोमतः ॥१०७॥वैश्यापुत्रास्तु दौष्षन्त यवनायोगवा अपि ।प्रातिलोम्येन यत्रैको द्वौ ज्ञेयौ चानुलोमजौ ॥१०८॥सूताद्याः प्रतिलोमास्तु ये जातिप्रतिलोमजाः ।ते संकराः श्वपाकाद्यास्तेषां त्रिः सप्तको गणः ॥१०९॥सवर्णो ब्राह्मणीपुत्रः क्षत्रियायां अनन्तरः ।अम्बष्ठोग्रौ तथा पुत्रावेवं क्षत्रियवैश्ययोः ॥११०॥एकान्तरस्तु दौष्षन्तो वैश्यायां ब्राह्मणात्सुतः ।शूद्रायां क्षत्रियात्तद्वन्निषादो नाम जायते ॥१११॥शूद्रा पारशवं सूते ब्राह्मणादुत्तरं सुतम् ।आनुलोम्येन वर्णानां पुत्रा ह्येते प्रकीर्तिताः ॥११२॥सूतश्च मागधश्चैव पुत्रावायोगवस्तथा ।प्रातिलोम्येन वर्णानां तद्वदेतेऽप्यनन्तराः ॥११३॥अनन्तरः स्मृतः सूतो ब्राह्मण्यां क्षत्रियात्सुतः ।मागधायोगवौ तद्वद्द्वी पुत्रौ वैश्यशूद्रयोः ॥११४॥ब्राह्मण्येकान्तरं वैश्यात्सूते वैदेहकं सुतम् ।क्षत्तारं क्षत्रिया शूद्रात्पुत्रं एकान्तरं तथा ॥११५॥द्व्यन्तरः प्रातिलोम्येन पापिष्ठः सति संकरे ।चाण्डालो जायते शूद्राद्ब्राह्मणी यत्र मुह्यति ॥११६॥राज्ञा परीक्ष्यं न यथा जायते वर्णसंकरः ।तस्माद्राज्ञा विशेषेण त्रयी रक्ष्या तु संकरात् ॥११७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP