संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|नारद स्मृतिः|व्यवहारपदानि| प्रकीर्णकम् व्यवहारपदानि ऋणादानम् निक्षिपः संभूयसमुत्थानम् दत्ताप्रदानिकम् अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म अस्वामिविक्रयः क्रीतानुशयः विक्रीयासंप्रदानम् समयस्यानपाकर्म क्षेत्रजविवादः स्त्रीपुंसयोगः दायभागः साहसम् वाग्दण्डपारुष्ये द्यूतसमाह्वयम् प्रकीर्णकम् स्तेयम् दिव्यानि व्यवहारपदानि - प्रकीर्णकम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmanaradasmritiधर्मनारदनारद स्मृतिःसंस्कृतस्मृतिः प्रकीर्णकम् Translation - भाषांतर प्रकीर्णके पुनर्ज्ञेया व्यवहारा नृपाश्रयाः ।राज्ञां आज्ञाप्रतीघातस्तत्कर्मकरणं तथा ॥१॥पुरप्रदानं संभेदः प्रकृतीनां तथैव च ।पाषण्डनैगमश्रेणी गणधर्मविपर्ययाः ॥२॥पितृपुत्रविवादश्च प्रायश्चित्तव्यतिक्रमः ।प्रतिग्रहविलोपश्च कोप आश्रमिणां अपि ॥३॥वर्णसंकरदोषश्च तद्वृत्तिनियमस्तथा ।न दृष्टं यच्च पूर्वेषु तत्सर्वं स्यात्प्रकीर्णके ॥४॥राजा त्ववहितः सर्वानाश्रमान्परिपालयेत् ।उपायैः शास्त्रविहितैश्चतुर्भिः प्रकृतैस्तथा ॥५॥यो यो वर्णोऽवहीयेत यो वोद्रेकं अनुव्रजेत् ।तं तं दृष्ट्वा स्वतो मार्गात्प्रच्युतं स्थापयेत्पथि ॥६॥अशास्त्रोक्तेषु चान्येषु पापयुक्तेषु कर्मसु ।प्रसमीक्ष्यात्मनो राजा दण्डं दण्ड्येषु पातयेत् ॥७॥श्रुतिस्मृतिविरुद्धं च जनानां अहितं च यत् ।न तत्प्रवर्तयेद्राजा प्रवृत्तं च निवर्तयेत् ॥८॥न्यायापेतं यदन्येन राज्ञाज्ञानकृतं च यत् ।तदप्यन्यायविहितं पुनर्न्याये निवेशयेत् ॥९॥राज्ञा प्रवर्तितान्धर्मान्यो नरो नानुपालयेत् ।दण्ड्यः स पापो वध्यश्च लोपयन्राजशासनम् ॥१०॥आयुधान्यायुधीयानां वाह्यादीन्वाह्यजीविनाम् ।वेश्यास्त्रीणां अलंकारं वाद्यातोद्यानि तद्विदाम् ॥११॥यच्च यस्योपकरणं येन जीवन्ति कारुकाः ।सर्वस्वहरणेऽप्येतान्न राजा हर्तुं अर्हति ॥१२॥अनादिश्चाप्यनन्तश्च द्विपदां पृथिवीपतिः ।दीप्तिमत्वाच्छुचित्वाच्च यदि न स्यात्पथश्च्युतः ॥१३॥यदि राजा न सर्वेषां वर्णानां दण्डधारणम् ।कुर्यात्पथो व्यपेतानां विनश्येयुरिमाः प्रजाः ॥१४॥ब्राह्मण्यं ब्राह्मणो जह्यात्क्षत्रियः क्षात्रं उत्सृजेत् ।स्वकर्म जह्याद्वैश्यस्तु शूद्रः सर्वान्विशेषयेत् ॥१५॥राजानश्चेन्नाभविष्यन्पृथिव्यां दण्डधारणम् ।शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः ॥१६॥सतां अनुग्रहो नित्यं असतां निग्रहस्तथा ।एष धर्मः स्मृतो राज्ञां अर्थश्चामित्रपीडनात् ॥१७॥न लिप्यते यथा वह्निर्दहञ् छश्वदिमाः प्रजाः ।न लिप्यते तथा राजा दण्डं दण्ड्येषु पातयन् ॥१८॥आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता ।ते यद्ब्रूयुरसत्सद्वा स धर्मो व्यवहारिणाम् ॥१९॥राजा नाम चरत्येष भूमौ साक्षात्सहस्रदृक् ।न तस्याज्ञां अतिक्रम्य संतिष्ठेरन्प्रजाः क्वचित् ॥२०॥रक्षाधिकारादीशत्वाद्भूतानुग्रहदर्शनात् ।यदेव राजा कुरुते तत्प्रमाणं इति स्थितिः ॥२१॥निर्गुणोऽपि यथा स्त्रीणां पूज्य एव पतिः सदा ।प्रजानां विगुणोऽप्येवं पूज्य एव नराधिपः ॥२२॥तपःक्रीताः प्रजा राज्ञा प्रभुरासां ततो नृपः ।ततस्तद्वचसि स्थेयं वार्ता चासां तदाश्रया ॥२३॥पञ्च रूपाणि राजानो धारयन्त्यमितौजसः ।अग्नेरिन्द्रस्य सोमस्य यमस्य धनदस्य च ॥२४॥कारणादनिमित्तं वा यदा क्रोधवशं गतः ।प्रजा दहति भूपालस्तदाग्निरभिधीयते ॥२५॥यदा तेजः समालम्ब्य विजिगीषुरुदायुधः ।अभियाति परान्राजा तदेन्द्रः स उदाहृतः ॥२६॥विगतक्रोधसंतापो हृष्टरूपो यदा नृपः ।प्रजानां दर्शनं याति सोम इत्युच्यते तदा ॥२७॥धर्मासनगतः श्रीमान्दण्डं धत्ते यदा नृपः ।समः सर्वेषु भूतेषु तदा वैवस्वतः यमः ॥२८॥यदा त्वर्थिगुरुप्राज्ञ भृत्यादीनवनीपतिः ।अनुगृह्णाति दानेन तदा स धनदः स्मृतः ॥२९॥तस्मात्तं नावजानीयान्नाक्रोशेन्न विशेषयेत् ।आज्ञायां चास्य तिष्ठेत मृत्युः स्यात्तद्व्यतिक्रमात् ॥३०॥तस्य वृत्तिः प्रजारक्षा वृद्धप्राज्ञोपसेवनम् ।दर्शनं व्यवहाराणां आत्मनश्चाभिरक्षणम् ॥३१॥ब्राह्मणानुपसेवेत नित्यं राजा समाहितः ।संयुक्तं ब्राह्मणैः क्षत्रं मूलं लोकाभिरक्षणे ॥३२॥ब्राह्मणस्यापरीहारो राजन्यासनं अग्रतः ।प्रथमं दर्शनं प्रातः सर्वेभ्यश्चाभिवादनम् ॥३३॥अग्रं नवेभ्यः सस्येभ्यो मार्गदानं च गच्छतः ।भैक्षहेतोः परागारे प्रवेशस्त्वनिवारितः ॥३४॥समित्पुष्पोदकादानेष्वस्तेयं सपरिग्रहात् ।अनाक्षेपः परेभ्यश्च संभाषश्च परस्त्रिया ॥३५॥नदीष्ववेतनस्तारः पूर्वं उत्तरणं तथा ।तरेष्वशुल्कदानं च न चेद्वाणिज्यं अस्य तत् ॥३६॥वर्तमानोऽध्वनि श्रान्तो गृह्णन्ननिवसन्स्वयम् ।ब्राह्मणो नापराध्नोति द्वाविक्षू पञ्च मूलकान् ॥३७॥नाभिशस्तान्न पतितान्न द्विषो न च नास्तिकात् ।न सोपधान्नानिमित्तं न दातारं प्रपीड्य च ॥३८॥अर्थानां भूरिभावाच्च देयत्वाच्च महात्मनाम् ।श्रेयान्प्रतिग्रहो राज्ञां अन्येषां ब्राह्मणादृते ॥३९॥ब्राह्मणश्चैव राजा च द्वावप्येतौ धृतव्रतौ ।नैतयोरन्तरं किंचित्प्रजाधर्माभिरक्षणात् ॥४०॥धर्मज्ञस्य कृतज्ञस्य रक्षार्थं शासतोऽशुचीन् ।मेध्यं एव धनं प्राहुस्तीक्ष्णस्यापि महीपतेः ॥४१॥शुचीनां अशुचीनां च संनिपातो यथाम्भसाम् ।समुद्रे समतां याति तद्वद्राज्ञो धनागमः ॥४२॥यथा चाग्नौ स्थितं दीप्ते शुद्धिं आयाति काञ्चनम् ।एवं एवागमा सर्वे शुद्धिं आयान्ति राजसु ॥४३॥य एव कश्चित्स्वद्रव्यं ब्राह्मणेभ्यः प्रयच्छति ।तद्राज्ञाप्यनुमन्तव्यं एष धर्मः सनातनः ॥४४॥अन्यप्रकारादुचिताद्भूमेः षड्भागसंज्ञितात् ।बलिः स तस्य विहितः प्रजापालनवेतनम् ॥४५॥शक्यं तत्पुनरादातुं यदब्राह्मणसात्कृतम् ।ब्राह्मणाय तु यद्दत्तं न तस्य हरणं पुनः ॥४६॥दानं अध्ययनं यज्ञस्तस्य कर्म त्रिलक्षणम् ।याजनाध्यापने वृत्तिस्तृतीयस्तु प्रतिग्रहः ॥४७॥स्वकर्मणि द्विजस्तिष्ठेद्वृत्तिं आहारयेत्कृताम् ।नासद्भ्यः प्रतिगृह्णीयाद्वर्णेभ्यो नियमेऽसति ॥४८॥अशुचिर्वचनाद्यस्य शुचिर्भवति पुरुषः ।शुचिश्चैवाशुचिः सद्यः कथं राजा न दैवतम् ॥४९॥विदुर्य एव देवत्वं राज्ञो ह्यमिततेजसः ।तस्य ते प्रतिगृह्णन्तो न लिप्यन्ते द्विजातयः ॥५०॥लोकेऽस्मिन्मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः ।हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः ॥५१॥एतानि सततं पश्येन्नमस्येदर्चयेच्च तान् ।प्रदक्षिणं च कुर्वीत तथा ह्यायुर्न हीयते ॥५२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP