संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|नारद स्मृतिः|व्यवहारपदानि| साहसम् व्यवहारपदानि ऋणादानम् निक्षिपः संभूयसमुत्थानम् दत्ताप्रदानिकम् अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म अस्वामिविक्रयः क्रीतानुशयः विक्रीयासंप्रदानम् समयस्यानपाकर्म क्षेत्रजविवादः स्त्रीपुंसयोगः दायभागः साहसम् वाग्दण्डपारुष्ये द्यूतसमाह्वयम् प्रकीर्णकम् स्तेयम् दिव्यानि व्यवहारपदानि - साहसम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmanaradasmritiधर्मनारदनारद स्मृतिःसंस्कृतस्मृतिः साहसम् Translation - भाषांतर सहसा क्रियते कर्म यत्किंचिद्बलदर्पितैः ।तत्साहसं इति प्रोक्तं सहो बलं इहोच्यते ॥१॥तत्पुनस्त्रिविधं ज्ञेयं प्रथमं मध्यमं तथा ।उत्तमं चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥२॥फलमूलोदकादीनां क्षेत्रोपकरणस्य च ।भङ्गाक्षेपोपमर्दाद्यैः प्रथमं साहसं स्मृतम् ॥३॥वासःपश्वन्नपानानां गृहोपकरणस्य च ।एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् ॥४॥व्यापादो विषशस्त्राद्यैः परदारप्रधर्षणम् ।प्राणोपरोधि यच्चान्यदुक्तं उत्तमसाहसम् ॥५॥तस्य दण्डः क्रियापेक्षः प्रथमस्य शतावरः ।मध्यमस्य तु शास्त्रज्ञैर्ज्ञेयः पञ्चशतावरः ॥६॥वधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने ।तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसे ॥७॥अविशेषेण सर्वेषां एष दण्डविधिः स्मृतः ।वधादृते ब्राह्मणस्य न वधं ब्राह्मणोऽर्हति ॥८॥शिरसो मुण्डनं दण्डस्तस्य निर्वासनं पुरात् ।ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च ॥९॥स्यातां संव्यवहार्यौ तौ धृतदण्डौ तु पूर्वयोः ।धृतदण्डोऽप्यसंभोज्यो ज्ञेय उत्तमसाहसे ॥१०॥तस्यैव भेदः स्तेयं स्याद्विशेषस्तत्र चोच्यते ।अतिसाहसं आक्रम्य स्तेयं आहुश्छलेन तु ॥११॥तदपि त्रिविधं प्रोक्तं द्रव्यापेक्षं मनीषिभिः ।क्षुद्रमध्योत्तमानां तु द्रव्याणां अपकर्षणात् ॥१२॥मृद्भाण्डासनखट्वास्थि दारुचर्मतृणादि यत् ।शमीधान्यमुद्गादीनि क्षुद्रद्रव्यं उदाहृतम् ॥१३॥वासः कौशेयवर्जं च गोवर्जं पशवस्तथा ।हिरण्यवर्जं लोहं च मध्यं व्रीहियवा अपि ॥१४॥हिरण्यरत्नकौशेय स्त्रीपुंगोगजवाजिनः ।देवब्राह्मणराज्ञां च द्रव्यं विज्ञेयं उत्तमम् ॥१५॥उपायैर्विविधैरेषां छलयित्वापकर्षणम् ।सुप्तप्रमत्तमत्तेभ्यः स्तेयं आहुर्मनीषिणः ॥१६॥सहोढग्रहणात्स्तेयं होढेऽसत्युपभोगतः ।शङ्का त्वसज्जनैकार्थ्यादनायव्ययतस्तथा ॥१७॥भक्तावकाशदातारः स्तेनानां ये प्रसर्पताम् ।शक्ताश्च य उपेक्षन्ते तेऽपि तद्दोषभागिनः ॥१८॥उत्क्रोशतां जनानां च ह्रियमाणे धनेऽपि च ।श्रुत्वा ये नाभिधावन्ति तेऽपि तद्दोषभागिनः ॥१९॥साहसेषु य एवोक्तस्त्रिषु दण्डो मनीषिभिः ।स एव दण्डः स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात् ॥२०॥गवादिषु प्रणष्टेषु द्रव्येष्वपहृतेषु वा ।पदेनान्वेषणं कुर्युरा मूलात्तद्विदो जनाः ॥२१॥ग्रामे व्रजे विवीते वा यत्र संनिपतेत्पदम् ।वोढव्यं तद्भवेत्तेन न चेत्सोऽन्यत्र तन्नयेत् ॥२२॥पदे प्रमूढे भग्ने वा विषमत्वाज्जनान्तिके ।यस्त्वासन्नतरो ग्रामो व्रजो वा तत्र पातयेत् ॥२३॥समेऽध्वनि द्वयोर्यत्र तेन प्रायोऽशुचिर्जनः ।पूर्वापदानैर्दृष्टो वा संसृष्टो वा दुरात्मभिः ॥२४॥ग्रामेष्वन्वेषणं कुर्युश्चण्डालवधकादयः ।रात्रिसंचारिणो ये च बहिः कुर्युर्बहिश्चराः ॥२५॥स्तेनेष्वलभ्यमानेषु राजा दद्यात्स्वकाद्धनात् ।उपेक्षमाणो ह्येनस्वी धर्मादर्थाच्च हीयते ॥२६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP