TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः ५०

उत्तरभागः - अध्यायः ५०

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


अध्यायः ५०
ऋषय ऊचुः ॥
निग्रहः कथितस्तेन शिववक्त्रेण शूलिना ॥
कृतापरांधिनां तं तु वक्तुमर्हसि सुव्रत ॥१॥

त्वया नविदिनं नास्ति लौकिकं वैदिकं तथा ॥
श्रौतं स्मार्तं महाभाग रोमहर्षण सुव्रत ॥२॥

सूत उवाच ॥
पुरा भृगुसुतेनोक्तो हिरण्याक्षाय सुव्रताः ॥
निग्रहोऽघोरशिष्येण शुक्रेणाक्षयतेजसा ॥३॥

तस्य प्रसादद्दैत्येंद्रो हिरण्याक्षः प्रतापवान् ॥
त्रैलोक्यमखिलं जित्वा सदेवासुरमानुषम् ॥४॥

उत्पाद्य पुत्रं गणपं चांधकं चारुविक्रमम् ॥
रराज लोके देवेन वराहेण निषूदितः ॥५॥

स्त्रीबाधां बालबाधां च गवामपि विशेषतः ॥
कुर्वतो नास्ति विजयो मार्गेणानेन भूतले ॥६॥

तेन दैत्येन सा देवी धरा नीता रसातलम् ॥
तेनाघोरेण देवेन निष्फलो निग्रहः कृतः ॥७॥

संवत्सर सहस्रांते वराहेण च सूदितः ॥
तस्मादघोरसिद्ध्यर्थं ब्राह्मणान्नैव बाधयेत् ॥८॥

स्त्रीणामपि विशेषेण गवामपि न कारयेत् ॥
गुह्याद्गुह्यतमंगोप्यमतिगुह्यं वदामि वः ॥९॥

आततायिनमुद्दिश्य कर्तव्यं नृपसत्तमैः ॥
ब्राह्मणेभ्यो न कर्तव्यं स्वराष्ट्रेशस्य वा पुनः ॥१०॥

अतीवदुर्जये प्राप्ते बले सर्वे निषूदिते ॥
अधर्मयुद्धे संप्राप्ते कुर्याद्विधिमनुत्तमम् ॥११॥

अघृणेनैव कर्तव्यो ह्यघृणेनैव कारयेत् ॥
कृतमात्रे न संदेहो निग्रहः संप्रजायते ॥१२॥

लक्षमात्रं पुमाञ्जप्त्वा अघोरं घोररूपिणम् ॥
दशांशं विधिना हुत्वा तिलेन द्विजसत्तमाः ॥१३॥

संपूज्य लक्षपुष्पेण सितेन विधिपूर्वकम् ॥
बाणलिंगेऽथवा वह्नौ दक्षिणामूर्तिमाश्रितः ॥१४॥

सिद्धमंत्रोऽन्यता नास्ति द्रष्टा सिद्ध्यादयः पुनः ॥
सिद्धमंत्रः स्वयं कुर्यात्प्रेतस्थाने विशेषतः ॥१५॥

मातृस्थानेऽपि वा विद्वान्वेदवेदांगपारगः ॥
केवलं मंत्रसिद्धो वा ब्राह्मणः शिवभावितः ॥१६॥

कुर्याद्विधिमिमं धीमानात्मनोऽर्थं नृपस्य वा ॥
सूलाष्टकं न्यसेद्विद्वान्पूर्वादीशानकांतकम् ॥१७॥

त्रिशिखं च त्रिशूलं च चतुर्विशाच्छिकाग्रतः ॥
अघोरविग्रहं कृत्वा संकलीकृतविग्रहः ॥१८॥

सर्वनाशकरं ध्यात्वा सर्वकर्माणि कारयेत् ॥
कालाग्निकोटिसंकाशं स्वदेहमपि भावयेत् ॥१९॥

शूलं कपालं पाशं च दंडं चैव शरासनम् ॥
बाणं डमरुकं खड्गमष्टायुधमनुक्रमात् ॥२०॥

अष्टहस्तश्च वरदो नीलकंठो दिगंबरः ॥
पंचतत्त्वसमारूढो ह्यर्धचंद्रधरः प्रभुः ॥२१॥

दंष्ट्राकरालवदनो रौद्रदृष्टिर्भयंकरः ॥
हुंफट्कारमहाशब्दशब्दिताखिलदिङ्मुखः ॥२२॥

त्रिनेत्रं नागपाशेन सुबद्धमुकुटं स्वयम् ॥
सर्वाभरणसंपन्नं प्रेतभस्मावगुंठितम् ॥२३॥

भूतैः प्रेतैः पिशाचैश्च डाकिनीभिश्च राक्षसैः ॥
संवृतं गजकृत्त्वा च सर्पभूषणभूषितम् ॥२४॥

वृश्चिकाभरणं देवं नीलनीरदनिस्वनम् ॥
नीलांजनाद्रिसंकाशं सिंहचर्मोत्तरीयकम् ॥२५॥

ध्यायेदेवमघोरेशं घोरघोरतरं शिवम् ॥
षट्त्रिंशदुक्तमात्राभिः प्राणायामेन सुव्रताः ॥२६॥

महामुद्रासमायुक्तः सर्वकर्माणि कारयेत् ॥
सिद्धमंत्रश्चिताग्नौ वा प्रेतस्थाने यथाविधि ॥२७॥

स्थापयेन्मध्यदेशे तु ऐंद्रे याम्ये च वारुणे ॥
कौबेर्यां विदिवत्कृत्वा होमकुंडानि शास्त्रतः ॥२८॥

आचार्यो मध्यकुंडे तु साधकाश्च दिशासु वै ॥
परिस्तीर्य विलोमेन पूर्ववच्छूलसंभृतः ॥२९॥

कालाग्निपीठमध्यस्थः स्वयं शिष्यैश्च तादृशैः ॥
ध्यात्वा घोरमघोरेशं द्वात्रिंशाक्षरसंयुतम् ॥३०॥

विभीतकेन वै कृत्वा द्वादशांगुलमानतः ॥
पीठे न्यस्य नृपेंद्रस्य शत्रुमंगारकेण तु ॥३१॥

कुंडस्याधः खनेच्छत्रुं ब्राह्मणः क्रोधमूर्च्छितः ॥
अधोमुखोर्ध्वपादं तु सर्वकुंडेषु यत्नतः ॥३२॥

श्मशानांगारमानीय तुषेण सह दाहयेत् ॥
तत्राग्निं स्थापयेत्तूष्णीं ब्रह्मचर्यपरायणः ॥३३॥

मायूरास्त्रेण नाभ्यां तु ज्वलनं दीपयेत्ततः ॥
कंचुकं तुषसंयुक्तैः कार्पासास्थिसमन्वितैः ॥३४॥

रक्तवस्त्रसमं मिश्रैर्होमद्रव्यैर्विशेषतः ॥
हस्तयंत्रोद्भवैस्तैलैः सह होमं तु कारयेत् ॥३५॥

अष्टोत्तरसहस्रं तु होमयेदनुपूर्वशः ॥
कृष्णपक्षे चतुर्दश्यां समारभ्य यथाक्रमम् ॥३६॥

अष्टम्यंतं तथांगारमंडलस्थानवर्जितः ॥
एवं कृते नृपेंद्रस्य शत्रवः कुलजैः सह ॥३७॥

सर्वदुःखसमोपेताः प्रयांति यमसादनम् ॥
मंत्रेणानेन चादाय नृकपाले नखं तथा ॥३८॥

केशं नृणां तथांगारं तुषं कंचुकमेव च ॥
चीरच्छटां राजधूलीं गृहसंमार्जनस्य वा ॥३९॥

विषसर्पस्य दंतानि वृषदंतानि यानि तु ॥
गवां चैव क्रमेणैव व्याघ्रदंतनखानि च ॥४०॥

तथा कृष्णमृगाणां च बिडालस्य च पूर्ववत् ॥
नकुलस्य च दंतानि वराहस्य विशेषतः ॥४१॥

दंष्ट्राणि साधयित्वा तु मंत्रेणानेन सुव्रताः ॥
जपेदष्टोत्तरशतं मंत्रं चाघोरमुत्तमम् ॥४२॥

तत्कपालं नखं क्षेत्रे गृहे वा नगरेऽपि वा ॥
प्रेतस्थानेऽपि वा राष्ट्रे मृतवस्त्रेण वेष्टयेत् ॥४३॥

शत्रोरष्टमाराशौ वा परिविष्टे दिवाकरे ॥
सोमे वा परिविष्टे तु मंत्रेणानेन सुव्रताः ॥४४॥

स्थाननाशो भवेत्तस्य शत्रोर्नाशश्च जायते ॥
शत्रुं राज्ञः समालिख्य गमने समवस्थिते ॥४५॥

भूतले दर्पणप्रख्ये वितानोपरि शोभिते ॥
चतुस्तोरणसंयुक्ते दर्भमालासमावृते ॥४६॥

वेदाध्ययनसंपन्ने राष्ट्रे वृद्धिप्रकाशके ॥
दक्षिणेन तु पादेन मूर्ध्नि संताडयेत्स्वयम् ॥४७॥

एवं कृते नृपेंद्रस्य शत्रुनाशो भविष्यति ॥
स्वाराष्ट्रपतिमुद्दिश्य यः कुर्यादाभिचारिकम् ॥४८॥

स आत्मानं निहत्यैव स्वकुलं नाशयेत्कुधीः ॥
तस्मात्स्वराष्ट्रगांप्तारं नृपतिं पालयेत्सदा ॥४९॥

मंत्रैषधिक्रियाद्यैश्च सर्वयत्नेन सर्वदा ॥
एतद्रहस्यं कथितं न देयं यस्य कस्यचित् ॥५०॥

इति श्रीलिंगमहापुराणे उत्तरभागे पंचाशत्तमोऽध्यायः ॥५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:31.8670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

चोरा सोडून संन्यासा सुळीं

  • (गो.) चोराला सोडून संन्याशाला सुळी देणें. खरा अपराधी सोडून निरपराध्याला शिक्षा करणें. 
RANDOM WORD

Did you know?

Wife disgracing, defaming her husband, what is the solution ?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.