संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः १०

उत्तरभागः - अध्यायः १०

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


सनत्कुमार उवाच ॥
भूय एव ममाचक्ष्व महिमानमुमापतेः ॥
भवभक्त महाप्राज्ञ भगवन्नंदिकेश्वर ॥१॥

शैलादिरुवाच ॥
सनत्कुमार संक्षेपात्तव वक्ष्याम्यशेषतः ॥
महिमानं महेशस्य भवस्य परमेष्ठिनः ॥२॥

नास्य प्रकृतिबंधोऽभूद्बुद्धिबंधो न कश्चन ॥
न चाहंकारबंधश्च मनोबंधश्च नोऽभवत् ॥३॥

चित्तबन्धो न तस्याभूच्छ्रोत्रबंधो न चाभवत् ॥
न त्वचां चक्षुषां वापि बंधो जज्ञे कदाचन ॥४॥

जिह्वाबंधो न तस्याभूद्घ्राणबंधो न कश्चन ॥
पादबंधः पाणिबंधो वाग्बंधश्चैव सुव्रत ॥५॥

उपस्थेंद्रिय बंधश्च भूततन्मात्रबंधनम् ॥
नित्यशुद्धस्वभावेन नित्यबुद्धो निसर्गतः ॥६॥

नित्यमुक्त इति प्रोक्तो मुनिभिस्तत्त्ववेदिभिः ॥
अनादि मध्यनिष्ठस्य शिवस्य परमेष्ठिनः ॥७॥

बुद्धिं सूते नियोगेन प्रकृतिः पुरुषस्य च ॥
अहंकारं प्रसूतेऽस्या बुद्धिस्तस्य नियोगतः ॥८॥

अंतर्यामीति देहेषु प्रसिद्धस्य स्वयंभुवः ॥
इंद्रियाणि दशैकं च तन्मात्राणि च शासनात् ॥९॥

अहंकारोऽतिसंसूते शिवस्य परमेष्ठिनः ॥
तन्मात्राणि नियोगेन तस्य संसुक्ते प्रभो ॥१०॥

महाभूतान्यशेषेण महादेवस्य धीमतः ॥
ब्रह्मादीनां तृणांतं हि देहिनां देहसंगतिम् ॥११॥

महाभूतान्यशेषाणि जनयंति शिवाज्ञया ॥
अध्यवस्यति सर्वार्थान्बुद्धिस्तस्याज्ञया विभोः ॥१२॥

अंतर्यामीति देहेषु प्रसिद्धस्य स्वयंभुवः ॥
स्वभावसिद्धमैश्वर्यं स्वभावादेव भूतयः ॥१३॥

तस्याज्ञया समस्तार्थानहंकारोऽतिमन्यते ॥
चित्तं चेतयते चापि मनः संकल्पयत्यपि ॥१४॥

श्रोत्रं श्रृणोति तच्छक्त्या शब्दस्पर्शादिकं च यत् ॥
शंभोराज्ञबलेनैव भवस्य परमेष्ठिनः ॥१५॥

वचनं कुरुते वाक्यं नादानादि कदाचन ॥
शरीराणामशेषाणां तस्य देवस्य शासनात् ॥१६॥

करोति पाणिरादानं न गत्यादि कदाचन ॥
सर्वेषामेव जंतूनां नियमादेव वेधसः ॥१७॥

विहारं कुरुते पादो नोत्सर्गादि कदाचन ॥
समस्तदेहिवृंदानां शिवस्यैव नियोगतः ॥१८॥

उत्सर्गं कुरुते पायुर्न वदेत कदाचन ॥
जंतोर्जातस्य सर्वस्य परमेश्वरशानात् ॥१९॥

आनंदं कुरुते शश्वदुपस्थं वचनाद्विभोः ॥
सर्वेषामेव भूतानामीश्वरस्यैव शासनात् ॥२०॥

अवकाशमशेषाणां भूतानां संप्रयच्छति ॥
आकाशं सर्वदा तस्य परमस्यैव शासनात् ॥२१॥

निर्देशेन शिवस्यैव भेदैः प्राणादिभिर्निजैः ॥
बिभर्त्ति सर्वभूतानां शरीराणि प्रभंजनः ॥२२॥

निर्देशाद्देवदेवस्य सप्तस्कंधगतो मरुत् ॥
लोकयात्रां वहत्येव भेदैः स्वैरावहादिभिः ॥२३॥

नागाद्यैः पंचभिर्भेदैः शरीरेषु प्रवर्तते ॥
अपदेशेन देवस्य परमस्य समीरणः ॥२४॥

हव्यं वहति देवानां कव्यं कव्याशिनामपि ॥
पाकं च कुरुते वह्निः शंकरस्यैव शासनात् ॥२५॥

भुक्तमाहारजातं यत्पचते देहिनां तथा ॥
उदरस्थः सदा वह्निर्विश्वेश्वरनियोगतः ॥२६॥

संजीवयंत्यशेषाणि भूतान्यापस्तदाज्ञया ॥
अविलंघ्या हि सर्वेषामाज्ञा तस्य गरीयसी ॥२७॥

चराचराणि भूतानि बिभर्त्येव तदाज्ञया ॥
आज्ञया तस्य देवस्य देवदेवः पुरंदरः ॥२८॥

जीवतां व्याधिभिः पीडां मृतानां यातनाशतैः ॥
विश्वंभरः सदाकालं लोकैः सर्वैरलंघ्यया ॥२९॥

देवान्पात्य सुरान् हंति त्रैलोक्यमखिलं स्थितः ॥
अधार्मिकाणां वै नाशं करोति शिवशासनात् ॥३०॥

वरुणः सलिलैर्लोकान्संभावयति शासनात् ॥
मज्जयत्याज्ञया तस्य पाशैर्बध्नाति चासुरान् ॥३१॥

पुण्यानुरपं सर्वेषां प्राणिनां संप्रयच्छति ॥
वित्तं वित्तेश्वरस्तस्य शासनात्परमोष्ठिनः ॥३२॥

उदयास्तमये कुर्वन्कुरुते कालमाज्ञया ॥
आदित्यस्तस्य नित्यस्य सत्यस्यपरमात्मनः ॥३३॥

पुष्पाण्यौषधिजातानि प्रह्लादयति च प्रजाः ॥
अमृतांशुः कलाधारः कालकालस्य शासनात् ॥३४॥

आदित्या वसवो रुद्रा अश्विनौ मरुतस्तथा ॥
अन्याश्च देवताः सर्वास्तच्छासनविनिर्मिताः ॥३५॥

गंधर्वा देवसंवाश्च सिद्धाः साध्याश्च चारणाः ॥
यक्षरक्षःपिशाचाश्च स्थिताः शास्त्रेषु वेधसः ॥३६॥

ग्रहनक्षत्रताराश्च यज्ञा वेदास्तपांसि च ॥
ऋषीणां च गणाः सर्वे शासनं तस्य धिष्ठिताः ॥३७॥

कव्याशिनां गणाः सप्तसमुद्रा गिरिसिंधवः ॥
शासने तस्य वर्तन्ते काननानि सरांसि च ॥३८॥

कलाः काष्ठा निमेषाश्चमुहूर्ता दिवसाः क्षपाः ॥
ऋत्वब्दपक्षमासाश्च नियोगात्तस्य धिष्ठिताः ॥३९॥

युगमन्वंतराण्यस्य शंभोस्तिष्ठंति शासनात् ॥
पराश्चैवपरार्धाश्च कालभेदास्तथापरे ॥४०॥

देवानां जातयश्चाष्टौ तिरश्चां पंच जातयः ॥
मनुष्याश्च प्रवर्तंते देवदेवस्य धीमतः ॥४१॥

जातानि भूतवृंदानि चतुर्दशसु योनिषु ॥
सर्वलोकनिषण्णानि तिष्ठंत्यस्यैव शासनात् ॥४२॥

चतुर्दशसु लोकेषु स्थिता जाताः प्रजाः प्रभोः ॥
सर्वेश्वरस्य तस्यैव नियोगवशवर्तिनः ॥४३॥

पातालानि समस्तानि भुवनान्यस्य शासनात् ॥
ब्रह्मांडानि च शेषाणि तथा सावरणानि च ॥४४॥

वर्तमानानि सर्वाणि ब्रह्मांडानि तदाज्ञया ॥
वर्तंते सर्वभूताद्यैः समेतानि समंततः ॥४५॥

अतीतान्यप्यसंख्यानि ब्रह्मांडानि तदाज्ञया ॥
प्रवृत्तानि पदार्थौघैः सहितानि समंततः ॥४६॥

ब्रह्मांडानि भविष्यंति सह वस्तुभिरात्मक्तैः ॥
करिष्यंति शिवस्याज्ञां सर्वैरावरणैः सह ॥४७॥

इति श्रीलिंगमहापुराणे उत्तरभागे दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP