संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः २

उत्तरभागः - अध्यायः २

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


मार्कंडेय उवाच ॥
ततो नारायणो देवस्तस्मै सर्वं प्रदाय वै ॥
कालयोगेन विश्वत्मा समं चक्रेऽथ तुंबरोः ॥१॥

नारदं मुनिशार्दूलमेवं वृत्तमभूत्पुरा ॥
नारायणस्य गीतानां गानं श्रेष्ठं पुनः पुनः ॥२॥

गानेनाराधितो विष्णुः सत्कीर्ति ज्ञानवर्चसी ॥
ददाति तुष्टिं स्थानं च यथाऽसौ कौशिकस्य वै ॥३॥

पद्माक्षप्रभृतीनां च संसिद्धिं प्रददौ हरिः ॥
तस्मात्त्वया महाराज विष्णुक्षत्रे विशेषतः ॥४॥

अर्चनं गाननृत्याद्यं वाद्योत्सवसमन्वितम् ॥
कर्तव्यं विष्णुभक्तैर्हि पुरुषैरनिशं नृप ॥५॥

श्रोतव्यं च सदा नित्यं श्रोतव्योसौ हरिस्तथा ॥
विष्णुक्षेत्रे तु यो विद्वान् कारयेद्भक्तिसंयुतः ॥६॥

गाननृत्यादिकं चैव विष्ण्वाख्यानां कथां तथा ॥
जतिस्मृतिं च मेधां च तथैवोपरम् स्मृतिम् ॥७॥

प्राप्नोति विष्णुसायुज्यं सत्यमेतन्नृपाधिप ॥
एतत्ते कथितं राजन् यन्मां त्वं परिपृच्छसि ॥८॥

किं वदामि च ते भूतो वद धर्मभृतां वर ॥९॥

इति श्रीलिंगमहापुराणे उत्तरभागे विष्णुमाहात्म्यं नाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP