संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|श्रीवृद्धयवनजातक|पूर्वखण्ड| अध्याय ३४ पूर्वखण्ड अनुक्रमणिकाः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २४अ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ पूर्वखण्डः - अध्याय ३४ सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय. Tags : horoscopeज्योतिषमीनराजवृद्धयवनजातकशास्त्रसाहित्य लाभस्थानचिन्ताध्यायः Translation - भाषांतर लाभाश्रितस्तीक्ष्णकरः स्वतुङ्गेलाभं विधत्ते गजवाजिजं च ।तस्यैव भागे महिषिसमुत्थंषड्वर्गशुद्धः कनकोद्भवं च ॥१॥नीचाश्रितो वासरपस्तु लाभेलाभं विधत्ते जलपादपानाम् ।तस्यैव भागे च कुधान्यकानांपापस्य वर्गे परयोषितां च ॥२॥मित्राश्रयस्थो दिनपस्तु लाभेलाभं प्रसूते सुहृदां सदैव ।मित्रांशकस्थः कुलयोषितानोवर्गोत्तमस्थ प्रवरार्यकाणाम् ॥३॥शत्र्वाश्रयस्थो दिनकृश्च लाभेलाभं प्रसूते रथकम्बलानाम् ।तदंशकस्थः खलमानवानांमूलत्रिकोणे गुणिनां नितान्तम् ॥४॥लाभाश्रितः शीतकरः स्वतुङ्गेलाभं विधत्ते मणिमौक्तिकानाम् ।तस्यैव भागे द्रविणान्नकानांषड्वर्गशुद्धः प्रियमानुषाणाम् ॥५॥नीचाश्र्यस्थो हिमगुश्च लाभेलाभं प्रसूते कुकलत्रकाणाम् ।तदंशकस्थस्तु सुसेवकानांपापस्य वर्गे परपैशुनानाम् ॥६॥मित्राश्रयस्थो हिमगुश्च लाभेलाभं विधत्ते बहुबन्धवानाम् ।तस्यैव भागे नदनर्तकानांवर्गोत्तमस्थः प्रवरार्थकानां ॥७॥शत्र्वाश्रयस्थो हिमगुश्च लाभेलाभं प्रसूते बहुकन्दजानाम् ।तदंशकस्थो हि महीरुहाणांमूलत्रिकोणे क्षितिमृद्गृहाणाम् ॥८॥भौमः स्वतुङ्गे यदि लाभसंस्थोलाभं विधत्ते च चतुष्पदानाम् ।तस्यैव भागेऽत्र सुभक्षकाणांषड्वर्गशुद्धो नृपमण्डलानाम् ॥९॥लाभाश्रितो भूतनयस्तु नीचेलाभं विधत्ते बहुशौर्यजातम् ।तस्यैव भागे बहुवंचनोत्थंपापस्य वर्गे वधबन्धुजातम् ॥१०॥मित्राश्रयस्थः क्षितिजस्तु लाभेलाभं विधत्ते नृपलोकजातम् ।तदंशकस्थस्तु महाजनोत्थंवर्गोत्तमस्थो ह्युभयं सदैव ॥११॥शत्र्वाश्र्यस्थः क्षितिजस्तु लाभेलाभं सुवाते बहुवचकानाम् ।तस्यैव भागे पर्तर्ककानांमूलत्रिकोणेऽद्भुतभूषणानाम् ॥१२॥सौम्यः स्वतुङ्गे यदि लाभसंस्थोलाभं सुवाते बहुशास्त्रजातम् ।तस्यैव भागे विविधैरुपायैःषड्वर्गशुद्धस्त्वथ सर्वविधाम् ॥१३॥लाभाश्रितः सोमसुतस्तु नीचेलाभं विधत्ते बहुनीचसङ्गात् ।तस्यैव भागे कृतकानुसङ्गात्पापस्य वर्गेऽन्त्यजलोकपार्श्चात् ॥१४॥मित्राश्रयस्थः शशिजस्तु लाभेलाभं विधत्ते परलोकजातम् ।तस्यैव भागे निजविधयातोवर्गोत्तमस्थो व्यवहारतश्च ॥१५॥शत्र्वाश्रयस्थः शशिजस्तु लाभेकरोति लाभं वितथोपचारात् ।तस्यैव भागे कपटैरनेकैर्मूलत्रिकोणे क्रयविक्रयाभ्याम् ॥१६॥जीवः स्वतुङ्गे यदि लाभसंस्थोनरेन्द्रलाभं कुरुते नराणाम् ।तस्यैव भागे नृपसेवकानांषड्वर्गशुद्धः प्रचुरप्रभावात् ॥१७॥नीचाश्रितो देवगुरुश्च लाभेलाभं नराणां कुरुते धनं च ।नीचांशकस्थो भृतकाह्वयानांपापस्य वर्गे बहुकष्टतश्च ॥१८॥मित्राश्रयथः कुरुते सुरेज्योलाभं च लाभे रजतोद्भवं च ।तस्यांशकस्थो बहुधातुजातंवर्गोत्तमस्थः सुजनोद्भवं च ॥१९॥शत्र्वाश्र्यस्थः कुरुते सुरेज्योलाभं च लाभे पुरुषाधमानाम् ।तस्यैव भागे गुणवर्जितानांमूलत्रिकोणे विविध जानाम् ॥२०॥शुक्रः स्वतुङ्गे यदि लाभसंस्थोलाभं सुवाते सुतबान्धवोत्थम् ।तस्यांशकस्थो नृपकन्यकोत्थंषड्वर्गशुद्धो द्वितयस्य चास्य ॥२१॥नीचाश्रयस्थो भृगुजस्तु लाभेलाभं विधत्ते च कुपश्यकानाम् ।तदंशकस्थस्तु कुबुद्धिकानांपापस्य वर्गे द्विजनिन्दितानाम् ॥२२॥मित्राश्रयथो भृगुजस्तु लाभेकरोति लाभं वरवाहनानाम् ।तस्यैव भागे वरसुन्दरीणांवर्गोत्तमस्थः प्रियदर्शनानाम् ॥२३॥शत्र्वाश्रय्थो भृगुजश्च लाभेकरोति लाभं हतबान्धवानाम् ।तस्यैव भागे गतसौहृदानांमूलत्रिकोणे सुखिनां सदैव ॥२४॥सौरोच्चसंस्थो यदि लाभसंस्थोलाभं विधत्ते पुरुषोत्तमानाम् ।तस्यैव भागे धनधान्यकानांवर्गोत्तमस्थः प्रवरार्चितानाम् ॥२५॥नीचाश्रितः सूर्यौतस्तु लाभेलाभं विधत्ते बहुपातकानाम् ।तस्यैव भागे जननर्डितानांपापय वर्गे मतिवर्जितानाम् ॥२६॥मित्राश्रयस्थोऽर्कसुतस्तु लाभेलाभं विधत्ते बहुमित्रनातम् ।तस्यिव भागे वनितासमुत्यंवर्गोत्तमस्थः शुभकर्यलाभम् ॥२७॥शत्र्वाश्रयस्थोऽर्कसुतस्तु लाभेलाभं विधत्ते बहुवित्तजं च ।तस्यैव भागे कृमिजं सदैवमूलत्रिकोणे स्थिरधर्मजातम् ॥२८॥इति श्रीवृद्धयवने लाभस्थानचिन्ता ॥ N/A References : N/A Last Updated : November 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP