संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|श्रीवृद्धयवनजातक|पूर्वखण्ड| अध्याय ३३ पूर्वखण्ड अनुक्रमणिकाः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २४अ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ पूर्वखण्डः - अध्याय ३३ सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय. Tags : horoscopeज्योतिषमीनराजवृद्धयवनजातकशास्त्रसाहित्य कर्मस्थानचिन्ताध्यायः Translation - भाषांतर कर्माश्रितस्तीक्ष्णकरः स्वतुङ्गेकरोति कर्म व्रतकृत्यमेव ।तदंशकस्थो वधबन्धजं चषड्वर्गशुद्धः सकलं कलाजम् ॥१॥नीचाश्रितस्तीक्ष्णकरोऽम्बरस्थोनृणां विधत्ते बहुदासकर्म ।तस्यैव भागे वणिजोद्भवं चवर्गोत्तमस्थो वणिजप्रसूतम् ॥२॥मित्राश्रयस्थो दिनकृत् खसंस्थःकरोति पुंसां कृषिजं च कर्म ।मित्रस्य भगे कुनृपस्य सेवजंपापस्य वर्गे वधबन्धजं ॥३॥शत्र्वाश्रयस्थो दिनपो नराणाददाति कर्माशुभमेव नित्यम् ।तस्यिअव भागे जनगर्हितं चमूलत्रिकोणे खरसेवजं च ॥४॥कर्माश्रितः शीतकरः स्वतुङ्गेकरोति कर्म प्रथितं नृलोके ।तस्यैव भागे द्विजदेवजं चषद्वर्गशुद्धो वरदानभाजम् ॥५॥नीचाश्रितः शीतकरोऽम्बरस्थोददाति कर्मतिसलज्जमेव ।तस्यैव भागे क्रयविक्रयोत्थंपापस्य वर्गे व्यसनोद्भवं च ॥६॥मित्राश्रयस्थो यदि शीरश्मिःकर्माश्रितः कर्म ददाति सौम्यम् ।तस्यिव भागे बहुशास्त्रभाजंवर्गोत्तमस्थो मखजं सदैव ॥७॥शत्र्वाश्रयस्थोऽम्बरगो निशेशःकर्म प्रसूते सुतरां नृशंसम् ।तस्यैव भागे वनितोद्भवं चमूलत्रिकोणे नृपदैत्यजातम् ॥८॥भौमोऽम्बस्तस्थो यदि तुङ्गसंस्थोयुद्धोद्भवं कर्म ददाति पुंसाम् ।तस्यांशके द्यूतसमुद्भवं चषड्वर्गशुद्धः स्मरजं नितान्तम् ॥९॥नीचाश्रितो भूतनयोऽम्बरस्थःकर्म प्रसूते परदारजातम् ।तदंशकस्थो गणिकोद्भवं चपापस्य वर्गे ह्युभयं सदैव ॥१०॥मित्राश्रयस्थः क्षितिजोऽम्बरस्थःकर्म प्रसूतेऽक्षममुद्धवं च ।तस्यांशकस्थो बहुभारजातंवर्गोत्तमस्थः प्रणयेन हीनम् ॥११॥शत्र्वाश्रयस्थः क्षितिजो नभोगःकर्म प्रसूते बहुदैन्यजातम् ।तस्यिव भागे त्वथ भिक्षजं चमूलत्रिकोणेऽम्बरकाष्ठजातम् ॥१२॥सौम्यः स्वतुङ्गे यदि कर्मसंस्थःकर्म प्रसूते धनधान्यजातम् ।तस्यैव भागे च चतुष्पदोत्थंषड्वर्गौद्धो गजवाजिजातम् ॥१३॥नीचाश्रितः सोमसुतोऽम्बरस्थःकर्म प्रसूते निजमेव पुंसाम् ।तस्यैव भागे परदेशजातंपापस्य वर्गे खलजं सदैव ॥१४॥मित्राश्रयस्यः शशिजोऽम्बरस्थःकर्म प्रसूते हयविक्रयोत्थम् ।तस्यैव भागे रजतं नराणांवर्गोत्तमस्थोऽद्भुतमित्रजातम् ॥१५॥शत्र्वाश्रयस्थः शशिजोऽम्बरस्थःकर्म प्रसूते बहुकष्टजातन् ।तस्यैव भागे गुणवर्जितं चमूलत्रिकोणे सुयशोद्भवं च ॥१६॥जीवोऽम्बरस्थो यदि तुङ्गसंस्थोददाति कर्म प्रचुरं प्रधानम् ।तदंशकस्थो द्विजपूजनोत्थंषड्वर्गशुद्धः सुजनार्थनोत्थम् ॥१७॥नीचाश्रितो देवगुरुः ससंस्थःकरोति कर्माधमलोकसेव्यम् ।तदंशकस्थोऽद्भुतचौर्यजातंपापस्य वर्गेऽर्थविवर्जितं च ॥१८॥मित्राश्रयस्थो दशमे सुरेज्यःकरोति कर्माणि शुभानि नित्यम् ।तदंशसंस्थो नृपतेः समुत्थंवर्गोत्तमस्थो महिषीगवोत्थम् ॥१९॥शत्र्वाश्रयस्थो दशमे सुरेज्यःकर्म प्रसूते सततं कृतघ्नम् ।तस्थैव भागे परवंचनेनमूलत्रिकोणे नृपतेरभीष्टम् ॥२०॥तुङ्गाश्रयस्थोऽम्बरगो भृगुश्चमर्म प्रसूते जनवल्लभं च ।तस्यैव भागे मणिमौक्तिकाढ्यंषड्वर्गशुद्धः कनकोद्भवं च ॥२१॥नीचाश्रयस्थः भृगुजः खसंस्थःकर्म प्रसूते वनिताश्रितं चतस्यैव भागेऽल्पसुखं नितान्तंपापस्य वर्गे गुरुदुःखजं च ॥२२॥मित्राश्रयस्थो भृगुजोऽम्बरस्थःकरोति कर्म प्रभुतासमेतम् ।तस्यिअव भागे निजबन्धुजातंवर्गोत्तमस्थो बहुगौरवाढ्यम् ॥२३॥शत्र्वाश्रयस्थो भृगुजोऽम्बरस्थःकर्म प्रसूते विरजं नृशंसम् ।तस्यैव भागे बहुचिन्तयाढ्यंमूलत्रिकोणेऽनृतसंयुतं च ॥२४॥तुङ्गाश्रितः सूर्यसुतोऽम्बरस्थःकर्म प्रसूतेऽतिमृदुस्थिरं च ।तस्यैव भागे बहुशिल्पजं चषद्वर्गशुद्धः प्रियसाध्वसं च ॥२५॥नीचाश्रितः सूर्यसुतोऽम्बरस्थःकर्म प्रसूते द्विजद्रोहजातम् ।तस्यैव भागे नृपसेवजं चपापस्य वर्गे सनृशंसरूपम् ॥२६॥मित्राश्रितो भास्करजश्च खस्थःकरोति कर्म प्रभुताविहीनम् ।तस्यैव भागे नृपसेवजं चवर्गोत्तमस्थो मृगया समेतम् ॥२७॥शत्र्वाश्रयस्थोऽर्कौतोऽम्बरस्थःकर्म प्रसूते बहुकष्टजातम् ।तस्यैव भागे परपौशुनोत्थंमूलत्रिकोणे भिषजोद्भवं च ॥२८॥इति श्रीवृद्धयवने कर्मस्थानचिन्ता ॥ N/A References : N/A Last Updated : November 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP