TransLiteral Foundation

पूर्वखण्डः - अध्याय ३०

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


कलत्रस्थानचिन्ताध्यायः
दिनाधिपः सप्तमगः स्वतुङ्गे
करोति भार्यं कलहप्रियां च ।
तुङ्गांशकस्थः परकर्मरक्तां
षड्वर्गशुद्धतु दरिद्रयुक्ताम् ॥१॥
नीचाश्रितः सप्तमगस्तु सूर्यो
भार्यां विधत्ते व्यधिचारिणीं च ।
नीचांशकस्थश्च सरोगयुक्तां
पापस्य वर्गे सततं कुशीलाम् ॥२॥
मित्राश्रयस्थो दिनपः कलत्रे
करोति भार्यां सुतरां नृशंसाम् ।
मित्रस्य भागे सुविहीनचिन्तां
वर्गोत्तमस्थः सुरतप्रियां च ॥३॥
शत्र्वाश्रयस्थो यदि वासरेशः
करोति भार्यां व्यसनाभिभूताम् ।
शत्रोर्विभगे परहीनकृत्यां
मूलत्रिकोणे प्रियसाध्वसां च ॥४॥
चन्द्रस्तु काम् यदि तुङ्गसंस्थो
भार्यां विधत्ते सुभगां मनोज्ञाम् ।
तुङ्गांशके वा सुरदेवभक्तां
षड्वर्गशुद्धोऽतिमनोश्चरूपाम् ॥५॥
निशाकरः कामगतः स्वनीचे
भार्याम् विधत्ते बहुरोगभाजाम् ।
नीचांशके कुष्ठरुजा समेतां
पापस्य वर्गे पतिना विरुधाम् ॥६॥
मित्राश्रयस्थो यदि रात्रिनाथो
भार्यां प्रसूते प्रियवादिनीं च ।
मित्रांशके वा विनयेन युक्तां
वर्गोत्तमस्थो बहुकर्मयुक्ताम् ॥७॥
शत्र्वाश्रयस्थो यदि रात्रिनाथो
विरुद्धचेष्टां जनयेश्च भार्याम् ।
शत्रोर्विभागे विगतप्रभावां
मूलत्रिकोणे बहुभृत्यदक्षाम् ॥८॥
धरासुतः कातः कामगतेः स्वतुङ्गे
भार्यां विधत्ते गतरूपवित्ताम् ।
तुङ्गांशके वातिजराभिभूतां
षड्वर्गशुद्धः प्रचितप्रभावाम् ॥९॥
नीचाश्रयस्थः क्षितिजस्तु कामे
दारं विधत्ते प्रचुरप्रगल्भम् ।
नीचांशके वा बहुशत्रुपक्षां
पापस्य वर्गे निजवर्गहीनाम् ॥१०॥
मित्राश्रयस्थः क्षितिजः कलत्रे
भार्यां सुवाते लघुचोलनां च ।
मित्रस्य भागेऽल्पसरोरुडाक्षीं
वर्गोत्तमस्थः प्रभुताविहीनाम् ॥११॥
शत्र्वाश्रयस्थो यदि भूमिपुत्रो
भार्यां विधत्ते कठिनस्वभावाम् ।
तदंशके वा हतबन्धिवर्गां
मूलत्रिकोणे परसङ्गतां च ॥१२॥
कामाश्रयस्थः शशिजः स्वतुङ्गे
भार्यां विधत्तेऽद्भुतरूपयुक्ताम् ।
तुङ्गांशके वा बहुभोयुक्तां
षड्वर्गशुद्धः कृतमण्डनां च ॥१३॥
नीचे च सौम्यः खलु सप्तमस्थः
करोति भार्यां कुनरानुरक्ताम् ।
नीचांशके वा व्यसनानुरक्तं
पापस्य वर्गे गुणवर्जितां च ॥१४॥
मित्राश्रयस्थो यदि सोमपुत्रो
दारं प्रसूते बहुपुत्रपुत्रम् ।
मित्रांशके वा प्रचुरान्नपानां
वर्गोत्तमस्थः प्रभया समेताम् ॥१५॥
शत्र्वाश्रयस्थे यदि कामगो ज्ञो
भार्यां सुवातेऽर्थविवर्जितां च ।
तदंशके वा धनधान्यहीनां
मूलत्रिकोणे जनवल्लभां च ॥१६॥
जीवः कलत्रे यदि तुङ्गसंस्थः
करोति दारं प्रियदर्शनं च ।
तुङ्गांशकस्थो बहुसौख्ययुक्तां
षड्वर्गशुद्धः सुकुलोद्भवां च ॥१७॥
नीचाश्रितो देवगुरुः कलत्रे
दारे विधत्ते न कुलोद्भवं च ।
नीचांशकस्थो बहुमानयुक्तां
पापस्य वर्गे पिशुनस्वभावाम् ॥१८॥
मित्राश्रयस्थो मदने सुरेज्यो
दारं विधत्ते बहुसाधुमित्रम् ।
मित्रांशकस्थो मणिमौक्तिकाढ्यं
वर्गोत्तमस्थोऽतिविशुद्धकायाम् ॥१९॥
शत्र्वाश्रयस्थो मदने सुरेज्यो
दारं विधत्ते चपलस्वभावम् ।
परांशकस्थोऽतिकठोरवाक्यां
मूलत्रिकोणे गुणवर्जितां च ॥२०॥
शुक्रोश्चसंस्थो यदि सप्तमस्थो
भार्यां सुवते बहुमित्रपक्षाम् ।
तुङ्गांशकस्थो द्विजदेवभक्तां
षड्वर्गशुद्धस्तु पतिव्रतां च ॥२१॥
नीचाश्रितो दैत्यगुरुः कलत्रे
कलत्रमुच्चैः कुरुते प्रान्नम् ।
नीचांशकस्थस्तु सुरूपनेत्रां
पापस्य वर्गे घृणया विहीनाम् ॥२२॥
मित्राश्रयस्थः कुरुते च शुक्रः
कामे सुकामां सुभगां च भार्याम् ।
मित्रांशकस्थश्च सुशुद्धचिन्तां
वर्गोत्तमस्थो जनवल्लभां च ॥२३॥
शत्र्वाश्रयस्थो भृगुजस्तु कामे
भार्यां उवाते सुतरां प्रहीनाम् ।
तदंशकस्थोऽप्रकृतस्वभावां
मूलत्रिकोणे सुसमन्वितां च ॥२४॥
शनैश्चरस्तुङ्गतः कलत्रे
स्थूलं कलत्रं कुरुते नराणाम् ।
तुङ्गांशकस्थश्च सुकृष्णगात्रां
षड्वर्गशुद्धो बहुदुःखभाजाम् ॥२५॥
नीचाश्रितः कामगतस्तु कोणो
दारं प्रसूते विकरालगात्रम् ।
नीचांशकस्थश्च विहीनधर्मां
पापस्य वर्गे पररक्तचिन्ताम् ॥२६॥
मित्राश्रयस्थः प्रकरोति सौरः
कामाश्रितः कोपपरं कलत्रम् ।
मित्रस्यभागे गुणवर्जिताङ्गां
पापस्य वर्गेऽतिखलस्वभावाम् ॥२७॥
शत्र्वाश्रयस्थो रविजः कलत्रे
दारं प्रसूते बहुपापरक्तम् ।
तस्थैव भागे पतिनिन्दितां च
मूलत्रिकोणे विधनां सदैव ॥२८॥
पचाधिपो देवगुरुः सितश्च
सोमो विसंख्यः शशिजो गणानाम् ।
एकाधिपाः सूर्यशनैश्चराराः
स्वतुङ्गगाः स्युर्यदि सद्ग्रहेन्द्राः ॥२९॥
इति श्रीवृद्धयवने कलत्रस्थानचिन्ता ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-11-10T13:55:48.9530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

bright field illumination

  • उज्ज्वल क्षेत्र दीपन 
  • (also verticle illumination) 
RANDOM WORD

Did you know?

Gotra. Vats & vatsayan are same ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.