संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|श्रीवृद्धयवनजातक|पूर्वखण्ड| अध्याय २१ पूर्वखण्ड अनुक्रमणिकाः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २४अ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ पूर्वखण्डः - अध्याय २१ सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय. Tags : horoscopeज्योतिषमीनराजवृद्धयवनजातकशास्त्रसाहित्य गुरुचाराध्यायः Translation - भाषांतर मेषे गुरुर्देवनरं प्रसूतेदुर्मर्षणं शौर्यबलस्वभवम् ।विख्यातकर्माणमतिप्रगल्भमोजस्विनं बुद्धिगुणैरुपेतम् ॥१॥वृषे गुरुः पाण्डुयशः प्रतारंनरं प्रसूते सुभगं सुवेषम् ।कान्तं स्वदाराभिरतं विनीतंदेवविजाचार्यकृतोपचारम् ॥२॥तृतीयराशौ च सुरेज्यमन्त्रीनैपुण्यदाक्षिण्यपरं प्रसूते ।सुमेधसं वाह्मिनमाहितार्थंकृपापरं बुद्धिगुणान्वितं च ॥३॥तिष्ठन् गुरुः कर्कटके सुरूपंविद्वांसमोजोबलवीर्ययुक्तम् ।प्राज्ञं प्रसूते प्रियधर्मभाजंयशन्वितं लोकपुरस्कृतं च ॥४॥सिंहं गतो देवगुरुः प्रवीरंनरं प्रसूते स्थिरहऽसत्त्वम् ।विद्वांसमालक्ष्यमुदारनुग्रशूरं बहुस्निग्धसुहृज्जनं च ॥५॥षष्ठे क्रियाज्ञानविशुद्धबुद्धिंमेधाविनं कर्मकथाभिरामम् ।शास्त्रार्थशिल्पश्रुतिकाव्यचिन्तंसुदर्शनं देवगुरुः प्रसूते ॥६॥तुले विचित्रार्थबहुप्रलापंगुरुः प्रसंख्यातधियं प्रसूते ।कान्तं शुभाचाररतं विनीतंप्राज्ञं वणिक्सार्थमहत्तरं च ॥७॥गुरूर्नरं वृश्चिकमभ्युपेतःक्षुद्रं प्रसूते बहुशत्रुपक्षम् ।सुहृच्छलद्रोहरतं कुशीलंप्रपंचकं हिंस्रमनिष्टदारम् ॥८॥धनुधरस्यस्तु गुरुः प्रसूतेप्रियोपहारंश्रुतधर्मशीलम् ।यज्ञव्रताचार्यमसंस्थितार्थंदातारमार्यं बहुमित्रपक्षम् ॥९॥गुरुर्मृगे मार्दवमल्पवीर्यंनीचक्रियाचाररतं दुरन्तम् ।मूर्खं पराज्ञकरमर्थहीनंबहुश्रमं क्लेशसहं प्रसूते ॥१०॥कुम्भे तु जीवः नृशसविद्वेशशीलं जनयत्यसत्यम् ।कुशिल्पिनोपाश्रयकर्कशं चमुख्यं गणानामतिनीचचेष्तम् ॥११॥मीनद्वयस्थो गुरुगौरवज्ञंगुरुर्नरं श्लाघ्यधनं प्रसूते ।हृष्टं स्थिरारम्भमनिष्टदर्पंवेदार्थशस्त्रश्रूतिकाव्यवित्तम् ॥१२॥होरां रवेर्देवगुरुः प्रयातःकरोति मर्त्यं बहुरोषयुक्तम् ।लुब्धं स्ववाग्दोषयुतं सुतीव्रंसुगुप्तपापं परतर्ककं च ॥१३॥चन्द्रस्य होराधिगतः सुरेज्योनरं प्रसूते सुभगं मनोज्ञम् ।स्थिरक्रियारम्भधनं शरण्यंधर्मस्वभावं दृढसौहृदं च ॥१४॥भागे तृतीये सुरराजमन्त्रीसूर्यस्य सूते कृपणं मनुष्यम् ।क्रूरं क्रियाहीनमनप्रधृष्यंनिन्द्यं कुकर्मार्जितसंपदं च ॥१५॥जीवस्त्रिभागे रजनीकरस्यतिष्ठन् प्रसूते सुमनोश्चरूपम् ।॥।ऽरं प्रसिद्धं बहुमानवित्तंप्रगल्भचिन्तं द्विजदेवभक्तम् ॥१६॥त्र्यंशे गुरुर्भुमिसुतस्य धत्तोनृणां भयं बन्धुजनैः प्रसूते ।आक्षिरोगं प्रपोषणं ॥१७॥॥सामसुतस्य तिष्ठन्करोति मर्त्यं प्रवरं प्रसिद्धम् ।विद्याविनीतं बहुधर्मसक्तंसौम्याकृतिं सौम्यगुणैः समेतम् ॥१८॥त्र्यंशे स्वके देवगुरुः प्रसूते॥ सुशील विजितारिपक्षम् ।क्षमन्वितं पार्थिवमानयुक्तंचतुष्पदाढ्य प्रणतं गुरूणाम् ॥१९॥द्रेष्काणसंस्थो भृगुजस्य जीवो॥प्रसूते बहुकांचनाढ्यम् ।॥ वरर्त्नयुक्तंसुखान्वितं पार्थिवव्ल्लभं च ॥२०॥रौद्रं परस्वापहरं कुबुधिंकनिष्टःअकर्माणममित्रवन्तम् ।द्रेष्काणसंस्थो रविजय जीवोनरं प्रसूते बहुशोकभाजम् ॥२१॥प्रेष्यः कुकर्मातिखलस्वभावोधनैर्विहीनस्त्वथ मन्दसत्त्वः ।नवांशके वासरपस्य जीवोयदा तदा स्यान्मनुजः प्रचण्डः ॥२२॥नवांशके रात्रिपतेः सुरेज्यस्तिष्ठन् प्रसूते सुभगं मनुष्यम् ।प्रियातिथिं प्रीतिकरं नराणांप्रसन्नचिन्तं प्रमदास्वभीष्टम् ॥२३॥मुखादिरोगं व्यसनोपतप्तंभायान्वितं पापरतं प्रकामम् ।नवांशके भूमिसुतस्य जीवस्तिष्ठन् प्रसूतेऽतिखलं मनुष्यम् ॥२४॥बुधस्य भागे नवम सुरेज्यस्तिष्ठन् प्रसूते सदयं मनोज्ञम् ।वित्तान्वितं धर्मपरं सुवेषंशास्त्रर्थरक्तं सुतसौख्ययुक्तम् ॥२५॥जीवो नवांशे विचरन् स्वकीयेकरोति मर्त्यं नृपतुल्यवेषम् ।पुत्रान्वितं शुद्धकलत्रयुक्तंशास्त्रार्थयुक्तं सुजनार्थवन्तम् ॥२६॥शुक्रस्य भागे नवमे सुरेज्यतिष्ठन् प्रसूते सुखिनं मनुष्यम् ।तेजस्विन कीर्तिकरं कृतज्ञंपुण्यात्मकं धर्मरतं सदैव ॥२७॥भाराक्षिरोगव्यसनैः समेतंप्रियाविहीनं विगतप्रतापम् ।नवांशकस्थोरविज्यस्य जीवोनरं सुवाते नृपपीडितं च ॥२८॥सूर्यांशके वासरपय जीवोनरं प्रसूते विधनं विरूपम् ।अकीर्तिवन्तं बहुशत्रुपक्षंमित्रैर्वियुक्तं विसुखं विशीलम् ॥२९॥सूर्यांशके देवगुरुः प्रसूतेचन्द्रस्य तिष्ठन् धनिनं मनुष्यम् ।प्रियातिथिं पुत्रसुतार्थयुक्तंभूपालपूज्यं दयितं जनानाम् ॥३०॥बृहस्पतिर्द्वादशभागसंस्थोभौमस्य सूते प्रखलं मनुष्यम् ।विधर्मशीलं व्यसनैरुपेतंरोगार्दितं बन्धनभागन च ॥३१॥अर्कांशसंस्थः शशिजस्य जीवोनरं प्रसूते प्रथितं नृलोके ।सत्याधिकं सर्वगुणैरूपेतंप्रभुप्रियं बन्धुजनस्य नित्यम् ॥३२॥अर्कांशके वे प्रकरोति जीवस्तिष्ठन् नरं सर्वसमृद्धिमतम् ।पुष्टं जितारिं भयरोहयुक्तंरामास्वभीष्टं सततं सुशिलम् ॥३३॥जीवो भृगोर्द्वादशभागसंस्थोनरं प्रसूते हयकांचनाढ्यम् ।प्रियातिथिं भोगिनमार्यशीलंप्रमाथिनं वैरिजनय नित्यम् ॥३४॥सूर्यांशके भास्करनन्दनजीवः कुचैलं कुरुते मनुष्यम् ।दीनं विरूपं बहुदुःखभाजंप्रपीडितं दस्युभिरेव भूपैः ॥३५॥॥नरं प्रसूते कुटिलं मनुष्यम् ।हीर्ष्यापरं पीडितलोकवर्गंविहीनशिलं परवादरक्तम् ॥३६॥त्रिम्शल्लवे सूर्यसुतस्य जीवस्तिष्ठन् विधत्ते विभृतं ॥।म् ।पापानुरक्तं परदारशीलंस्वबन्धुहीनं कुटिलस्वभावम् ॥३७॥त्रिंशांशके स्वे सुरराजमन्त्रीमनीषिणं वाक्चतुरं करोति ।मर्त्यं सुरक्तं द्विजदेवभक्तंसन्तुष्टचिन्तं सततं सुशिलम् ॥३८॥त्रिंशांशके सोमसुतस्य जीवःकरोति विज्ञं सततं मनुष्यम् ।अध्यात्मविधागमसक्तचिन्तंक्षमान्वितं ब्रह्मविदां वरिष्ठम् ॥३९॥त्रिंशांशके भार्गवनन्दनस्य ॥जीवश्चरन् वित्तयुतं विधत्ते ।नरं विनीतंउतलाभयुक्तंस्त्रीणामभीष्टं नृलोकमान्यम् ॥४०॥सुहृद्धली देवगुरुः प्रसूतेनरं विनीतं सततं सुशीलम् ।ख्यातं स्थिरस्फीतधनं सुमित्रंसद्वृत्तयुक्तं च तथा जितारिम् ॥४१॥वक्षेत्रवीर्येण युतः सुरेज्योनरं प्रसूते गुणशीलवन्तम् ।मेधाविनं देवगुरुप्रसक्तंप्रख्यातकर्माणमन्ल्पवीर्यम् ॥४२॥स्वतुङ्गवीर्येण युतः सुरेज्यःकरोति नानार्थयुतं मनुष्यं ।र्वशिल्पव्यवहारकाव्यमाधुर्यदाक्षिण्यपतुं दयालुम् ॥४३॥॥४४॥शुभग्रहलोकनवीर्ययुक्तोजीवो विधत्ते विरुजं मनुष्यम् ।पापैरनार्थैः प्रखलैर्विरुध्येदभ्यर्चितं ज्ञातिभिरेव भूपैः ॥४५॥पुंक्षेत्रवीर्येण युतस्तु जीवोगाम्भीर्यधैर्यप्रवरं मनुष्यम् ।चतुष्पदाढ्यं कुलदैवमुख्यंसुधर्मशीलं नृपवल्लभं च ॥४६॥बृहस्पतिर्दिग्बलवान् प्रसूतसुपण्डितं भूरिगुणैः समेतम् ।वस्त्रान्नपानैः सहितं मनोज्ञंगतातिपक्षं गतसाध्वसं च ॥४७॥चेष्टाबलाढ्यः सरराजमन्त्री॥।तिष्ठं संजनयेन्मनुष्यम् ।मन्त्रान्वितं सौरतलब्धसौख्यंशूरं महाश्चानयुतं सहिष्णुम् ॥४८॥देवाबलाढ्यः प्रकरोति जीवोनरं प्रसिद्धं बहुवित्तयुक्तम् ।प्रसन्नमूर्तिं प्रणतारिपक्षंसुखान्वितं तन्त्रविदां वरिष्ठम् ॥४९॥स्ववारवीर्येण युतस्तु जीवोविद्याधिकं संजनयेन्मनुष्यम् ।स्त्रीलाभयुक्तं सुजनानुकूलंप्रियंवदं सर्वकलासु दक्षम् ॥५०॥गुरुर्यदा वर्षबलेण युक्तस्तदा प्रसूते सुभगं मनुष्यम् ।अत्यार्यशीलं बहुवीर्ययुक्तंचेष्टं नृपाणां प्रचुरान्नपानम् ॥५१॥स्वमासवीर्येण युतः सुरेज्यकरोति मर्त्यं सुभगं कृतज्ञम् ।कान्तं विनीतं प्रचुराङ्गनाढ्यंस्वबन्धुपूज्यं सततं धनाढ्यम् ॥५२॥होराबलाढ्यः प्रकरोति जीवोनरं महाज्ञानयुतं पशान्तम् ।विज्ञानशास्त्रश्रुतसौख्ययुक्तंप्रियातिथिं मानधनैः समेतम् ॥५३॥जीवो यदा पक्षबलेन युक्तोनरं प्रसूतेऽतिबलं कृतज्ञम् ।विधान्वितं सर्वसुखाधिवासंरत्नान्वितं वाजिगजैरुपेतम् ॥५४॥जीवो यदा मित्रबलेन हीनस्तदा प्रसूते कृपणं मनुष्यम् ।शत्रुप्रहार ज्वरपानदोषस्त्रीरोगबन्धादिनिपीडिताङ्गम् ॥५५॥स्वस्थानवीर्येण विवर्जितस्तुजीवः प्रसूते कठिनस्वभावम् ।मृताङ्गनं कुक्षिरुगार्तदेहंमित्रैर्विहीनं भयविक्लवं च ॥५६॥जीवोश्चवीर्येण विवर्जितस्तुकरोति नीचप्रकृतिं मनुष्यम् ।पुत्रार्थहीनं कठिनं कृतघ्नंप्रपीडितं पार्थिवचौरसंघैः ॥५७॥नवांशवीर्येण विवर्जितस्तुसुरेन्द्रमन्त्री कुरुते भयार्तम् ।पामादिरोगैः सहितं ॥बुद्धा विहीनं विसुखं सशोकम् ॥५८॥शुभग्रहालोकनवीर्यहीनोजीवः प्रसुतेऽतिकुरूपदेहम् ।स्वबन्धुहीनं जठरस्वभावंवैरप्रियं क्रोधपरं कुशिलम् ॥५९॥पुंवीर्यहीनः सुरराजमन्त्रीनरं प्रसूते ललनस्वभावम् ।भीरुं शठं नैकृतिकप्रकारंश्लेष्मात्मदेहं वृजिनात्मकं च ॥६०॥दिग्वायहिनः कुरुते सुरेज्यानरं विहीनं धनधान्यजातैः ।विदेशरक्त प्रचलस्व ॥ंइत्यम् ॥६१॥चेष्टाबलेनैव विना सुरेज्यःकरोति पापात्मकमुग्ररूपम् ।संपीड्यते वा नृपतिर्मनुष्यैः ॥६२॥करोति जीवो द्युबलेन हीनोनरं प्रकृत्या पिशुनस्वभावम् ।कन्याप्रजं वातरुजाभितप्तंनीचारिविद्वेषविवृद्धदोषम् ॥६३॥स्ववारवीर्येण विना सुरेज्योनरं प्रसूते परिभूतवीर्यम् ।पित्ताग्निदाहज्वरशस्त्रचौरैःप्रपीडितं धर्मविवर्जितं च ॥६४॥स्ववर्षवीर्येण विना सुरेज्यःकरोति मर्त्यं धनबुद्धिहीनम् ।कृशं कृतघ्नं चपलस्वभावंकफानिलाभ्यं सततं च युक्तम् ॥६५॥विवर्जितो मासबलेन जीवःकरोति मिथ्यात्मकमुग्ररूपम् ।परापवादेषू रतं कृतघ्नंपरान्नरक्तं परयोषिताढ्यम् ॥६६॥करोति होराबलहानमूर्तिःसुरेज्य बहुशाठ्ययुक्तम् ।गतत्रपं हीनबलं कुरूपंवधात्मकं शङ्करकारकं च ॥६७॥बृहस्पतिः पक्षबलेन हीनःकरोति मर्त्यं निजपक्षहीनम् ।रोगाभिभूतं प्रविहीनसत्यंप्रभूतशत्रुपरदाररक्तम् ॥६८॥इति श्रीवृद्धयवने गुरुचारः ॥ N/A References : N/A Last Updated : November 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP