संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|श्रीवृद्धयवनजातक|पूर्वखण्ड| अध्याय ३२ पूर्वखण्ड अनुक्रमणिकाः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २४अ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ पूर्वखण्डः - अध्याय ३२ सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय. Tags : horoscopeज्योतिषमीनराजवृद्धयवनजातकशास्त्रसाहित्य धर्मस्थानचिन्ताध्यायः Translation - भाषांतर धर्माश्रितो वासरपः स्वतुङ्गेधर्मं नृणां तापसमेव धत्ते ।तुङ्गांशसंस्थस्त्वथ दम्भदं चषड्वर्गशुद्धस्त्वथ वज्जया च ॥१॥नीचाश्रयस्थे दिनपस्तु धर्मेधर्मेण हीनं जनयेन्मनुष्यम् ।नीचांशकस्थश्च कुकर्मरक्तंपापस्य वर्गे परधर्मरक्तम् ॥२॥मित्राश्रयस्थो दिनपस्तु धर्मेकौलोत्थधर्मं कुरुते नराणाम् ।मित्रांशके वैकृतिकं तथैववर्गोत्तमस्थोऽतिलघुप्रमाणम् ॥३॥शत्र्वाश्रयस्थो दिनपस्तु धर्मेकृतघ्नधर्मं कुरुते नराणाम् ।तदंशकस्थस्त्वथ चौरजं चमूलत्रिकोणेऽतिसुखोत्थमेव ॥४॥चन्द्रः स्वतुङ्गे यदि धर्मसंस्थःप्रसाद्धर्मं कुरुते नराणाम् ।तदंशसंश्थश्च तदागजं चषड्वर्गशुद्धो द्विजादानजं च ॥५॥॥६॥मित्राश्रयस्थो हिमगुश्च धर्मेधर्मं विधते स्वकुटुम्बदतदंशके मित्रजनोत्थमेव ॥वर्गोत्तमस्थोऽत्र समृद्धिदं ॥७॥श्त्र्वाश्रयस्थो हिमगुश्च धर्मेधर्मं प्रसूते विटपात्रदानात् ।तदंशकस्थः प्रमदानुसङ्गान्मूलत्रिकोणे बहुवित्तदानात् ॥८॥भौमः स्वतुङ्गे यदि धर्मसंस्थोधर्मं प्रसूते रणजं नराणाम् ।तुङ्गांशकस्थः परसेवया चषड्वर्गशुद्धो गुरुपोषणेन ॥९॥नीचाश्रयस्थः क्षितिजस्तु धर्मेधर्मं विधत्ते ॥।तदण्शकस्थः परदारलाभात्पापस्य वर्गे जनतापरोधात् ॥१०॥मित्राश्रयस्थ क्षितिजस्तु धर्मेधर्मं विधत्ते सुहृदप्रकोपात् ।तस्थैव भागे बहुकोपतश्चवर्गोत्तमस्थः परसेवया च ॥११॥शत्र्वाश्रयस्थः क्षितिजस्तु धर्मेधर्मं विधत्ते न कदाचिदेव ।तदांशकस्थः कनचौरणानांमूलत्रिकोणे नमितार्जितेन ॥१२॥धर्माश्रितः सोमसुतः स्वतुङ्गेधर्मं विधत्ते वरशत्रुजातम् ।तदंशकस्थो द्विजदेवतानांषड्वर्गशुधो व्रतपालनेन ॥१३॥नीचाश्रयस्थः शशिजस्तु धर्मेधर्मं प्रसूते कपदेन पुंसाम् ।तदंशकस्थः कुहकप्रयोगैःपापस्यवर्गेऽथ छलेन नित्यम् ॥१४॥मित्राश्रयस्थ शशिजस्तु धर्मेधर्मं प्रसूते गृहदानतश्च ।मित्रांशके तापसमेव नित्यंवर्गोत्तमस्थो बहुवस्त्रदानात् ॥१५॥शत्र्वश्र्यथः शशिजस्तु धर्मेधर्मं विधत्तेऽक्षविवर्जितं च ।तस्यैव भागे गुरुलोकाभान्मूलत्रिकोणे बहुशान्त्यमेव ॥१६॥धर्माश्रितो देवगुरुः स्वतुङ्गेधर्मं विधत्ते प्रचरं सदैव ।तदंशकस्थो ॥।षड्वर्गशुद्धो द्रुतमेव पुंसाम् ॥१७॥नीचाश्थितो देवगुरुश्च धर्मे सुवाते कृतकं नराणाम् ।नीचांशकस्थो गुरुणानुरोधात्पापस्य वर्गे बहुतीर्थसङ्गात् ॥१८॥मित्राश्रयस्थः सुरराजमन्त्रीधर्मं विधत्ते बहुधर्ममार्गात् ।मित्रांशकस्थो वनितामतेनवर्गोत्तमस्थस्तनयानुसङ्गात् ॥१९॥शत्र्वाश्रयस्थः कुरुते सुरेज्योधर्मे नराणां सुनयेन धर्मम् ।तदंशकस्थो गुरुपोषणेनमूलत्रिकोणे घृणयानुरोधात् ॥२०॥शुक्रोश्चसंस्थो यदि धर्मसंस्थोधर्मं प्रसूते वरदानजातम् ।।आन्नजं तस्य विभागसंस्थःषड्वर्गशुद्धः पितृतर्पणेन ॥२१॥नीचांशकस्थो भृगुजश्च धर्मेधर्मं प्रसूते परदेशसङ्गात् ।तदंशकस्थोऽध्वगलोकसङ्गात्वर्गोत्तमस्थः सुमुखैरनेकैः ॥२२॥मित्राश्रयस्थो भृगुजस्तु धर्मेधर्मं सुवातेऽल्पफलं नराणाम् ।तस्थैव भागे च विनिसयेनपापस्य वर्गे परवंचनेन ॥२३॥शत्र्वाश्रयस्थो भृगुजश्च धर्मेधर्मं प्रसूते परलोकसङ्गात् ।तदंशकस्थोऽरिनिषेवणेनमूलत्रिकोणे कृषिकर्मलाभात् ॥२४॥शनैश्चरस्तुङ्गतस्तु धर्मेधर्मं विधत्ते वयसि तृतीये ।तदंशकस्थोऽल्पतरं परं चषड्वर्गौद्धस्त्वथ भक्तिबाह्यम् ॥२५॥नीचाश्रितः सूर्यौतस्तु धर्मेधर्मेण हीनं जनयेन्मनुष्यम् ।तदंशकस्थः परधर्मरक्तंपापस्य वर्गे कवलोद्भवं च ॥२६॥मित्राश्रयस्थोऽर्कसुतस्तु धर्मेधर्मं विधत्ते सततं सुगर्हम् ।तदंशकस्थस्त्रयजवर्गोत्तमस्थो नृपसेवया च ॥२७॥शत्र्वाश्रयस्थोऽर्कसुतस्तु धर्मेकृच्छेण धर्मं जनयेत् सुसूक्ष्मम् ।तदंशस्थः परदर्शनोत्थंमूलत्रिकोणे गुरुलब्धमानात् ॥२८॥इति श्रीवृद्धयवने धर्मस्थानचिन्ता ॥ N/A References : N/A Last Updated : November 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP