संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|श्रीवृद्धयवनजातक|पूर्वखण्ड| अध्याय २७ पूर्वखण्ड अनुक्रमणिकाः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २४अ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ पूर्वखण्डः - अध्याय २७ सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय. Tags : horoscopeज्योतिषमीनराजवृद्धयवनजातकशास्त्रसाहित्य सुखस्थानचिन्ताध्यायः Translation - भाषांतर बहुदुष्टजातम् ।तुङ्गांशकस्थोऽणुसुखं कदाचित्षड्वर्गशुद्धः परदारश्चं च ॥१॥नीचाश्रितो वासरपश्चतुर्थेसुखं विधत्ते न कदाचिदेव ।निचांशके दुःखविमिश्रितं चपापस्य वर्गे धृणदुःखमिश्रम् ॥२॥मित्राश्रयस्थो दिनकृश्चतुर्थेसुखं विधत्ते वृजिनैः समेतम् ।चौर्यद्भवं शत्रुविभागसंस्थोवर्गोत्तमस्थोऽक्षजमेव नित्यम् ॥३॥शत्रोर्गृहे वासरपश्चतुर्थेयुद्धे तु सौख्यं कुरुते नराणाम् ।शत्रोर्विभागे परसेवया चमूलत्रिकोणे वधवन्धजातम् ॥४॥सुखस्थितः शीतकरः स्वतुङ्गेसुखं विधत्ते गजवाजिजातम् ।तुङ्गांशके हेमसमुद्भवं चषड्वर्गशुद्धो विविधं सदैव ॥५॥नीचाश्रितः शीतकरः सुखं सदा द्यूतजमेव पुंसाम् ।नीचांशके भूरिकृषिप्रसूतंपापस्य वर्गे बहुपापजातम् ॥६॥मित्राश्रयस्थः खलु शीतरश्मिःसुखस्थितो भूरिसुखं विधत्ते ।सुताद्भव मित्रावभागसंस्थोवर्गोत्तमस्थो वनितोद्भवं च ॥७॥चतुर्थगो रात्रिपतिः प्रसूतेशत्रोर्गृहे सौख्यमनीतिजातम् ।शत्रोर्विभागे कपटप्रसूतमूलत्रिकोणे त्वथ धर्मजातम् ॥८॥चतुर्थो भूतनयः स्वतुङ्गेसुखं विधत्ते परसूदनेनतुङ्गांशकस्थः परबन्धनेनषड्वर्गशुद्धः परवंचनेन ॥९॥सुखाश्रितो भूमिसुतस्तु नीचेसौख्यं कदाचिन्न करोति पुंसाम् ।नीचांशकस्थः परपोषणेनपापत्य वर्गे वधबन्धनेन ॥१०॥मित्रारयस्थः क्षितिजश्चतुर्थे॥।परदेशयोगात् ।मित्रांशकस्थः सुरतप्रसङ्ग॥।वर्गोत्तमस्थः परवित्तनाशात् ॥११॥शत्रोर्गृहे स्याधदि भूमिपुत्रर्चतुर्थगः पुंश्चलजं च सौख्यम् ।धत्ते तदंशे करयोनिजातंमूलत्रिकोणे सुखमोहनाढ्यम् ॥१२॥सौम्यः सुखस्थः सुखमेव धत्तेमहाजनोत्थं यदि तुङ्गसंस्थः ।तुङ्गांशके पार्थिवजं च पुंसांषड्वर्गशुद्धो व्ययमेव पुंसाम् ॥१३॥नीचाश्रयस्थः शशिजो विधत्तेचतुर्थगः क्लेशजमेव सौख्यम् ।नीचांशकस्थः परसेवया च॥अतिविर्गहणेन ॥१४॥मित्राश्रयस्थः शशिजश्चतुर्थेसुखं विधत्ते वरपुत्रजातम् ।मित्रांशकस्थस्तु कलत्रजातंवर्गोत्तमस्थो दुहितोद्भवं च ॥१५॥शत्र्वाश्रयस्थः शशिजश्चतुर्थेसुखं विधत्ते क्रयविक्रयेण ।तस्यैव भागे पशुपालनेनमूलत्रिकोणे निजबन्धवोत्थम् ॥१६॥जीवश्चतुर्थे यदि तुङ्गसंस्थोसुखं विधत्ते सकलं सदैव ।तुङ्गस्य भागे च तथा तदर्धंषड्वर्गशुधश्च सुधर्मयुक्तम् ॥१७॥नीचाश्रितो देवगुरुश्चतुर्थेसौख्यं विधत्ते बहुनीचसङ्गात् ।नीचांशकस्थश्च विचित्रभावात्पापस्य वर्गे परपोषणेन ॥१८॥मित्राश्रयस्थे सुरराजपूज्येचतुर्थगे वंशजमेव सौख्यम् ।भवेत्तदंशे बहुभृत्यजातवर्गोत्तमस्थे भगिनीसमुत्थम् ॥१९॥शत्रोर्गृहथो यदि देवपूज्य॥स्चतुर्थगो नीचनिषेवणेन ।सौख्यं विधत्तेऽथ तदंशके वामूलत्रिकोणे नृपसङ्गमेन ॥२०॥शुक्रः स्वतुङ्गे यदि बन्धुसुखं विधत्ते बहुवित्तजातम् ।तुङ्गांशकस्थस्तु स्वरोष्ट्रजातंषड्वर्गशुद्धश्च गजोद्भवं च ॥२१॥नीचाश्रयस्थो यदि दैत्यमन्त्रीसुखं विधत्ते परनारिजातम् ।नीचांशके चैव विलासिनीनांपापस्य वर्गे गुरुपत्निसङ्गात् ॥२२॥मित्राश्रयस्थो भृगुश्चतुर्थेसौख्यं विधत्ते बहुगोधनोत्थम् ।मित्रांशकेऽजाविकमेव नित्यंवर्गोत्तमस्थो महिषीसमुत्थम् ॥२३॥शत्रोर्गृहस्थो यदि दैत्यपूज्यःसुखं विधत्ते कुनिषेवणेन ।तदंशके वा परदेशवासान्मूलत्रिकोणे द्विजदेवसङ्गात् ॥२४॥शनिः सुखस्थो यदि तुङ्गसंस्थःसुखं विधत्ते मृगपक्षिनाशात् ।॥ऽके वा विषभक्षिणेन ॥षड्वर्गशुद्धः कृषिकर्मजातम् ॥२५॥नीचाश्रितो भास्करजः प्रसूतेचतुर्थगः सौख्यविना मनुष्यम् ।नीचांशके लोकनिबन्धनेनपापस्य वर्गे पररन्ध्रसङ्गात् ॥२६॥मित्राश्रयस्थो यदि विधत्ते स्वकलत्रभुक्तम् ।मित्रांशके वा स्वकुतुम्बहीनंवर्गोत्तमस्थः परपीडनेन ॥२७॥॥।रानजः प्रसूतेसुखं चतुर्थे परवंचनेन ।तदंशके मानुषविक्रयेणमूलत्रिकोणे क्रयविक्रयेण ॥२८॥सौख्यः सुरराजमन्त्री ॥शताधिपः सोमसुतः सितश्च ।ऽलीयाधिपाः सूर्यशनैश्चराराः ॥२९॥स्वतुङ्गसंस्थ।सौख्यानि यच्छन्ति सदा ग्रहेन्द्राः ।नीचाश्रिता हीनसुखा भवन्तिषड्वर्गशुद्धाश्च यथा स्वतुङ्गे ॥३०॥इति श्रीवृद्धयवने सुखस्थानचिन्ता ॥ N/A References : N/A Last Updated : November 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP