रावणवध - भाग ३

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे कवी भट्टि रचित रावणवध.


३.११ वधेन संख्ये पिशिताऽशनानां क्षत्राऽन्तकस्याऽभिभवेन चैव
३.१२ आढ्यंभविष्णुर्यशसा कुमारः प्रियंभविष्णुर्न स यस्य नाऽऽसीत्.
३.२१ ततः सुचेतीकृतपौरभृत्यो "राज्येऽभिषेक्ष्ये सुतमित्यनीचैः
३.२२ आघोषयन्भूमिपतिः समस्तं भूयोऽपि लोकं सुमनीचकार.
३.३१ आदिक्षदादीप्तकृशानुकल्पं सिंहासनं तस्य सपादपीठम्
३.३२ सन्तप्तचामीकरवल्गुवज्रं विभागविन्यस्तमहार्घरत्नम्.
३.४१ प्रास्थापयत्पूगकृतान्स्वपोषं पृष्टान्प्रयत्नाद्दृढगात्रबन्धान्
३.४२ सभर्मकुम्भान्पुरुषान्समन्तात्पत्काषिणस्तीर्थजलाऽर्थमाशु.
३.५१ उक्षान्प्रचक्रुर्नगरस्य मार्गान्, ध्वजान्बबन्धुर्, मुमुचुः खधूपान्,
३.५२ दिशश्च पुष्पैश्चकरुर्विचित्रै रर्थेषु राज्ञा निपुणा नियुक्ताः
३.६१ मातामहाऽऽवासमुपेयिवांसं मोहादपृष्ट्वा भरतं तदानीम्
३.६२ तत्केकयी सोढुमशक्नुवाना ववार रामस्य वनप्रयाणम्.
३.७१ कर्णेजपैराहितराज्यलोभा स्त्रैणेन नीता विकृतिं लघिम्ना
३.७२ रामप्रवासे व्यमृशन्न दोषं जनाऽपवादं सनरेन्द्रमृत्युम्
३.८१ वसूनि देशांश्च निवर्तयिष्यन्रामं नृपः संगिरमाण एव
३.८२ तयाऽवजज्ञे, भरताऽभिशेको विषादशङ्कुश्च मतौ निचख्ने.
३.९१ ततः प्रविव्राजयिषुः कुमार मादिक्षदस्याऽभिगमं वनाय
३.९२ स्ॐइत्रिसीताऽनुचरस्य राजा सुमन्त्रनेत्रेण रथेन शोचन्.
३.१०१ केचिन्निनिन्दुर्नृपमप्रशान्तं, विचुक्रुशुः केचन साऽस्रमुच्चैः,
३.१०२ ऊचुस्तथाऽन्ये भरतस्य मायां, धिक्केकयीमित्यपरो जगाद.
३.१११ "गतो वनं श्वो भवितेति रामः," शोकेन देहे जनताऽतिमात्रम्,
३.११२ धीरास्तु तत्र च्युतमन्यवोऽन्ये दधुः कुमाराऽनुगमे मनांसि.
३.१२१ प्रस्थास्यमानावुपसेदुषस्तौ शोशुच्यमानानिदमूचतुस्तान्,
३.१२२ "किं शोचतेहाऽभ्युदये बताऽस्मान्नियोगलाभेन पितुः कृताऽर्थान्,
३.१३१ असृष्ट यो, यश्च भयेष्वरक्षीद्, यः सर्वदाऽस्मानपुषत्स्वपोषम्,
३.१३२ महोपकारस्य किमस्ति तस्य तुच्छेन यानेन वनस्य मोक्षः,
३.१४१ विद्युत्प्रणाशं स वरं प्रनष्टो, यद्वोर्ध्वशोषं तृणवद्विशुष्कः,
३.१४२ अर्थे दुरापे किमुत प्रवासे न शासनेऽवास्थित यो गुरूणाम्.
३.१५१ पौरा ! निवर्तध्वमिति न्यगादीत्, "तातस्य शोकाऽपनुदा भवेत,
३.१५२ मा दर्शताऽन्यं भरतं च मत्तो," निवर्तयेत्याह रथं स्म सूतम्
३.१६१ ज्ञात्वेङ्गितैर्गत्वरतां जनाना मेकां शयित्वा रजनीं सपौरः
३.१६२ रक्षन्वनेवासकृताद्भयात्तान्प्रातश्छलेनाऽपजगाम रामः
३.१७१ अस्राक्षुरस्रं करुणं रुवन्तो, मुहुर्मुहुर्न्यश्वसिषुः कपोष्णम्,
३.१७२ हा राम ! हा कष्टमिति ब्रुन्वतः पराङ्मुखैस्ते न्यवृतन्मनोभिः
३.१८१ सूतोऽपि गङ्गासलिलैः पवित्वा सहाऽऽश्वमात्मानमनल्पमन्युः
३.१८२ ससीतयो राघवयोरधीयन्श्वसन्कदुष्णं पुरमाविवेश.
३.१९१ प्रतीय सा पूर्ददृशे जनेन द्यौर्भानुशीतांशुविनाकृतेव
३.१९२ राजन्यनक्षत्रसमन्विताऽपि शोकाऽन्धकारक्षतसर्वचेष्टा.
३.२०१ विलोक्य रामेण विना सुमन्त्र मच्योष्ट सत्वान्नृपतिश्च्युताऽऽशः
३.२०२ मधूनि नैषीद्व्यलिपन्न गन्धैर्, मनोरमे न व्यवसिष्ट वस्त्रे.
३.२११ आसिष्ट नैकत्र शुचा, व्यरंसीत्कृताऽकृतेभ्यः क्षितिपालभाग्भ्यः,
३.२१२ स चन्दनोशीरमृणालदिग्धः शोकाग्निनाऽगाद्द्युनिवासभूयम्.
३.२२१ विचुक्रुशुर्भूमिपतेर्महिष्यः, केशांल्लुलुञ्चुः, स्ववपूंषि जघ्नुः,
३.२२२ विभूषणान्युन्मुमुचुः, क्षमाया पेतुर्, बभञ्जुर्वलयानि चैव.
३.२३१ ताः सान्त्वयन्ती भरतप्रतीक्षा तं बन्धुता न्यक्षिपदाशु तैले,
३.२३२ दूतांश्च राजाऽऽत्मजमानिनीषून्प्रास्थापयन्मन्त्रिमतेन यूनः.
३.२४१ "सुप्तो नभस्तः पतितं निरीक्षां चक्रे विवस्वन्तमधः स्फुरन्तम्,"
३.२४२ आख्यद्वसन्मातृकुले सखिभ्यः पश्यन्प्रमादं भरतोऽपि राज्ञः.
३.२५१ अशिश्रवन्नात्ययिकं तमेत्य दूता यदाऽर्थं प्रयियासयन्तः,
३.२५२ आंहिष्ट जाताऽञ्जिहिषस्तदाऽसा वुत्कण्ठमानो भरतो गुरूणाम्.
३.२६१ बन्धूनशाङ्किष्ट समाकुलुत्वा दासेदुषः स्नेहवशादपायम्,
३.२६२ ग्ॐआयुसारङ्गगणाश्च सम्यङ्नाऽयासिषुर्, भीममरासिषुश्च.
३.२७१ स प्रोषिवानेत्य पुरं प्रवेक्ष्यन्शुश्राव घोषं न जनौघजन्यम्,
३.२७२ आकर्णयामास न वेदनादान्, न चोपलेभे वणिजां पणाऽयान्.
३.२८१ चक्रन्दुरुच्चैर्नृपतिं समेत्य तं मातरोऽभ्यर्णमुपागताऽस्राः,
३.२८२ पुरोहिताऽमात्यमुखाश्च योधा विवृद्धमन्युप्रतिपूर्णमन्या.
३.२९१ दिदृक्षमाणः परितः ससीतं रामं यदा नैक्षत लक्ष्मणं च,
३.२९२ रोरुद्यमानः स तदाऽभ्यपृच्छद्, यथावदाख्यन्नथ वृत्तमस्मै.
३.३०१ आबद्धभीमभ्रुकुटीविभङ्गः शेश्वीयमानाऽरुणरौद्रनेत्रः
३.३०२ उच्चैरुपालब्ध स केकयीं च, शोके मुहुश्चाविरतं न्यमाङ्क्षीत्.
३.३११ नृपाऽऽत्मजौ चिक्लिशतुः ससीतौ, ममार राजा, विधवा भवत्यः,
३.३१२ शोच्या वयं, भूरनृपा, लघुत्वं केकय्युपज्ञं बत बह्वनर्थम्.
३.३२१ नैतन्मतं मत्कमिति ब्रुवाणः सहस्रशोऽसौ शपथानशप्यत्
३.३२२ उद्वाश्यमानः पितरं सरामं लुठ्यन्सशोको भुवि रोरुदावान्.
३.३३१ तं सुस्थयन्तः सचिवा नरेन्द्रं दिधक्षयन्तः समुदूहुरारात्
३.३३२ अन्त्याऽऽहुतिं हावयितुं सविप्राश्चिचीषयन्तोऽध्वरपात्रजातम्.
३.३४१ उदक्षिपन्पट्टदुकूलकेतू नवादयन्वेणुमृदङ्गकांस्यम्,
३.३४२ कम्बूंश्च तारानधमन्समन्तात्, तथाऽऽनयन्कुङ्कुमचन्दनानि.
३.३५१ श्रोत्राऽक्षिनासावदनं सरुक्मं कृत्वाऽजिने प्राक्शिरसं निधाय
३.३५२ सञ्चित्य पात्राणि यथाविधान मृत्विग्जुहाव ज्वलितं चिताऽग्निम्
३.३६१ कृतेषु पिण्डोदकसञ्चयेषु, हित्वाऽभिषेकं प्रकृतं प्रजाभिः
३.३६२ प्रत्यानिनीषुर्विनयेन रामं प्रायादरण्यं भरतः सपौरः.
३.३७१ शीघ्रायमाणैः ककुभोऽश्नुवानैर्जनैरपन्थानमुपेत्य सृप्तैः
३.३७२ शोकादभूषैरपि भूश्चकासा ञ्चकार नागेन्द्ररथाऽश्वमिश्रैः.
३.३८१ उच्चिक्यिरे पुष्पफलं वनानि, सस्नुः पित्न्पिप्रियुरापगासु,
३.३८२ आरेटुरित्वा पुलिनान्यशङ्कं, छायां समाश्रित्य विशश्रमुश्च.
३.३९१ संप्राप्य तीरं तमसाऽऽपगाया गङ्गाऽम्बुसम्पर्कविशुद्धिभाजः
३.३९२ विगाहितुं यामुनमब्मु पुण्यं ययुर्निरुद्धश्रमवृत्तयस्ते.
३.४०१ ईयुर्भरद्वाजमुनेर्निकेतं, यस्मिन्विशश्राम समेत्य रामः
३.४०२ च्युताऽशनायः फलवद्विभूत्या व्य्स्यन्नुदन्यां शिशिरैः पयोभिः.
३.४११ वाचंयमान्स्थण्डिलशायिनश्च युयुक्षमाणाननिशं मुमुक्षून्
३.४१२ अध्यापयन्तं विनयात्प्रणेमुः पद्गा भरद्वाजमुनिः सशिष्यं.
३.४२१ आतिथ्यमेभ्यः परिनिर्विवप्सोः कल्पद्रुमा योगबलेन फेलुः,
३.४२२ धामप्रथिम्नो म्रदिमाऽन्वितानि वासांसि च द्राघिमवन्त्युदूहुः
३.४३१ आज्ञां प्रतीषुर्, विनयादुपास्थुर्, जगुः सरागं, ननृतुः सहावम्,
३.४३२ सविभ्रमं नेमुरुदारमुचुस्तिलोत्तमाऽऽद्या वनिताश्च तस्मिन्.
३.४४१ वस्त्राऽन्नपानं शयनं च नाना कृत्वाऽवकाशे रुचिसंप्रक्wxल्क़्क़्प्तम्
३.४४२ तान्प्रीतिमानाह मुनिस्ततः स्म "निवध्वमाध्वं, पिबताऽत्त शेध्वम्.
३.४५१ ते भुक्तवन्तः सुसुखं वसित्वा वासांस्युषित्वा रजनीं प्रभाते
३.४५२ द्रुतं समध्वा रथवाजिनागैर्मन्दाकिनीं रम्यवनां समीयुः.
३.४६१ वैखानसेभ्यः श्रुतरामवार्तास्ततो विशिञ्जानपतक्त्रिसङ्घम्
३.४६२ अभ्रंलिहाऽग्रं रविमार्गभङ्गं आनंहिरेऽद्रिं प्रति चित्रकूटम्.
३.४७१ दृष्ट्वोर्णुवानान्ककुभो बलौघान्वितत्य शार्ङ्गं कवचं पिनह्य
३.४७२ तस्थौ सिसंग्रामयिषुः शितेषुः स्ॐइत्रिरक्षिभ्रुवमुज्जिहानः
३.४८१ शुक्लोत्तरासङ्गभृतो विशस्त्रान्पादैः शनैरापततः प्रमन्यून्
३.४८२ औहिष्ट तान्वीतविरुद्धबुद्धीन्विवन्दिषून्दाशरथिः स्ववर्ग्यान्
३.४९१ समूलकाषं चकषू रुदन्तो रामाऽन्तिकं बृंहितमन्युवेगाः
३.४९२ आवेदयन्तः क्षितिपालमुच्चैः कारं मृतं रामवियोगशोकात्
३.५०१ चिरं रुदित्वा करुणं सशब्दं गोत्राऽभिधायं सरितं समेत्य
३.५०२ मध्येजलाद्राघवलक्ष्मणाभ्यां प्रत्तं जलं द्व्यञ्जलमन्तिकेऽपाम्.
३.५११ "अरण्ययाने सुकरे पिता मा प्रायुङ्क्त, राज्ये बत दुष्करे त्वाम्,
३.५१२ मा गाः शुचं वीर !, भरं वहाऽमुम्," आभाषि रामेण वचः कनीयान्.
३.५२१ "कृती श्रुती वृद्धमतेषु धीमांस्त्वं पैतृकं चेद्वचनं न कुर्याः,
३.५२२ विच्छिद्यमानेऽपि कुले परस्य पुंसः कथं स्यादिह पुत्रकाम्या.
३.५३१ अस्माकमुक्तं बहु मन्यसे चेद्, यदीशिषे त्वं न मयि स्थिते च,
३.५३२ जिह्रेष्यतिष्ठन्यदि तातवाक्ये, जहीहि शङ्कां, व्रज, शाधि पृथ्वीम्."
३.५४१ "वृद्धौरसां राज्यधुरां प्रवोढुं कथं कनीयानहमुत्सहेय,
३.५४२ मा मां प्रयुक्थाः कुलकीर्तिलोपे," प्राह स्म रामं भरतोऽपि धर्य्मम्.
३.५५१ "ऊर्जस्वलं हस्तितुरङ्गमेतद्, अमूनि रत्नानि च राजभाञ्जि,
३.५५२ राजन्यकं चैतदहं क्षितीन्द्रस्त्वयि स्थिते स्यामिति शान्तमैतत्."
३.५६१ इति निगदितवन्तं राघवस्तं जगादÄ "व्रज भरत ! गृहीत्वा पादुके त्वं मदीये,
३.५६२ च्युतनिखिलविशङ्कः पूज्यमानो जनौघैः सकलभुवनराज्यं कारयाऽस्मन्मतेन"

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP