संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|आर्या-सप्तशती| अ-कार-व्रज्या आर्या-सप्तशती ग्रन्थारम्भ-व्रज्या अ-कार-व्रज्या आ-कार-व्रज्या इ-कार-व्रज्या ई-कार-व्रज्या उ-कार-व्रज्या ऊ-कार-व्रज्या ऋ-कार-व्रज्या ए-कार-व्रज्या क-कार-व्रज्या ख-कार-व्रज्या ग-कार-व्रज्या घ-कार-व्रज्या च-कार-व्रज्या ज-कार-व्रज्या झ-कार-व्रज्या ढ-कार-व्रज्या त-कार-व्रज्या द-कार-व्रज्या ध-कार-व्रज्या न-कार-व्रज्या प-कार-व्रज्या ब-कार-व्रज्या भ-कार-व्रज्या म-कार-व्रज्या य-कार-व्रज्या र-कार-व्रज्या ल-कार-व्रज्या व-कार-व्रज्या श-कार-व्रज्या ष-कार-व्रज्या स-कार-व्रज्या ह-कार-व्रज्या क्ष-कार-व्रज्या आर्या सप्तशती - अ-कार-व्रज्या आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे. Tags : arya saptashatigovardhanacharyaआर्या सप्तशतीगोवर्धनाचार्यसंस्कृत अ-कार-व्रज्या Translation - भाषांतर अवधि-दिनावधि-जीवाः प्रसीद जीवन्तु पथिक-जनजायाः ।दुर्लङ्घ्य-वर्त्म-शैलौ स्तनौ पिधेहि प्रपापालि ॥१॥अतिवत्सला सुशीला सेवा-चतुरा मनो ऽनुकूला च ।अजनि विनीता गृहिणी सपदि सप्त्नी-स्तनोद्भेदे ॥२॥अयि कूल-निचुल-मूलोच्छेदन-दुःशील-वीचि-वाचाले ।बक-विघस-पङ्क-सारा न चिरात् कावेरि भवितासि ॥३॥अयि विविध-वचन-रचने ददासि चन्द्रं करे समानीय ।व्यसन-दिवसेषु दूति क्व पुनस् त्वं दर्शनीयासि ॥४॥अस्तु म्लानिर् लोको लाञ्छनम् अपदिशतु हीयताम् ओजः ।तद् अपि न मुञ्चति स त्वां वसुधा-छायाम् इव सुधांशुः ॥५॥अतिचापलं वितन्वन्न् अन्तर्निविशन् निकाम-काठिन्यः ।मुखरयसि स्वयम् एतां सद्-वृत्तां शङ्कुर् इव घण्टाम् ॥६॥अङ्गेषु जीर्यति परं खञ्जन-यूनोर् मनोभव-प्रसरः ।न पुनर् अनन्तर्-गर्भित-निधिनि धरा-मण्डले केलिः ॥७॥अन्धत्वम् अन्ध-समये बधिरत्वं बधिर-काल आलम्ब्य ।श्री-केशवयोः प्रणयी प्रजापतिर् नाभि-वास्तव्यः ॥८॥अयि कोष-कार कुरुषे वनेचराणां पुरो गुणोद्गारम् ।यन् न विदार्य विचारित-जठरस् त्वं स खलु ते लाभः ॥९॥अगणित-महिमा लङ्घित-गुरुर् अधनेहः स्तनन्धय-विरोधी ।इष्टाकीर्तिस् तस्यास् त्वयि रागः प्राण-निरपेक्षः ॥१०॥अपराधाद् अधिकं मां व्यथयति तव कपट-वचन-रचनेयम् ।शस्त्राघातो न तथा सूची-व्यध-वेदना यादृक् ॥११॥असती-लोचन-मुकुरे किम् अपि प्रतिफलति यन् मनोवर्ति ।सारस्वतम् अपि चक्षुः सतिमिरम् इव तन् न लक्षयति ॥१२॥अन्य-मुखे दुर्वादो यः प्रिय-वदने स एव परिहासः ।इतरेन्धन-जन्मा यो धूमः सो ऽगुरुभवो धूपः ॥१३॥अयि सुभग कुतुक-तरला विचरन्ती सौरभानुसारेण ।त्वयि मोहाय वराकी पतिता मधुपीव विष-कुसुमे ॥१४॥अयि मुग्ध-गन्ध-सिन्धुर-शङ्का-मात्रेण दन्तिनो दलिताः ।उपभुञ्जते करेणूः केवलम् इह मत्-कुणाः करिणः ॥१५॥अतिविनय-वामन-तनुर् विलङ्घते गेह-देहलीं न वधूः ।अस्याः पुनर् आरभटीं कुसुम्भवाटी विजानाति ॥१६॥अन्तर्-गतैर् गुणैः किं द्वित्रा अपि यत्र साक्षिणो विरलाः ।स गुणो गीतेर् यद् असौ वनेचरं हरिणम् अपि हरति ॥१७॥अलुलित-सकल-विभूषां प्रातर् बालां विलोक्य मुदितं प्राक् ।प्रिय-शिरसि वीक्ष्य यावकम् अथ निःश्वसितं सपत्नीभिः ॥१८॥अयि लज्जावति निभर-निशीथ-रत-निःसहाङ्गि सुख-सुप्ते ।लोचन-कोकनद-च्छदम् उन्मीलय सुप्रभातं ते ॥१९॥अमिलित-वदनम् अपीडित-वक्षोरुहम् अतिविदूर-जघनोरु ।शपथ-शतेन भुजाभ्यां केवलम् आलिङ्गितो ऽस्मि तया ॥२०॥अतिपूजित-तारेयं दृष्टिः श्रुति-लङ्घन-क्षमा सुतनु ।जिन-सिद्धान्त-स्थितिर् इव स-वासना कं न मोहयति ॥२१॥अलम् अविषय-भय-लज्जा-वञ्चितम् आत्मानम् इयम् इयत् समयम् ।नव-परिचित-दयित-गुणा शोचति नालपति शयन-सखीः ॥२२॥अनुराग-वर्तिना तव विरहेणोग्रेण सा गृहीताङ्गी ।त्रिपुर-रिपुणेव गौरी वर-तनुर् अर्धावशिष्टैव ॥२३॥अन्य-प्रवणे प्रेयसि विपरीते स्रोतसीव विहितास्थाः ।तद्-गतिम् इच्छन्त्यः सखि भवन्ति विफल-श्रमाः हास्याः ॥२४॥अधिकः सर्वेभ्यो यः प्रियः प्रियेभ्यो हृदि स्थितः सततम् ।स लुठति विरहे जीवः कण्ठेऽस्यास् त्वम् इव सम्भोगे ॥२५॥अनयन-पथे प्रिये न व्यथा यथा दृश्य एव दुष्प्रापे ।म्लानैव केवलं निशि तपन-शिला वासरे ज्वलति ॥२६॥अविभाव्यो मित्रेऽपि स्थिति-मात्रेणैव नन्दयन् दयितः ।रहसि व्यपदेशाद् अयम् अर्थः इवाराजके भोग्यः ॥२७॥अश्रौषीर् अपराधान् मम तथ्यं कथय मन्-मुखं वीक्ष्य ।अभिधीयते न किं यदि न मान-चौराननः कितवः ॥२८॥अन्योन्यम् अनु स्रोतसम् अन्यद् अथान्यत् तटात् तटं भजतोः ।उदितेऽर्केऽपि न माघ-स्नानं प्रसमाप्यते यूनोः ॥२९॥अयि चूत-वल्लि फल-भर-नताङ्गि विष्वग्-विकासि-सौरभ्ये ।श्वपच-घट-कर्पराङ्का त्वं किल फलितापि विफलैव ॥३०॥अञ्जलिर् अकारि लोकैर् म्लानिम् अनाप्तैव रञ्जिता जगती ।सन्ध्याया इव वसतिः स्वल्पापि सखे सुखायैव ॥३१॥अगृहीतानुनयां माम् उपेक्ष्य सख्यो गता बतैकाहम् ।प्रसभं करोषि मयि चेत् त्वद् उपरि वपुर् अद्य मोक्ष्यामि ॥३२॥अस्थिर-रागः कितवो मानी चपलो विदूषकस् त्वम् असि ।मम सख्याः पतसि करे पश्यामि यथा ऋजुर् भवसि ॥३३॥अकरुण कातर-मनसो दर्शित-नीरा निरन्तरालेयम् ।त्वाम् अनु धावति विमुखं गङ्गेव भगीरथं दृष्टिः ॥३४॥अन्तः-कलुष-स्तम्भित-रसया भृङ्गारनालयेव मम ।अप्य् उन्मुखस्य विहिता वरवर्णिनि न त्वया तृप्तिः ॥३५॥अयि सरले सरल-तरोर् मद-मुदित-द्विप-कपोल-पालेश् च ।अन्योन्य-मुग्ध-गन्ध-व्यतिहारः कषणम् आचष्टे ॥३६॥अस्याः कर-रुह-खण्डित-काण्ड-पट-प्रकट-निर्गता दृष्टिः ।पट-विगलित-निष्कलुषा स्वदते पीयूष-धारेव ॥३७॥अस्याः पति-गृह-गमने करोति माताश्रु-पिच्छिलां पदवीम् ।गुण-गर्विता पुनर् असौ हसति शनैः शुष्क-रुदित-मुखी ॥३८॥अङ्के निवेश्य कूणित-दृशः शनैर् अकरुणेति शंसन्त्याः ।मोक्ष्यामि वेणि-बन्धं कदा नखैर् गन्ध-तैलाक्तैः ॥३९॥अलम् अनलङ्कृति-सुभगे भूषणम् उपहास-विषयम् इतरासाम् ।कुरुषे वनस्पति-लता प्रसूनम् इव बन्ध्य-वल्लीनाम् ॥४०॥अबुधा अजङ्गमा अपि कयापि गत्या परं पदम् अवाप्ताः ।मन्त्रिण इति कीर्त्यन्ते नय-बल-गुटिका इव जनेन ॥४१॥अतिशील-शीत-लतया लोकेषु सखी मृदु-प्रतापा नः ।क्षण-वाम्य-दह्यमानः प्रतापम् अस्याः प्रियो वेद ॥४२॥अन्यास्व् अपि गृहिणीति ध्यायन्न् अभिलषितम् आप्नोति ।पश्यन् पाषाणमयीः प्रतिमा इव देवतात्वेन ॥४३॥अनुपेत्य नीच-भावं बालक परितो गभीर-मधुरस्य ।अस्याः प्रेम्णः पात्रं न भवसि सरितो रसस्येव ॥४४॥अधिवासनम् आधेयं गुण-मार्गम् अपेक्षते न च ग्रथनाम् ।कलयति युवजन-मौलिं केतक-कलिका स्वरूपेण ॥४५॥अपनीत-निखिल-तापां सुभग स्व-करेण विनिहितां भवता ।पतिशयन-वार-पालि-ज्वरौषधं वहति सा मालाम् ॥४६॥अगणित-गुणेन सुन्दर कृत्वा चारित्रम् अप्य् उदासीनम् ।भवतानन्य-गतिः सा विहितावर्तेन तरणिर् इव ॥४७॥अनुरक्त-रामया पुनर् आगतये स्थापितोत्तरीयस्य ।अप्य् एक-वाससस् तव सर्व-युवभ्यो ऽधिका शोभा ॥४८॥अर्धः प्राणित्य् एको मृत इतरो मे विधुन्तुदस्येव ।सुधयेव प्रियया पथि सङ्गत्यालिङ्गितार्धस्य ॥४९॥अवधीरितो ऽपि निद्रा-मिषेण माहात्म्यम् असृणया प्रियया ।अवबोधितो ऽस्मि चपलो बाष्प-स्थित-मितेन तल्पेन ॥५०॥अयि शब्द-मात्र-साम्याद् आस्वादित-शर्करस्य तव पथिक ।स्वल्पो रसना-च्छेदः पुरतो जन-हास्यता महती ॥५१॥अभिनव-यौवन-दुर्जय-विपक्ष-जन-हन्यमानमानापि ।सूनोः पितृ-प्रियत्वाद् बिभर्ति सुभगा-मदं गृहिणी ॥५२॥अपमानितम् इव सम्प्रति गुरुणा ग्रीष्मेण दुर्बलं शैत्यम् ।स्नानोत्सुक-तरुणी-स्तन-कलश-निबद्धं पयो विशति ॥५३॥अलसयति गात्रम् अखिलं क्लेशं मोचयति लोचनं हरति ।स्वाप इव प्रेयान् मम मोक्तुं न ददाति शयनीयम् ॥५४॥अंसावलम्बि-कर-धृत-कचम् अभिषेकार्द्र-धवल-नख-रेखम् ।धौताधर-नयनं वपुर् अस्त्रम् अनङ्गस्य तव निशितम् ॥५५॥अविनिहितं विनिहितम् इव युवसु स्वच्छेषु वार-वाम-दृशः ।उपदर्शयन्ति हृदयं दर्पण-बिम्बेषु वदनम् इव ॥५६॥अतिलज्जया त्वयैव प्रकटः प्रेयान् अकारि निभृतो ऽपि ।प्रासाद-मौलिर् उपरि प्रसरन्त्या वैजयन्त्य् एव ॥५७॥अन्योन्य-ग्रथनागुण-योगाद् गावः पदार्पणैर् बहुभिः ।खलम् अपि तुदन्ति मेढी-भूतं मध्य-स्थम् आलम्ब्य ॥५८॥अननुग्रहेण न तथा व्यथयति कटु-कूजितैर् यथा पिशुनः ।रुधिरादानाद् अधिकं दुनोति कर्णे क्वणन् मशकः ॥५९॥अग्रे लघिमा पश्चान् महतापि पिधीयते न हि महिम्ना ।वामन इति त्रिविक्रमम् अभिदधति दशावतार-विदः ॥६०॥अङ्के स्तनन्धयस् तव चरणे परिचारिका प्रियः पृष्ठे ।अस्ति किम् उ लभ्यम् अधिकं गृहिणि यदा शङ्कसे बालाम् ॥६१॥अधर उदस्तः कूजितम् आमीलितम् अक्षि लोलितो मौलिः ।आसादितम् इव चुम्बन-सुखम् अस्पर्शेऽपि तरुणाभ्याम् ॥६२॥अतिरभसेन भुजो ऽयं वृति-विवरेण प्रवेशितः सदनम् ।दयितास्पर्शोल्लसितो नागच्छति वर्त्मना तेन ॥६३॥अम्बर-मध्य-निविष्टं तवेदम् अतिचपलम् अलघु जघन-तटम् ।चातक इव नवम् अभ्रं निरीक्षमाणो न तृप्यामि ॥६४॥अयम् अन्धकार-सिन्धुर-भाराक्रान्तावनी-भराक्रान्तः ।उन्नत-पूर्वाद्रि-मुखः कूर्मः सन्ध्यास्रम् उद्वमति ॥६५॥अन्तर्भूतो निवसति जडे जडः शिशिर-महसि हरिण इव ।अजडे शशीव तपने स तु प्रविष्टो ऽपि निःसरति ॥६६॥अगणित-जनापवादा त्वत्-पाणि-स्पर्श-हर्ष-तरलेयम् ।आयास्यतो वराकी ज्वरस्य तल्पं प्रकल्पयति ॥६७॥अप्य् एक-वंश-जनुषोः पश्यत पूर्णत्व-तुच्छता-भाजोः ।ज्या-कार्मुकयोः कश्चिद् गुण-भूतः कश्चिद् अपि भर्ता ॥६८॥अभिनव-केलि-क्लान्ता कलयति बाला क्रमेण घर्माम्भः ।ज्याम् अर्पयितुं नमिता कुसुमास्त्र-धनुर् लतेव मधु ॥६९॥असती कुलजा धीरा प्रौढा प्रतिवेशिनी यद् आसक्तिम् ।कुरुते सरसा च तदा ब्रह्मानन्दं तृणं मन्ये ॥७०॥अविरल-पतिताश्रु वपुः पाण्डु स्निग्धं तवोपनीतम् इदम् ।शत-धौतम् आज्यम् इव मे स्मर-शर-दाह-व्यथां हरति ॥७१॥अन्तर् निपतित-गुञ्जा-गुण-रमणीयश् चकास्ति केदारः ।निज-गोपी-विनय-व्यय-खेदेन विदीर्ण-हृदय इव ॥७२॥अमुना हतम् इदम् इदम् इति रुदती प्रतिवेशिनेऽङ्गम् अङ्गम् इयम् ।रोष-मिष-दलित-लज्जा गृहिणी दर्शयति पति-पुरतः ॥७३॥इति विभाव्याख्या-समेता अ-कार-व्रज्या ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP