संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|आर्या-सप्तशती| भ-कार-व्रज्या आर्या-सप्तशती ग्रन्थारम्भ-व्रज्या अ-कार-व्रज्या आ-कार-व्रज्या इ-कार-व्रज्या ई-कार-व्रज्या उ-कार-व्रज्या ऊ-कार-व्रज्या ऋ-कार-व्रज्या ए-कार-व्रज्या क-कार-व्रज्या ख-कार-व्रज्या ग-कार-व्रज्या घ-कार-व्रज्या च-कार-व्रज्या ज-कार-व्रज्या झ-कार-व्रज्या ढ-कार-व्रज्या त-कार-व्रज्या द-कार-व्रज्या ध-कार-व्रज्या न-कार-व्रज्या प-कार-व्रज्या ब-कार-व्रज्या भ-कार-व्रज्या म-कार-व्रज्या य-कार-व्रज्या र-कार-व्रज्या ल-कार-व्रज्या व-कार-व्रज्या श-कार-व्रज्या ष-कार-व्रज्या स-कार-व्रज्या ह-कार-व्रज्या क्ष-कार-व्रज्या आर्या सप्तशती - भ-कार-व्रज्या आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे. Tags : arya saptashatigovardhanacharyaआर्या सप्तशतीगोवर्धनाचार्यसंस्कृत भ-कार-व्रज्या Translation - भाषांतर भ्रमसि प्रकटयसि रदं करं प्रसारयसि तृणम् अपि श्रयसि ।धिङ् मानं तव कुञ्जर जीवं न जुहोषि जठराग्नौ ॥४११॥भूतिमयं कुरुतेऽग्निस् तृणम् अपि संलग्नम् एनम् अपि भजतः ।सैव सुवर्ण दशा ते शङ्के गरिमोपरोधेन ॥४१२॥भवति निदाघे दीर्घे यथेह यमुनेव यामिनी तन्वी ।द्वीपा इव दिवसा अपि तथा क्रमेण प्रथीयांसः ॥४१३॥भवता महति स्नेहानलेऽर्पिता पथिक हेम-गुटिकेव ।तन्वी हस्तेनापि स्प्रष्टुम् अशुद्धैर् न सा शक्या ॥४१४॥भूमि-लुलितैक-कुण्डलम् उत्तंसित-काण्ड-पटम् इयं मुग्धा ।पश्यन्ती निःश्वासैः क्षिपति मनोरेणु-पूरम् अपि ॥४१५॥भवतालिङ्गि भुजङ्गी जातः किल भोगि-चक्रवर्ती त्वम् ।कञ्चुक वनेचरी-स्तनम् अभिलषतः स्फुरति लघिमा ते ॥४१६॥भैक्ष-भुजा पल्ली-पतिर् इति स्तुतस् तद्-वधू-सुदृष्टेन ।रक्षक जयसि यद् एकः शून्ये सुर-सदसि सुखम् अस्मि ॥४१७॥भोगाक्षमस्य रक्षां दृङ्-मात्रेणैव कुर्वतो ऽनभिमुखस्य ।वृद्धस्य प्रमदापि श्रीर् अपि भृत्यस्य भोगाय ॥४१८॥भवितासि रजनि यस्याम् अध्व-श्रम-शान्तये पदं दधतीम् ।स बलाद् वलयित-जङ्घा-बद्धां माम् उरसि पातयति ॥४१९॥भूषणतां भजतः सखि कषण-विशुद्धस्य जात-रूपस्य ।पुरुषस्य च कनकस्य च युक्तो गरिमा सरागस्य ॥४२०॥भस्म-पुरुषेऽपि गिरिशे स्नेहमयी त्वम् उचितेन सुभगासि ।मोघस् त्वयि जनवादो यद् ओषधि-प्रस्थ-दुहितेति ॥४२१॥भय-पिहितं बालायाः पीवरम् ऊरु-द्वयं स्मरोन्निद्रः ।निद्रायां प्रेमार्द्रः पश्यति निःश्वस्य निःश्वस्य ॥४२२॥भ्रमरीव कोष-गर्भे गन्ध-हृता कुसुमम् अनुसरन्ती त्वाम् ।अव्यक्तं कूजन्ती सङ्केतं तमसि सा भ्रमति ॥४२३॥भ्रामं भ्रामं स्थितया स्नेहे तव पयसि तत्र तत्रैव ।आवर्त-पतित-नौकायितम् अनया विनयम् अपनीय ॥४२४॥भ्रमयसि गुणमयि कण्ठ-ग्रह-योग्यानात्म-मन्दिरोपान्ते ।हालिक-नन्दिनि तरुणान् ककुद्मिनो मेढि-रज्जुर् इव ॥४२५॥भाल-नयनेऽग्निर् इन्दुर् मौलौ गात्रे भुजङ्ग-मणि-दीपाः ।तद् अपि तमो-मय एव त्वम् ईश कः प्रकृतिम् अतिशेते ॥४२६॥इति विभाव्याख्या-समेता भ-कार-व्रज्या ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP