संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|आर्या-सप्तशती| द-कार-व्रज्या आर्या-सप्तशती ग्रन्थारम्भ-व्रज्या अ-कार-व्रज्या आ-कार-व्रज्या इ-कार-व्रज्या ई-कार-व्रज्या उ-कार-व्रज्या ऊ-कार-व्रज्या ऋ-कार-व्रज्या ए-कार-व्रज्या क-कार-व्रज्या ख-कार-व्रज्या ग-कार-व्रज्या घ-कार-व्रज्या च-कार-व्रज्या ज-कार-व्रज्या झ-कार-व्रज्या ढ-कार-व्रज्या त-कार-व्रज्या द-कार-व्रज्या ध-कार-व्रज्या न-कार-व्रज्या प-कार-व्रज्या ब-कार-व्रज्या भ-कार-व्रज्या म-कार-व्रज्या य-कार-व्रज्या र-कार-व्रज्या ल-कार-व्रज्या व-कार-व्रज्या श-कार-व्रज्या ष-कार-व्रज्या स-कार-व्रज्या ह-कार-व्रज्या क्ष-कार-व्रज्या आर्या सप्तशती - द-कार-व्रज्या आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे. Tags : arya saptashatigovardhanacharyaआर्या सप्तशतीगोवर्धनाचार्यसंस्कृत द-कार-व्रज्या Translation - भाषांतर दर्शन-विनीत-माना गृहिणी हर्षोल्लसत्-कपोल-तलम् ।चुम्बन-निषेध-मिषतो वदनं पिदधाति पाणिभ्याम् ॥२७६॥देह-स्तम्भः स्खलनं शैथिल्यं वेपथुः प्रिय-ध्यानम् ।पथि पथि गगनाश्लेषः कामिनि कस् तेऽभिसार-गुणः ॥२७७॥द्राघयता दिवसानि त्वदीय-विरहेण तीव्र-तापेन ।ग्रीष्मेणेव नलिन्या जीवनम् अल्पीकृतं तस्याः ॥२७८॥दुर्जन-सहवासाद् अपि शीलोत्कर्षं न सज्जनस् त्यजति ।प्रतिपर्व-तपन-वासी निःसृत-मात्रः शशी शीतः ॥२७९॥दयित-प्रहितां दूतीम् आलम्ब्य करेण तमसि गच्छन्ती ।स्वेद-च्युत-मृगनाभिर् दूराद् गौराङ्गि दृश्यासि ॥२८०॥दयिता-गुणः प्रकाशं नीतः स्वस्यैव वदन-दोषेण ।प्रतिदिन-विदलित-वाटी-वृति-गह्टनैः खिद्यसे किम् इति ॥२८१॥दाक्षिण्यान् म्रदिमानं दधतं मा भानुम् एनम् अवमंस्थाः ।रौद्रीम् उपागतेऽस्मिन् कः क्षमते दृष्टिम् अपि दातुम् ॥२८२॥दृष्ट्यैव विरह-कातर-तारकया प्रिय-मुखे समर्पितया ।यान्ति मृग-वल्लभायाः पुलिन्द-बाणार्दिताः प्राणाः ॥२८३॥दूर-स्थापित-हृदयो गूढ-रहस्यो निकामम् आशङ्कः ।आश्लेषो बालानां भवति खलानां च सम्भेदः ॥२८४॥द्वारे गुरवः कोणे शुकः सकाशे शिशुर् गृहे सख्यः ।कालासह क्षमस्व प्रिय प्रसीद प्रयात-महः ॥२८५॥दधि-कण-मुक्ता-भरण-श्वासोत्तुङ्ग-स्तनार्पण-मनोज्ञम् ।प्रियम् आलिङ्गति गोपी मन्थन-श्रम-मन्थरैर् अङ्गैः ॥२८६॥दलितोद्वेगेन सखि प्रियेण लग्नेन रागम् आवहता ।मोहयता शयनीयं ताम्बूलेनेव नीतास्मि ॥२८७॥दृष्टम् अदृष्ट-प्रायं दयितं कृत्वा प्रकाशितस् तनया ।हृदयं करेण ताडितम् अथ मिथ्या व्यञ्जित-त्रपया ॥२८८॥दर्शित-यमुनोच्छ्राये भ्रू-विभ्रम-भाजि वलति तव नयने ।क्षिप्त-हले हलधर इव सर्वं पुरमर्जितं सुतनु ॥२८९॥दयित-प्रार्थित-दुर्लभ-मुख-मदिरा-सारसेक-सुकुमारः ।व्यथयति विरहे बकुलः क्व परिचयः प्रकृति-कठिनानाम् ॥२९०॥द्वित्रैर् एष्यामि दिनैर् इति किं तद् वचसि सखि तवाश्वासः ।कथयति चिर-पथिकं तं दूर-निखातो नखाङ्कस् ते ॥२९१॥दयित-स्पर्शोन्मीलित-धर्म-जल-स्खलित-चरण-खलाक्षे ।गर्व-भर-मुखरिते सखि तच्-चिकुरान् किम् अपराधयसि ॥२९२॥दुष्ट-ग्रहेण गेहिनि तेन कुपुत्रेण किं प्रजातेन ।भौमेनेव निजं कुलम् अङ्गार-कवत्-कृतं येन ॥२९३॥दर्शित-चापोच्छ्रायैस् तेजोवद्भिः सुगोत्र-सञ्जातैः ।हीरैर् अप्स्व् अपि वीरैर् आपत्स्व् अपि गम्यते नाधः ॥२९४॥दर-निद्राणस्यापि स्मरस्य शिल्पेन निर्गतासून् मे ।मुग्धे तव दृष्टिर् असाव् अर्जुन-यन्त्रेषुर् इव हन्ति ॥२९५॥दुर्गत-गृहिणी तनये करुणार्द्रा प्रियतमे च रागमयी ।मुग्धा रताभियोगं न मन्यते न प्रतिक्षिपति ॥२९६॥दुर्गत-गेहिनि जर्जर-मन्दिर-सुप्तैव वन्दसे चन्द्रम् ।वयम् इन्दु-वञ्चित-दृशो निचुलित-दोला-विहारिण्यः ॥२९७॥दीप-दशा कुल-युवतिर् वैदग्ध्येनैव मलिनताम् एति ।दोषा अपि भूषायै गणिकायाः शशि-कलायाश् च ॥२९८॥दीर्घ-गवाक्ष-मुखान्तर्-निपातिनस् तरणि-रश्मयः शोणाः ।नृहरि-नखा इव दानव-वक्षः प्रविशन्ति सौध-तलम् ॥२९९॥दर-तरलेऽक्षणि वक्षसि दरोन्नते तव मुखे च दर-हसिते ।आस्तां कुसुमं वीरः स्मरो ऽधुना चित्र-धनुषापि ॥३००॥दुष्ट-सखी-सहितेयं पूर्णेन्दु-मुखी सुखाय नेदानीम् ।राकेव विष्टि-युक्ता भवतो ऽभिमताय निशि भवतु ॥३०१॥दलिते पलाल-पुञ्जे वृषभं परिभवति गृह-पतौ कुपिते ।निभृत-निभालित-वदनौ हलिक-वधू-देवरौ हसतः ॥३०२॥दीप्यन्तां ये दीप्त्यै घटिता मणयश् च वीर-पुरुषाश् च ।तेजः स्व-विनाशाय तु नृणां तृणानाम् इव लघूनाम् ॥३०३॥इति विभाव्याख्या-समेता द-कार-व्रज्या ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP