आर्या सप्तशती - इ-कार-व्रज्या

आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.


इयम् उद्गतिं हरन्ती-नेत्र-निकोचं च विदधती पुरतः ।
न विजानीमः किं तव वदति सपत्नीव दिन-निद्रा ॥१०७॥


इदम् उभय-भित्ति-सन्तत-हार-गुणान्तर्-गतैक-कुच-मुकुलम् ।
गुटिका-धनुर् इव बाला-वपुः स्मरः श्रयति कुतुकेन ॥१०८॥


इह शिखरि-शिखरावलम्बिनि विनोद-दर-तरल-वपुषि तरु-हरिणे ।
पश्याभिलषति पतितुं विहगी निज-नीड-मोहेन ॥१०९॥


इक्षुर् नदी-प्रवाहो द्यूतं मान-ग्रहश् च हे सुतनु ।
भ्रू-लतिका च तवेयं भङ्गे रसम् अधिकम् आवहति ॥११०॥


इन्दोर् इवास्य पुरतो यद् विमुखी साप-वारणा भ्रमसि ।
तत् कथय किं नु दुरितं सखि त्वया छाययेव कृतम् ॥१११॥


इह कपट-कुतुक-तरलित-दृशि विश्वासं कुरङ्ग किं कुरुषे ।
तव रभस-तरलितेयं व्याध-वधूर् वालधौ वलते ॥११२॥


इह वहति बहु महोदधिविभूषणा मानगर्वम् इयम् उर्वी ।
देवस्य कमठमूर्तेः न पृष्ठं अपि निखिलम् आप्नोति ॥११३॥


इति विभाव्याख्या-समेता इ-कार-व्रज्या ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP