आर्या सप्तशती - श-कार-व्रज्या

आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.


श्रीर् अपि भुजङ्ग-भोगे मोहन-विज्ञेन शीलिता येन ।
सो ऽपि हरिः पुरुषो यदि पुरुषा इतरेऽपि किं कुर्मः ॥५६३॥


शङ्के या स्थैर्यमयी श्लथयति बाहू मनोभवस्यापि ।
दर्प-शिलाम् इव भवतीं कतरस् तरुणो विचालयति ॥५६४॥


शार्दूल-नखर-भङ्गुर कठोरतर-जात-रूप-रचनो ऽपि ।
बालानाम् अपि बालासा यस्यास् त्वम् अपि हृदि वससि ॥५६५॥


श्रुत एव श्रुति-हारिणि रागोत्कर्षेण कण्ठम् अधिवसति ।
गीत इव त्वयि मधुरे करोति नार्थ-ग्रहं सुतनुः ॥५६६॥


श्रीः श्री-फलेन राज्यं तृण-राजेनाल्प-साम्यतो लब्धम् ।
कुचयोः सम्यक्-साम्याद् गतो घटश् चक्रवर्तित्वम् ॥५६७॥


श्रोणी भूमाव् अङ्के प्रियो भयं मनसि पति-भुजे मौलिः ।
गूढश्वासो वदने सुरतम् इदं चेत् तृणं त्रिदिवम् ॥५६८॥


श्लिष्यन्न् इव चुम्बन्न् इव पश्यन्न् इव चोल्लिखन्न् इवातृप्तः ।
दधद् इव हृदयस्यान्तः स्मरामि तस्या मुहुर् जघनम् ॥५६९॥


शिरसि चरण-प्रहारं प्रदाय निःसार्यतां स ते तद् अपि ।
चक्राङ्कितो भुजङ्गः कालिय इव सुमुखि कालिन्द्याः ॥५७०॥


शोच्यैव सा कृशाङ्गी भूतिमयी भवतु गुणमयी वापि ।
स्नेहैक-वश्य भवता त्यक्ता दीपेन वर्तिर् इव ॥५७१॥


शुक इव दारु-शलाका-पिञ्जरम् अनुदिवस-वर्धमानो मे ।
कृन्तति दयिता-हृदयं शोकः स्मर-विशिख-तीक्ष्ण-मुखः ॥५७२॥


श्रुत्वाकस्मिक-मरणं शुक-सूनोः सकल-कौतुकैक-निधेः ।
ज्ञातो गृहिणी-विनय-व्यय आगत्यैव पथिकेन ॥५७३॥


शीलित-भुजङ्ग-भोगा क्रोडेनाभुद्धृतापि कृष्णेन ।
अचलैव कीर्त्यते भूः किम् अशक्यं नाम वसुमत्याः ॥५७४॥


श्यामा विल्चन-हरी बालेयं मनसि हन्त सज्जन्ती ।
लुम्पति पूर्व-कलत्रं धूम-लता भित्ति-चित्रम् इव ॥५७५॥


शतशो गतिर् आवृत्तिः शतशः कण्ठावलम्बनं शतशः ।
शतशो यामीति वचः स्मरामि तस्याः प्रवास-दिने ॥५७६॥


श्रुत-पर-पुष्ट-रवाभिः पृष्टो गोपीभिर् अभिमतं कृष्णः ।
शंसति वंश-स्तनितैः स्तन-विनिहित-लोचनो ऽनुमतम् ॥५७७॥


शङ्कर-शिरसि निवेशित-पदेति मा गर्वम् उद्वहेन्दु-कले ।
फलम् एतस्य भविष्यति तव चण्डी-चरण-रेणुमृजा ॥५७८॥


शाखि-शिखरे समीरण-दोलायित-नीड-निर्वृतं वसति ।
कर्मैक-शराणम् अगणित-भयम् अशिथिल-केलि खग-मिथुनम् ॥५७९॥


शुक सुरत-समर-नारद हृदय-रहस्यैक-सार सर्वज्ञ ।
गुरु-जन-समक्ष-मूक प्रसीद जम्बू-फलं दलय ॥५८०॥


शिरसा वहसि कपर्दं रुद्र रुदित्वापि रजतम् अर्जयसि ।
अस्याप्य् उदरस्यार्धं भजतस् तव वेत्ति कस् तत्त्वम् ॥५८१॥


श्रोतव्यैव सुधेव श्वेतांशु-कलेव दूर-दृश्यैव ।
दुष्ट-भुजङ्ग-परीते त्वं केतकि न खलु नः स्पृश्या ॥५८२॥


श्रवणोपनीत-गुणया समर्पयन्त्या प्रणम्य कुसुमानि ।
मदन-धनुर्-लतयेव त्वया वशं दूति नीतो ऽस्मि ॥५८३॥


शाखोटक-शाखोटज-वैखानस-करट-पूज्य रट सुचिरम् ।
नादर-पदम् इह गणकाः प्रमाण-पुरुषो भवान् एकः ॥५८४॥


शशि-रेखोपम-कान्तेस् तवान्य-पाणि-ग्रहं प्रयातायाः ।
मदनासि-पुत्रिकाया इवाङ्ग-शोभां कदर्थयति ॥५८५॥


शैथिल्येन भृता अपि भर्तुः कार्यं त्यजन्ति न सुवृत्ताः ।
बलिनाकृष्टे बाहौ वलयाः कूजन्ति धावन्ति ॥५८६॥


इति विभाव्याख्या-समेता श-कार-व्रज्या ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP