आर्या सप्तशती - ल-कार-व्रज्या

आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.


लग्नासि कृष्ण-वर्त्मनि सुस्निग्धे वर्ति हन्त दग्धासि ।
अयम् अखिल-नयन-सुभगो नु भुक्त-मुक्तां पुनः स्पृशति ॥५०४॥


लक्ष्मीः शिक्षयति गुणान् अमून् पुनर् दुर्गतिर् विधूनयति ।
पूर्णो भवति सुवृत्तस् तुषार-रुचिर् अपचये वक्रः ॥५०५॥


लूना-तन्तु-निरुद्ध-द्वारः शून्यालयः पतत्-पतगः ।
पथिके तस्मिन्न् अञ्चल-पिहित-मुखो रोदितीव सखि ॥५०६॥


लग्नं जघने तस्याः सुविशाले कलित-करि-कर-क्रीडे ।
वप्रे सक्तं द्विपम् इव शृङ्गारस् त्वां विभूषयति ॥५०७॥


लिप्तं न मुखं नाङ्गं न पक्षती न चरणाः परागेण ।
अस्पृशतेव नलिन्या विदग्ध-मधुपेन मधु पीतम् ॥५०८॥


लग्नं जघने तस्याः शुष्यति नख-लक्ष्म मानसं च मम ।
भुक्तम् अविशदम् अवेदनम् इदम् अधिक-सराग-साबाधम् ॥५०९॥


लज्जयितुम् अखिल-गोपी-निपीत-मनसं मधुद्विषं राधा ।
अज्ञेव पृच्छति कथां शम्भोर् दयितार्ध-तुष्टस्य ॥५१०॥


लक्ष्मी-निःश्वासानल-पिण्डी-कृत-दुग्ध-जलधि-सार-भुजः ।
क्षीर-निधि-तीर-सुदृशो यशांसि गायन्ति राधायाः ॥५११॥


लीलागारस्य बहिः सखीषु चरणातिथौ मयि प्रियया ।
प्रकटीकृतः प्रसादो दत्त्वा वातायने व्यजनम् ॥५१२॥


इति विभाव्याख्या-समेता ल-कार-व्रज्या ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP