संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|आर्या-सप्तशती| आ-कार-व्रज्या आर्या-सप्तशती ग्रन्थारम्भ-व्रज्या अ-कार-व्रज्या आ-कार-व्रज्या इ-कार-व्रज्या ई-कार-व्रज्या उ-कार-व्रज्या ऊ-कार-व्रज्या ऋ-कार-व्रज्या ए-कार-व्रज्या क-कार-व्रज्या ख-कार-व्रज्या ग-कार-व्रज्या घ-कार-व्रज्या च-कार-व्रज्या ज-कार-व्रज्या झ-कार-व्रज्या ढ-कार-व्रज्या त-कार-व्रज्या द-कार-व्रज्या ध-कार-व्रज्या न-कार-व्रज्या प-कार-व्रज्या ब-कार-व्रज्या भ-कार-व्रज्या म-कार-व्रज्या य-कार-व्रज्या र-कार-व्रज्या ल-कार-व्रज्या व-कार-व्रज्या श-कार-व्रज्या ष-कार-व्रज्या स-कार-व्रज्या ह-कार-व्रज्या क्ष-कार-व्रज्या आर्या सप्तशती - आ-कार-व्रज्या आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे. Tags : arya saptashatigovardhanacharyaआर्या सप्तशतीगोवर्धनाचार्यसंस्कृत आ-कार-व्रज्या Translation - भाषांतर आन्तरम् अपि बहिरि व हि व्यञ्जयितुं रसम् अशेषतः सततम् ।असती सत्-कवि-सूक्तिः काच-घटीति त्रयं वेद ॥७४॥आलोक एव विमुखी क्वचिद् अपि दिवसे न दक्षिणा भवसि ।छायेव तद् अपि तापं त्वम् एव मे हरसि मानवति ॥७५॥आज्ञा काकुर् याच्ञा-क्षेपो हसितं च शुष्क-रुदितं च ।इति निधुवन-पाण्डित्यं ध्यायंस् तस्या न तृप्यामि ॥७६॥आज्ञापयिष्यसि पदं दास्यसि दयितस्य शिरसि किं त्वरसे ।असमय-मानिनि मुग्धे मा कुरु भग्नाङ्कुरं प्रेम ॥७७॥आसाद्य भङ्गम् अनया द्यूते विहिताभिरुचित-केलि-पणे ।निःसारयताक्षानिति कपट-रुषोत्सारिताः सख्यः ॥७८॥आदरणीय-गुणा सखि महता निहितासि तेन शिरसि त्वम् ।तव लाघव-दोषो ऽयं सौध-पताकेव यच् चलसि ॥७९॥आर्द्रम् अपि स्तन-जघनान् निरस्य सुतनु त्वयैतद् उन्मुक्तम् ।ख-स्थम् अवाप्तुम् इव त्वां तपनांशून् अंशुकं पिबति ॥८०॥आरोपिता शिलायाम् अश्मेव त्वं भवेति मन्त्रेण ।मग्नापि परिणयापदि जार-मुखं वीक्ष्य हसितैव ॥८१॥आयाति याति खेदं करोति मधु हरति मधुकरीवान्या ।अधिदेवता त्वम् एव श्रीर् इव कमलस्य मम मनसः ॥८२॥आसाद्य दक्षिणां दिशम् अविलम्बं त्यजति चोत्तरां तरणिः ।पुरुषं हरन्ति कान्ताः प्रायेण हि दक्षिणा एव ॥८३॥आदान-पान-लेपैः काश्चिद् गरलोपताप-हारिण्यः ।सदसि स्थितैव सिद्धौषधि-वल्ली कापि जीवयति ॥८४॥आन्दोल-लोल-केशीं चल-काञ्ची-किङ्किणी-गण-क्वणिताम् ।स्मरसि पुरुषायितां तां स्मर-चामर-चिह्न-यष्टिम् इव ॥८५॥आक्षिपसि कर्णम् अक्ष्णा बलिर् अपि बद्धस् त्वया त्रिधा मध्ये ।इति जित-सकल-वदान्ये तनु-दाने लज्जसे सुतनु ॥८६॥आक्षेप-चरण-लङ्घन-केश-ग्रह-केलि-कुतुक-तरलेन ।स्त्रीणां पतिर् अपि गुरुर् इति धर्मं न श्राविता सुतनुः ॥८७॥आगच्छतानवेक्षित-पृष्ठेनार्थी वराटकेनेव ।मुषितास्मि तेन जघनां-शुकम् अपि वोढुं नशक्तेन ॥८८॥आकुञ्चितैक-जङ्घं दरावृतोर्ध्वोरु गोपितार्धोरु ।सुतनोः श्वसित-क्रमन-मद्-उदर-स्फुट-नाभि शयनम् इदम् ॥८९॥आदाय धनम् अनल्पं ददानया सुभग तावकं वासः ।मुग्धा रजक-गृहिण्या कृता दिनैः कतिपयैर् निःस्वा ॥९०॥आस्तां वरम् अवकेशी मा दोह-दमस्य रचय पूग-तरोः ।एतस्मात् फलिताद् अपि केवलम् उद्वेगम् अधिगच्छ ॥९१॥आरब्धम् अब्धि-मथनं स्वहस्तयित्वा द्वि-जिह्वम् अमरैर् यत् ।उचितस् तत्-परिणामो विषमं विषम् एव यज् जातम् ॥९२॥आवर्जितालकालि श्वासोत्कम्प-स्तनार्पितैक-भुजम् ।शयनं रति-विवश-तनोः स्मरामि शिथिलांशुकं तस्याः ॥९३॥आम्राङ्कुरो ऽयम् अरुण-श्यामल-रुचिर् अस्थि-निर्गतः सुतनु ।नव-कमठ-कर्पर-पुटान् मूर्धेवोर्ध्वं गतः स्फुरति ॥९४॥आभङ्गुराग्र-बहु-गुण-दीर्घास्वाद-प्रदा प्रिया-दृष्टिः ।कर्षति मनो मदीयं ह्रद-मीनं बडिश-रज्जुर् इव ॥९५॥आलप यथा यथेच्छसि युक्तं तव कितव किम् अपवारयसि ।स्त्री-जाति-लाञ्छनम् असौ जीवित-रङ्का सखी सुभग ॥९६॥आस्वादितो ऽसि मोहाद् बत विदिता वदन-माधुरी भवतः ।मधु-लिप्त-क्षुर रसनाच् छेदाय परं विजानासि ॥९७॥आकृष्टि-भग्न-कटकं केन तव प्रकृति-कोमलं सुभगे ।धन्येन भुज-मृणालं ग्राह्यं मदनस्य राज्यम् इव ॥९८॥आरुह्य दूरम् अगणित-रौद्र-क्लेशा प्रकाशयन्ती स्वम् ।वात-प्रतीच्छन-पटी वहित्रम् इव हरसि मां सुतनु ॥९९॥आयासः पर-हिंसा वैतंसिक-सारमेय तव सारः ।त्वाम् अपसार्य विभाज्यः कुरङ्ग एषो ऽधुनैवान्यैः ॥१००॥आनयति पथिक-तरुणं हरिण इह प्रापयन्न् इवात्मानम् ।उपकलम् अगो ऽपि कोमल-कलम् आवलिक-वलनोत्तरलः ॥१०१॥आसीद् एव यद् आर्द्रः किम् अपि तदा किम् अयम् आहतो ऽप्य् आह ।निष्ठुर-भावाद् अधुना कटूनि सखि रटति पटह इव ॥१०२॥आज्ञा-करश् च ताडन-परिभव-सहनश् च सत्यम् अहम् अस्याः ।न तु शील-शीतलेयं प्रियेतरद् वक्तुम् अपि वेद ॥१०३॥आधाय दुग्ध-कलशे मन्थानं श्रान्त-दोर्-लता गोपी ।अप्राप्त-पारिजाता दैवे दोषं निवेशयति ॥१०४॥आस्तां मानः कथनं सखीषु वा मयि निवेद्य-दुर्विनये ।शिथिलित-रति-गुण-गर्वा ममापि सा लज्जिता सुतनुः ॥१०५॥आवर्तैर् आतर्पण-शोभां डिण्डीर-पाण्डुरैर् दधती ।गायति मुखरित-सलिला प्रिय-सङ्गम-मङ्गलं सुरसा ॥१०६॥इति विभाव्याख्या-समेता आ-कार-व्रज्या ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP