संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|आर्या-सप्तशती| स-कार-व्रज्या आर्या-सप्तशती ग्रन्थारम्भ-व्रज्या अ-कार-व्रज्या आ-कार-व्रज्या इ-कार-व्रज्या ई-कार-व्रज्या उ-कार-व्रज्या ऊ-कार-व्रज्या ऋ-कार-व्रज्या ए-कार-व्रज्या क-कार-व्रज्या ख-कार-व्रज्या ग-कार-व्रज्या घ-कार-व्रज्या च-कार-व्रज्या ज-कार-व्रज्या झ-कार-व्रज्या ढ-कार-व्रज्या त-कार-व्रज्या द-कार-व्रज्या ध-कार-व्रज्या न-कार-व्रज्या प-कार-व्रज्या ब-कार-व्रज्या भ-कार-व्रज्या म-कार-व्रज्या य-कार-व्रज्या र-कार-व्रज्या ल-कार-व्रज्या व-कार-व्रज्या श-कार-व्रज्या ष-कार-व्रज्या स-कार-व्रज्या ह-कार-व्रज्या क्ष-कार-व्रज्या आर्या सप्तशती - स-कार-व्रज्या आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे. Tags : arya saptashatigovardhanacharyaआर्या सप्तशतीगोवर्धनाचार्यसंस्कृत स-कार-व्रज्या Translation - भाषांतर सा दिवस-योग्य-कृत्य-व्यपदेशा केवलं गृहिणी ।द्वितिथेर् दिवसस्य परा तिथिर् इव सेव्या निशि त्वम् असि ॥५८८॥स्तन-नूतन-नख-लेखालम्बी तव घर्म-बिन्दु-सन्दोहः ।आभाति पट्ट-सूत्रे प्रविशन्न् इव मौक्तिक-प्रसरः ॥५८९॥सौभाग्य-गर्वम् एका करोतु यूथस्य भूषणं करिणी ।अत्यायाम् अवतोर् या मदान्धयोर् मध्यम् अधिवसति ॥५९०॥स्व-चरण-पीडानुमित-त्वन्-मौलि-रुजा-विनीत-मात्सर्या ।अपराद्धा सुभग त्वां स्वयम् अहम् अनुनेतुम् आयाता ॥५९१॥स्नेहमयान् पीडयतः किं चक्रेणापि तैलकारस्य ।चालयति पार्थिवान् अपि यः स कुलालः परं चक्री ॥५९२॥सरले न वेद भवती बहु-भङ्गा बहु-रसा बहु-विवर्ता ।गतिर् असती-नेत्राणां प्रेम्णां स्रोतस्वतीनां च ॥५९३॥सखि मध्याह्न-द्वि-गु॑न-द्युमणि-कर-श्रेणि-पीडिता छाया ।मज्जितुम् इवाल-वाले परितस् तरु-मूलम् आश्रयति ॥५९४॥सखि शृणु मम प्रियो ऽयं गेहं येनैव वर्त्मनायातः ।तन्-नगर-ग्राम-नदीः पृच्छति समम् आगतान् अन्यान् ॥५९५॥सायं रविर् अनलम् असौ मदन-शरं स च वियोगिनी-चेतः ।इदम् अपि तमः-समूहं सो ऽपि नभो निर्भरं विशति ॥५९६॥स्मर-समर-समय-पूरित-कम्भु-निभो द्विगुण-पीन-गल-नालः ।शीर्ण-प्रासादोपरि जिगीषुर् इव कल-रवः क्वणति ॥५९७॥स्फुरद्-अधरम् अविरताश्रु ध्वनि-रोधोत्कम्प-कुचम् इदं रुदितम् ।जानूपनिहित-हस्त-न्यस्त-मुखं दक्षिण-प्रकृतेः ॥५९८॥स्वयम् उपनीतैर् अशनैः पुष्णन्ती नीड-निर्वृतं दयितम् ।सहज-प्रेम-रसज्ञा सुभगा-गर्वं बकी वहतु ॥५९९॥स्व-रसेन बध्नतां करम् आदाने कण्टकोत्करैस् तुदताम् ।पिशुनानां पनसानां कोषाभोगो ऽप्य् अविश्वास्यः ॥६००॥सौभाग्यं दाक्षिण्यान् नेत्य् उपदिष्टं हरेण तरुणीनाम् ।वामार्धम् एव देव्याः स्व-वपुः-शिल्पे निवेशयता ॥६०१॥सुभग स्व-भवन-भित्तौ भवता संमर्द्य पीडिता सुतनुः ।सा पीडयैव जीवति दधती वैद्येषु विद्वेषम् ॥६०२॥सा गुण-मयी स्वभाव-स्वच्छा सुतनुः कर-ग्रहायत्ता ।भ्रमिता बहु-मन्त्र-विदा भवता काश्मीर-मालेव ॥६०३॥स-व्रीड-स्मित-सुभगे स्पृष्टास्पृष्टेव किंचिद् अपयान्ती ।अपसरसि सुन्दरि यथा यथा तथा स्पृशसि मम हृदयम् ॥६०४॥सखि सुखयत्य् अवकाश-प्राप्तः प्रेयान् यथा तथा न गृही ।वाताद् अवारिताद् अपि भवति गवाक्षानिलः शीतः ॥६०५॥सततम् अरुणित-मुखे सखि निगिरन्ती गरलम् इव गिरां गुम्फम् ।अवगणितौषधि-मन्त्रा भुजङ्गि रक्तं विरञ्जयसि ॥६०६॥स्थल-कमल-मुग्ध-वपुषा सातङ्काङ्क-स्थितैक-चरणेन ।आश्वासयति विसिन्याः कूले विस-कण्ठिका शफरम् ॥६०७॥स-नख-पदम् अधिक-गौरं नाभी-मूलं निरंशुकं कृत्वा ।अनया सेवित पवन त्वं किं कृत-मलय-भृगुपातः ॥६०८॥सर्वाङ्गम् अर्पयन्ती लोला सुप्तं श्रमेण शय्यायाम् ।अलसम् अपि भाग्यवन्तं भजते पुरुषयितेव श्रीः ॥६०९॥सुदितं तद् एव यत्र स्मारं स्मारं वियोग-दुःखानि ।आलिङ्गति सा गाढं पुनः पुनर् यामिनी-प्रथमे ॥६१०॥सान्तर्-भयं भुजिष्या यथा यथाचरति समधिकां सेवाम् ।साशङ्क-सेर्ष्य-सभया तथा तथा गेहिनी तस्य ॥६११॥सुन्दरि दर्शयति यथा भवद्-विपक्षस्य तत्-सखी कान्तिम् ।पतति तथा मम दृष्टिस् त्वद्-एक-दासस्य सासूया ॥६१२॥स्वाधीनैर् अधर-व्रण-नखाङ्क-पत्रावलोप-दिन-शयनैः ।सुभगा सुभगेत्य् अनया सखि निखिला मुखरिता पल्ली ॥६१३॥सरित इव यस्य गेहे शुष्यन्ति विशाल-गोत्रजा नार्यः ।क्षारास्व् एव स तृप्यति जल-निधि-लहरीषु जलद इव ॥६१४॥सकल-कटकैक-मण्डनि कठिनी-भूताशये शिखर-दन्ति ।गिरिभुव इव तव मन्ये मनः शिला समभवच् चण्डि ॥६१५॥सखि दुरवगाह-गहनो विदधानो विप्रियं प्रिय-जनेऽपि ।खल इव दुर्लक्ष्यस् तव विनत-मुखस्योपरि स्थितः कोपः ॥६१६॥स्वेद-सचेल-स्नाता सप्त-पदी सप्त मण्डलीर् यान्ती ।स-मदन-दहन-विकारा मनोहरा व्रीडिता नमति ॥६१७॥सुरस-प्रवर्तमानः सङ्घाटो ऽयं समान-वृत्तानाम् ।एत्यैव भिन्न-वृत्तैर् भङ्गुरितः काव्य-सर्ग इव ॥६१८॥सर्वासाम् एव सखे पय इव सुरतं मनोहारि ।तस्या एव पुनः पुनर् आवृत्तौ दुग्धम् इव मधुरम् ॥६१९॥स्वप्नेऽपि यां न मुञ्चसि या तेऽनुग्राहिणी हृदि-स्थापि ।दुष्टां न बुद्धिम् इव तां गूढ-व्यभिचारिणीं वेत्सि ॥६२०॥सपरावृति चरन्ती वात्य् एव तृणं मनो ऽनवद्याङ्गि ।हरसि क्षिपसि तरलयसि भ्रमयसि तोलयसि पातयसि ॥६२१॥सा बहु-लक्षण-भावा स्त्री-मात्रं वेति कितव तव तुल्यम् ।कोटिर् वराटिका वा द्यूत-विधेः सर्व एव पणः ॥६२२॥सा विरह-दहन-दूना मृत्वा मृत्वापि जीवति वराकी ।शारीव कितव भवतानुकूलिता पातिताक्षेण ॥६२३॥स्पर्शाद् एव स्वेदं जनयति न च मे ददाति निद्रातुम् ।पिर्य इव जघनांशुकम् अपि न निदाघः क्षणम् अपि क्षमते ॥६२४॥सा भवतो भावनया समय-विरुद्धं मनोभवं बाला ।नूतन-लतेव सुन्दर दोहद-शक्त्या फलं वहति ॥६२५॥स्पृशति नखैर् न च विलिखति सिचयं गृह्णाति न च विमोचयति ।न च मुञ्चति न च मदयति नयति निशां सा न निद्राति ॥६२६॥स्तन-जघन-द्वयम् अस्या लङ्घित-मध्यः सखे मम कटाक्षः ।नोज्झति रोधस्वत्यास् तट-द्वयं तीर्थ-काक इव ॥६२७॥स-व्रीड-स्मित-मन्द-श्वसितं मां मा स्पृशेति शंसन्त्या ।आकोपम् एत्य वातायनं पिधाय स्थितं प्रियया ॥६२८॥स-कर-ग्रहं स-रुदितं साक्षेपं स-नख-मुष्टि स-जिगीषम् ।तस्याः सुरतं सुरतं प्राजापत्य-क्रतुर् अतो ऽन्यः ॥६२९॥सखि न खलु निमलानां विदधत्य् अभिधानम् अपि मुखे मलिनाः ।केनाश्रावि पिकानां कुहूं विहायेतरः शब्दः ॥६३०॥स्वल्पा इति राम-बलैर् ये न्यस्ता नाशये पयो-राशेः ।ते शैलाः स्थितिमन्तो हन्त लघिम्नैव बहु-मानः ॥६३१॥सा श्यामा तन्वङ्गी दहता शीतोपचार-तीव्रेण ।विरहेण पाण्डिमानं नीता तुहिनेन दूर्वैव ॥६३२॥सुनिरीक्षित-निश्चल-कर-वल्लभ-धारा-जलोक्षिता न तथा ।सोत्कम्पेन मया सखि दृष्टा सा माद्यति स्म यथा ॥६३३॥सखि मोघीकृत-मदने पतिव्रते कस् तवादरं कुरुते ।नाश्रौषीर् भगवान् अपि स काम-विद्धो हरः पूज्यः ॥६३४॥सा मयि न दास-बुद्धिर् न रतिर् नापि त्रपा न विश्वासः ।हन्त निरीक्ष्य नवोढां मन्ये वयम् अपिर्या जाताः ॥६३५॥सुचिरायाते गृहिणी निशि भुक्ता दिन-मुखे विदग्धेयम् ।धवल-नखाङ्कं निज-वपुर् अकुङ्कुमार्द्रं न दर्शयति ॥६३६॥स्तन-जघनोरु-प्रणयी गाढं लग्नो निवेशित-स्नेहः ।प्रिय काल-परिणतिर् इयं विरज्यसे यन् नखाङ्क इव ॥६३७॥सा विच्छाया निशि निशि सुतनुर् बहु-तुहिन-शीतले तल्पे ।ज्वलति त्वदीय-विरहाद् ओषधिर् इव हिमवतः पृष्ठे ॥६३८॥सा नीरसे तव हृदि प्रविशति निर्याति न लभते स्थैर्यम् ।सुन्दर सखी दिवसकर-बिम्बे तुहिनांशु-रेखेव ॥६३९॥सुकुमारत्वं कान्तिर् नितान्त-सरअत्वम् आन्तराश् च गुणाः ।किं नाम नेन्दुलेखे शश-ग्रहेणैव तव कथितम् ॥६४०॥सौरभ्य-मात्र-मनसाम् आस्तां मलय-द्रुमस्य न विशेषः ।धर्मार्थिनां तथापि स मृग्यः पूजार्थम् अश्वत्थः ॥६४१॥संवाहयति शयानं यथोपवीजयति गृहपतिं गृहिणी ।गृह-वृति-विवर-निवेशित-दृशस् तथाश्वासनं यूनः ॥६४२॥सत्यं स्वल्प-गुणेषु स्तब्धा सदृशे पुनर् भुजङ्गे सा ।अर्पित-कोटिः प्रणमति सुन्दर हर-चाप-यष्टिर् इव ॥६४३॥सर्वंसहां महीम् इव विधाय तां बाष्प-वारिभिः पूर्णाम् ।भवनान्तर-मयम् अधुना सङ्क्रान्तस् ते गुरुः प्रेमा ॥६४४॥सम्भवति न खलु रक्षा सरसानां प्रकृति-चपल-चरितानाम् ।अनुभवति हर-शिरस्य् अपि भुजङ्ग-परिशीलनं गङ्गा ॥६४५॥सुलभेषु कमल-केसर-केतक-माकन्द-कुन्द-कुसुमेषु ।वाञ्छति मनोरथान्धा मधुपी स्मर-धनुषि गुणी-भावम् ॥६४६॥सा लज्जिता सपत्नी कुपिता भीतः प्रियः सखी सुखिता ।बालायाः पीडायां निदानिते जागरे वैद्यैः ॥६४७॥सुचिरागतस्य संवाहन-च्छलेनाङ्गम् अङ्गम् आलिङ्ग्य ।पुष्यति च मान-चर्चां गृहिणी सफलयैत् चोत्कलिकाम् ॥६४८॥सा सर्वथैव रक्ता रागं गुञ्जेव न तु मुखे वहति ।वचन-पटोस् तव रागः केवलम् आस्ये शुकस्येव ॥६४९॥सायं कान्त-भुजान्तर-पतिता रति-नीत-सकल-रजनीका ।उषसि ददती प्रदीपं सखीभिर् उपहस्यते बाला ॥६५०॥सा तीक्ष्ण-मान-दहना महतः स्नेहस्य दुर्लभः पाकः ।त्वां दर्वीम् इव दूति प्रयासयन्न् अस्मि विश्वस्तः ॥६५१॥स्नेह-क्षतिर् जिगीषा समरः प्राण-व्ययावधिः करिणाम् ।न वितनुते कम् अनर्थं दन्तिनि तव यौवनोद्भटः ॥६५२॥सदनाद् अपैति दयितो हसति सखी विशति घरणिम् इव बाला ।ज्वलति सपत्नी कीरे जल्पति मुग्धे प्रसीदति ॥६५३॥सङ्कुचिताङ्गीं द्विगुणांशुकां मनो-मात्र-विस्फुरन्-मदनाम् ।दयितां भजामि मुग्धाम् इव तुहिन तव प्रसादेन ॥६५४॥सखि लग्नैव वसन्ती सदाशये महति रस-मये तस्य ।बाडव-शिखेव सिन्धोर् न मनाग् अप्य् आर्द्रतां भजसि ॥६५५॥सखि मिहिरोद्गमनादि-प्रमोदम् अपिधाय सो ऽयम् अवसाने ।बन्ध्यो ऽवधि-वासर इव तुषार-दिवसः कदर्थयति ॥६५६॥सुर-भवने तरुणाभ्यां परस्पराकृष्ट-दृष्टि-हृदयाभ्याम् ।देवार्चनार्थम् उद्यतम् अन्योन्यस्यार्पितं कुसुमम् ॥६५७॥सायं कुशेशयान्तर्-मधुपानां निर्यतां नादः ।मित्र-व्यसन-विषण्णैः कमलैर् आक्रन्द इव मुक्तः ॥६५८॥सुमहति मन्यु-निमित्ते मयैव विहितेऽपि वेपमानोरुः ।न सखीनाम् अपि रुदती ममैव वक्षः-स्थले पतिता ॥६५९॥सुभग व्यजन-विचालन-शिथिल-भुजाभूद् इयं वयस्यापि ।उद्वर्तनं न सख्याः समाप्यते किञ्चिद् अपगच्छ ॥६६०॥स-व्रीडा नख-रदनार्पणेषु कुपिता प्रगाढम् अचिरोढा ।बहु-याच्ञा-चरण-ग्रह-साध्या रोषेण जातेयम् ॥६६१॥सुगृहीत-मलिन-पक्षा लघवः पर-भेदिनः परं तीक्ष्णाः ।पुरुषा अपि विशिखा अपि गुण-च्युताः कस्य न भयाय ॥६६२॥स्व-कपोलेन प्रकटीकृतं प्रमत्तत्व-कारणं किम् अपि ।द्विरदस्य दुर्जनस्य च मदं चकारैव दानम् अपि ॥६६३॥सत्यं पतिर् अविदग्धः सा तु स्व-धियैव निधुवने निपुणा ।मार्त्तिकम् आधाय गुरुं धनुर् अधिगतम् एकलव्येन ॥६६४॥सौभाग्य-मानवान् स त्वयावधीर्यापमानम् आनीतः ।स्वं विरह-पाण्डिमानं भस्म-स्नानोपमं तनुते ॥६६५॥सखि मम करञ्ज-तैलं बहु-सन्देशं प्रहेष्यसीत्य् उदिता ।श्वशुर-गृह-गमन-मिलितं बाष्प-जलं संवृणोत्य् असती ॥६६६॥सन्दर्शयन्ति सुन्दरि कुलटानां तमसि विततम् अविकल्पे ।मौलिमणिदीप-कलिका वर्ति-निभा भोगिनो ऽध्वानम् ॥६६७॥सर्वं वनं तृणाल्या पिहितं पीताः सितांशु-रवि-ताराः ।प्रध्वंसाः पन्थानो मलिनेनोद्गम्य मेघेन ॥६६८॥सम्यग् अनिष्पन्नः सन् यो ऽर्थस् त्वरया स्वयं स्फुटीक्रियते ।स व्यङ्ग एव भवति प्रथमो विनता-तनूज इव ॥६६९॥सज्जन एव हि विद्या शोभनायै भवति दुर्जने मोघा ।न विदूर-दर्शनतया कैश्चिद् उपादीयते गृध्रः ॥६७०॥सुभगं वदति जनस् तं निज-पतिर् इति नैष रोचते मह्यम् ।पीयूषेऽपि हि भेषज-भावोपनते भवत्य् अरुचिः ॥६७१॥सौध-गवाक्ष-गतापि हि दृष्टिस् तं स्थिति-कृत-प्रयत्नम् अपि ।हिम-गिरि-शिखर-स्खलिता गङ्गेवैरावतं हरति ॥६७२॥सह-घर्म-चारिणी मम परिच्छदः सुतनु नेह सन्देहः ।न तु सुखयति तुहिन-दिन-च्छत्र-च्छायेव सज्जन्ती ॥६७३॥सकल-गुणैक-निकेतन दानव-वासेन घरणिरुहराजः ।जातो ऽसि भूतले त्वं सताम् अनादेय-फल-कुसुमः ॥६७४॥सुन्दरि ताटङ्कमयं चक्रम् इवोद्वहति तावके कर्णे ।निपतति निकाम-तीक्ष्णं कटाक्ष-बाणो ऽर्जुन-प्रणयी ॥६७५॥स्वाधीनैव फल-र्द्धिर् जनोपजीव्यत्वम् उच्छ्रय-च्छाया ।सत्-पुंसो मरु-भूरुह इव जीवन-मात्रम् आशास्यम् ॥६७६॥सन्ताप-मोह-कम्पान् सम्पादयितुं निहन्तुम् अपि जन्तून् ।सखि दुर्जनस्य भूतिः प्रसरति दूरं ज्वरस्येव ॥६७७॥सुखयिततरां न रक्षति परिचय-लेशं गणाङ्गनेव श्रीः ।कुक-कामिनीव नोज्झति वाग्-देवी जन्म-जन्मापि ॥६७८॥स्व-सदन-निकटे नलिनीम् अभिनव-जात-च्छदां निरीक्ष्यैव ।हा गृहिणीति प्रलपंश् चिरागतः सखि पतिः पतितः ॥६७९॥सचि चतुरानन-भावाद् वैमुख्यं क्वापि नैव दर्शयति ।अयम् एक-हृदय एव द्रुहिण इव प्रियतमस् तद् अपि ॥६८०॥सत्यं मधुरो नियतं वक्रो नूनं कलाधरो दयितः ।स तु वेद न द्वितीयाम् अकलङ्कः प्रतिपद्-इन्दुर् इव ॥६८१॥स्व-स्थानाद् अपि विचलति मज्जति जलधौ च नीचम् अपि भजते ।निज-पक्ष-रक्षण-मनाः सुजनो मैनाक-शैल इव ॥६८२॥संवृणु बाष्प-जलं सखि दृशम् उपरज्याञ्जनेन वलयैनाम् ।दयितः पश्यतु पल्लव-पङ्कजयोर् युगपद् एव रुचम् ॥६८३॥सा पाण्डु-दुर्बलाङ्गी नयसि त्वं यत्र याति तत्रैव ।कठिनीव कैतव-विदो हस्त-ग्रह-मात्र-साध्या ते ॥६८४॥सखि विश्व-गञ्जनीया लक्ष्मीर् इव कमल-मुखि कदर्यस्य ।त्वं प्रवयसो ऽस्य रक्षा-वीक्षण-मात्रोपयोग्यासि ॥६८५॥इति विभाव्याख्या-समेता स-कार-व्रज्या । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP