आर्या सप्तशती - ए-कार-व्रज्या

आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.


एको हरः प्रियाधर-गुण-वेदी दिविषदो ऽपरे मूढाः ।
विषम् अमृतं वा समम् इति यः पश्यन् गरलम् एव पपौ ॥१४२॥


एष्यति मा पुनर् अयम् इति गमने यद् अमङ्गलं मयाकारि ।
अधुना तद् एव कारणम् अवस्थितौ दग्ध-गेह-पतेः ॥१४३॥


एकैकशो युव-जनं विलङ्घमानाक्ष-निकरम् इव तरला ।
विश्राम्यति सुभग त्वाम् अङ्गुलिर् आसाद्य मेरुम् इव ॥१४४॥


एकः स एव जीवति स्वहृदय-शून्यो ऽपि सहृदयो राहुः ।
यः सकल-लघिम-कारणम् उदरं न बिभर्ति दुष्पूरम् ॥१४५॥


एकेन चूर्ण-कुन्तलम् अपरेण करेण चिबुकम् उन्नमयन् ।
पश्यामि बाष्प-धौत-श्रुति नगर-द्वारि तद्-वदनम् ॥१४६॥


एकं जीवन-मूलं चञ्चलम् अपि तापयन्तम् अपि सततम् ।
अन्तर् वहति वराकी सा त्वां नासेव निःश्वासम् ॥१४७॥


एकं वदति मनो मम यामि न यामीति हृदयम् अपरं मे ।
हृदय-द्वयम् उचितं तव सुन्दरि हृत-कान्त-चित्तायाः ॥१४८॥


एरण्ड-पत्त्र-शयना जनयन्ती स्वेदम् अलघु-जघन-तटा ।
धूलि-पुटीव मिलन्ती स्मर-ज्वरं हरति हलिक-वधूः ॥१४९॥


इति विभाव्याख्या-समेता ए-कार-व्रज्या ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP