संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|आर्या-सप्तशती| प-कार-व्रज्या आर्या-सप्तशती ग्रन्थारम्भ-व्रज्या अ-कार-व्रज्या आ-कार-व्रज्या इ-कार-व्रज्या ई-कार-व्रज्या उ-कार-व्रज्या ऊ-कार-व्रज्या ऋ-कार-व्रज्या ए-कार-व्रज्या क-कार-व्रज्या ख-कार-व्रज्या ग-कार-व्रज्या घ-कार-व्रज्या च-कार-व्रज्या ज-कार-व्रज्या झ-कार-व्रज्या ढ-कार-व्रज्या त-कार-व्रज्या द-कार-व्रज्या ध-कार-व्रज्या न-कार-व्रज्या प-कार-व्रज्या ब-कार-व्रज्या भ-कार-व्रज्या म-कार-व्रज्या य-कार-व्रज्या र-कार-व्रज्या ल-कार-व्रज्या व-कार-व्रज्या श-कार-व्रज्या ष-कार-व्रज्या स-कार-व्रज्या ह-कार-व्रज्या क्ष-कार-व्रज्या आर्या सप्तशती - प-कार-व्रज्या आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे. Tags : arya saptashatigovardhanacharyaआर्या सप्तशतीगोवर्धनाचार्यसंस्कृत प-कार-व्रज्या Translation - भाषांतर पथिकासक्ता किंचिन् न वेद घन-कलम् अगोपिता गोपी ।केलि-कला-हुङ्कारैः कीरावलि मोघम् अपसरसि ॥३४६॥प्रणमति पश्यति चुम्बति संश्लिष्यति पुलक-मुकुलितैर् अङ्गैः ।प्रिय-सङ्गाय स्फुरितां वियोगिनी वाम-बाहुलताम् ॥३४७॥प्रविशसि न च निर्गन्तुं जानासि व्याकुलत्वम् आतनुषे ।बालक चेतसि तस्याश् चक्र-व्यूहेऽभिमन्युर् इव ॥३४८॥पश्यानुरूपम् इन्दिन्दिरेण माकन्द-शेखरो मुखरः ।अपि च पिचु-मन्द-मुकुले मौकुलि-कुलम् आकुलं मिलति ॥३४९॥प्रतिबिम्ब-सम्भृताननम् आदर्शं सुमुख मम सखी-हस्तात् ।आदातुम् इच्छसि मुधा किं लीला-कमल-मोहेन ॥३५०॥प्राचीनाचल-मौलेर् यथा शशी गगन-मध्यम् अधिवसति ।त्वां सखि पश्यामि तथा छायाम् इव सङ्कुचन् मानाम् ॥३५१॥प्राङ्गण-कोणेऽपि निशापतिः स तापं सुधामयो हरति ।यदि मां रजनि-ज्वर इव सखि स न निरुणद्धि गेह-पतिः ॥३५२॥पति-पुलक-दून-गात्री स्वच्छायावीक्षणेऽपि या सभया ।अभिसरति सुभग सा त्वां विदलन्ती कण्टकं तमसि ॥३५३॥प्रतिभूः शुको विपक्षे दण्डः शृङ्गार-सङ्कथा गुरुषु ।पुरुषायितं पणस् तद्-बाले परिभाव्यतां दायः ॥३५४॥पर-मोहनाय मुक्तो निष्करुणे तरुणि तव कटाक्षो ऽयम् ।विशिख इव कलित-कर्णः प्रविशति हृदयं न निःसरति ॥३५५॥प्रपदालम्बित-भूमिश् चुम्बन्ती प्रीति-भीति-मधुराक्षी ।प्राचीराग्र-निवेशित-चिबुकतया न पतिता सुतनुः ॥३५६॥प्रातर् उपागत्य म्र्षा वदतः सखि नास्य विद्यते व्रीडा ।मुख-लग्नयापि यो ऽयं न लज्जते दग्ध-कालिकया ॥३५७॥पश्योत्तरस् तनूदरि फाल्गुनम् आसाद्य निर्जित-विपक्षः ।वैराटिर् इव पतङ्गः प्रत्यानयनं करोति गवाम् ॥३५८॥प्रमद-वनं तव च स्तन-शैलं मूलं गभीर-सरसां च ।जगति निदाघ-निरस्तं शैत्यं दुर्ग-त्रयं श्रयति ॥३५९॥प्रोञ्छति तवापराधं मानं मर्दयति निर्वृतिं हरति ।स्वकृतान् निहन्ति शपथाञ् जागर-दीर्घा निशा सुभग ॥३६०॥प्रिय आयाते दूराद् अभूत इव सङ्गमो ऽभवत् पूर्वः ।मान-रुदित-प्रसादाः पुनर् आसन्न-पर-सुरतादौ ॥३६१॥पूर्व-मही-धर-शिखरे तमः समासन्न-मिहिर-कर-कलितम् ।शूल-प्रोतं सरुधिरम् इदम् अन्धक-वपुर् इवाभाति ॥३६२॥परिवृत्त-नाभि लुप्त-त्रिवलि श्याम-स्तनाग्रम् अलसाक्षि ।बहु-धवल-जघन-रेखं वपुर् न पुरुषायितं सहते ॥३६३॥प्रारब्ध-निधुवनैव स्वेद-जलं कोमलाङ्गि किं वहसि ।ज्याम् अर्पयितुं नमिता कुसुमास्त्र-धनुर्-लतेव मधु ॥३६४॥पुंसां दर्शय सुन्दरि मुखेन्दुम् ईषत् त्र्पाम् अपाकृत्य ।जायाजित इति रूढा जन-श्रुतिर् मे यशो भवतु ॥३६५॥प्रसरतु शरत्-त्रियामा जगन्ति धवलयतु धाम तुहिनांशोः ।पञ्जर-चकोरिकाणां कणिकाकल्पो ऽपि न विशेषः ॥३६६॥प्रथमागत सोत्कण्ठा चिर-चलितेयं विलम्ब-दोषे तु ।वक्ष्यन्ति साङ्ग-रागाः पथि तरवस् तव समाधानम् ॥३६७॥पतितेऽंशुके स्तनार्पित-हस्तां तां निविड-जघन-पिहितोरुम् ।रद-पद-विकलित-फूत्कृति-शत-धुत-दीपां मनः स्मरति ॥३६८॥परितः स्फुरित-महौषधि-मणि-निकरे केलि-तल्प इव शैले ।काञ्ची-गुण इव पतितः स्थितैक-रत्नः फणी स्फुरति ॥३६९॥प्रावृषि शैल-श्रेणी-नितम्बम् उह्हन् दिग्-अन्तरे भ्रमसि ।चपलान्तर घन किं तव वचनीयं पवन-वश्यो ऽसि ॥३७०॥प्रति-दिवस-क्षीण-दशस् तवैष वसनाञ्चलो ऽतिकर-कृष्टः ।निज-नायकम् अतिकृपणं कथयति कुग्राम इव विरलः ॥३७१॥पथिक कथं चपलोज्ज्वलम् अम्बुद-जल-बिन्दु-निह्वहम् अविषह्यम् ।मयपुर-कनक-द्रवम् इव शिव-शर-शिखि-भावितं सहसे ॥३७२॥पथिकं श्रमेण सुप्तं दर-तरला तरुणि सुमधुर-च्छाया ।व्यालम्बमान-वेणिः सुखयसि शाखेव सारोहा ॥३७३॥प्रददाति नापरासां प्रवेशम् अपि पीन-तुङ्ग-जघनोरूः ।या लुप्त-कील-भावं याता हृदि बहिर् अदृश्यासि ॥३७४॥प्रातर् निद्राति यथा यथात्मजा लुलित-निःसहैर् अङ्गैः ।जामातरि मुदित-मनास् तथा तथा सादरा श्वश्रूः ॥३७५॥प्रणय-चलितो ऽपि सकपट-कोप-कटाक्षैर् मयाहित-स्तम्भः ।त्रास-तरलो गृहीतः सहास-रभसं प्रियः कण्ठे ॥३७६॥प्रिय-दुर्नयेन हृदय स्फुटसि यदि स्फुटनम् अपि तव श्लाघ्यम् ।तत्-केलि-समर-तल्पी-कृतस्य वसनाञ्चलस्येव ॥३७७॥पवनोपनीत-सौरभ-दूरोदक-पूर-पद्मिनी-लुब्धः ।अपरीक्षित-स्वपक्षो गन्ता हन्तापदं मधुपः ॥३७८॥प्रेम-लघू-कृत-केशव- वक्षो-भर-विपुल-पुलक-कुच-कलशा ।गोवर्धन-गिरि-गुरुतां मुग्ध-वधूर् निभृतम् उपहसति ॥३७९॥प्रिय-विरह-निःसहायाः सहज-विपक्षाभिर् अपि सपत्नीभिः ।रक्ष्यन्ते हरिणाक्ष्याः प्राणा गृह-भङ्ग-भीताभिः ॥३८०॥प्रकटयसि रागम् अधिकं लपनम् इदं वक्रिमाणम् आवहति ।प्रीणयति च प्रतिपदं दूति शुकस्येव दयितस्य ॥३८१॥प्रविशन्त्याः प्रिय-हृदयं बालायाः प्रबल-यौवत-व्याप्तम् ।नव-निशित-दर-तरङ्गित-नयन-मयेनासिना पन्थाः ॥३८२॥प्रणयापराध-रोष-प्रसाद-विश्वास-केलि-पाण्डित्यैः ।रूढ-प्रेमा ह्रियते किं बाला-कुतुक-मात्रेण ॥३८३॥पूर्वैर् एव चरितैर् जरतो ऽपि पूज्यता भवतः ।मुञ्च मदम् अस्य गन्धाद् युवभिर् गज गऊजनीयो ऽसि ॥३८४॥प्रथमं प्रवेशिता या वासागारं कथञ्चन सखीभिः ।न शृणोतीव प्रातः सा निर्गमनस्य सङ्केतम् ॥३८५॥पूजा विना प्रतिष्ठां नास्ति न मन्त्रं विना प्रतिष्ठा च ।तद्-उभय-विप्रतिपन्नः पश्यतु गीर्-वाण-पाषाणम् ॥३८६॥पूर्वाधिको गृहिण्यां बहु-मानः प्रेम-नर्म-विश्वासः ।भीर् अधिकेयं कथयति रागं बाला-विभक्तम् इव ॥३८७॥पुलिकत-कठोर-पीवर-कुच-कलशाश्लेष-वेदनाभिज्ञः ।शम्भोर् उपवीत-फणी वाञ्छति मान-ग्रहं देव्याः ॥३८८॥प्रिय आयातो दूराद् इति या प्रीतिर् बभूव गेहिन्याः ।पथिकेभ्यः पूर्वागत इति गर्वात् सापि शत-शिखरा ॥३८९॥पृष्ठं प्रयच्छ मा स्पृश दूराद् अपसर्प विहित-वैमुख्य ।त्वाम् अनुधावति तरणिस् तद् अपि गुणाकर्ष-तरलेयम् ॥३९०॥प्रियया कुङ्कुम-पिञ्जर-पाणि-द्वय-योजनाङ्कितं वासः ।प्रहितं मां याच्ञाञ्जलि-सहस्र-करणाय शिक्षयति ॥३९१॥प्राचीरान्तरितेयं प्रियस्य वदनेऽधरं समर्पयति ।प्राग्-गिरि-पिहिता रात्रिः सन्ध्या-रागं दिनस्येव ॥३९२॥पर-पति-निर्दय-कुलटाशोषित शठ नेष्यता न कोपेन ।दग्ध-ममतोपतप्ता रोदिमि तव तानवं वीक्ष्य ॥३९३॥प्राङ्गण एव कदा मां श्लिष्यन्ती मन्य्-कम्पि-कुच-कलशा ।अंस-निषण्ण-मुखी सा स्नपयति बाष्पेण मम पृष्ठम् ॥३९४॥प्रेतैः प्रशस्त-सत्त्वा साश्रु वृकैर् वीक्षिता स्खलद्-ग्रासैः ।चुम्बति मृतस्य वदनं भूत-मुखोल्केक्षितं बाला ॥३९५॥पिशुनः खलु सुजनानां खलम् एव पुरो विधाय जेतव्यः ।कृत्वा ज्वरम् आत्मीयं जिगाय बाणं रणे विष्णुः ॥३९६॥पिब मधुप बकुल-कलिकां दूरे रसनाग्र-मात्रम् आधाय ।अधर-विलेप-समाप्ये मधुनि मुधा वदनम् अर्पयसि ॥३९७॥प्रायेणैव हि मलिना मलिनानाम् आश्रयत्वम् उपयान्ति ।कालिन्दी-पुट-भेदः कालिय-पुट-भेदनं भवति ॥३९८॥पश्य प्रिय-तनु-विघटन-भयेन शशि-मौलि-देह-संलग्ना ।सुभगैक-दैवतम् उमा शिरसा भागीरथीं वहति ॥३९९॥पथिक-वधू-जन-लोचन-नीर-नदी-मातृक-प्रदेशेषु ।धन-मण्डलम् आखण्डल-धनुषा कुण्डलितम् इव विधिना ॥४००॥प्रतिवेशि-मित्र-बन्धुषु दूरात् कृच्छ्रागतो ऽपि गेहिन्या ।अतिकेलि-लम्पटया दिनम् एकम् अगोपि गेह-पतिः ॥४०१॥पर-पट इव रजकीभिर् मलिनो भुक्त्वापि निर्दयं ताभिः ।अर्थ-ग्रहणेन विना जघन्य मुक्तो ऽसि कुलटाभिः ॥४०२॥इति विभाव्याख्या-समेता प-कार-व्रज्या ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP