आर्या सप्तशती - ब-कार-व्रज्या

आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.


बहु-योषिति लाक्षारुण-शिरसि वयस्येन दयित उपहसिते ।
तत्-काल-कलित-लज्जा पिशुनयति सखीषु सौभाग्यम् ॥४०३॥


बन्धन-भाजो ऽमुष्याश् चिकुर-कलापस्य मुक्तमानस्य ।
सिन्दूरित-सीमन्त-च्छलेन हृदयं विदीर्णम् इव ॥४०४॥


बलम् अपि वसति मयीति श्रेष्ठिनि गुरु-गर्व-गद्गदं वदति ।
तज्-जायया जनानां मुखम् ईक्षितम् आवृत-स्मितया ॥४०५॥


बलवद् अनिलोपनीत-स्फुटित-नवाम्भोज-सौरभो मधुपः ।
आकृष्यते नलिन्या नासा-निक्षिप्त-बडिश-रज्जुर् इव ॥४०६॥

बाणं हरिर् इव कुरुते सुजनो बहुदोषम् अप्य् अदोषम् इव ।
यावद् दोषं जाग्रति मलिम्लुचा इव पुनः पिशुनाः ॥४०७॥


बौद्धस्येव क्षणिको यद्यपि बहु-वल्लभस्य तव भावः ।
भग्ना भग्ना भ्रूर् इव न तु तस्या विघटते मैत्री ॥४०८॥


बाष्पाकुलं प्रलपतोर् गृहिणि निवर्तस्व कान्त गच्छेति ।
यातं दम्पत्योर् दिनम् अनुगमनावधि सरस्-तीरे ॥४०९॥


बाला-विलास-बन्धान् अप्रभवन् मनसि चिन्तयन् पूर्वम् ।
संमान-वर्जितां तां गृहिणीम् एवानुशोचामि ॥४१०॥


इति विभाव्याख्या-समेता ब-कार-व्रज्या ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP