TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

उत्तरस्थान - अध्याय ४०

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय ४०
वाजी-करणम् अन्विच्छेत् सततं विषयी पुमान् ।
तुष्टिः पुष्टिर् अपत्यं च गुण-वत् तत्र संश्रितम् ॥१॥

अपत्य-संतान-करं यत् सद्यः संप्रहर्षणम् ।
वाजीवाति-बलो येन यात्य् अ-प्रतिहतो ऽङ्गनाः ॥२॥

भवत्य् अति-प्रियः स्त्रीणां येन येनोपचीयते ।
तवाजी-करणं तधि देहस्योर्जस्-करं परम् ॥३॥

४०.३ देहस्यौजस्-करं परम् धर्म्यं यशस्यम् आयुष्यं लोक-द्वय-रसायनम् ।
अनुमोदामहे ब्रह्म-चर्यम् एकान्त-निर्मलम् ॥४॥

४०.४ धन्यं यशस्यम् आयुष्यं ४०.४ लोक-द्वय-सुखावहम् ४०.४ लोक-द्वय-हितावहम् अल्प-सत्-त्वस्य तु क्लेशैर् बाध्यमानस्य रागिणः ।
शरीर-क्षय-रक्षार्थं वाजी-करणम् उच्यते ॥५॥

४०.५ अल्प-सत्-त्वस्य च क्लेशैर् ४०.५ अल्प-सत्-त्वस्य चोत्क्लेशैर् ४०.५ बाध्यमानस्य रोगिणः कल्यस्योदग्र-वयसो वाजी-करण-सेविनः ।
सर्वेष्व् ऋतुष्व् अहर् अहर् व्यवायो न निवार्यते ॥६॥

४०.६ कल्पस्योदग्र-वयसो अथ स्निग्ध-विशुद्धानां निरूहान् सानुवासनान् ।
घृत-तैल-रस-क्षीर-शर्करा-क्षौद्र-संयुतान् ॥७॥

योग-वियोजयेत् पूर्वं क्षीर-मांस-रसाशिनाम् ।
ततो वाजी-करान् योगान् शुक्रापत्य-बल-प्रदान् ॥८॥

४०.८ शुक्रापत्य-विवर्धनान् अ-च्छायः पूति-कुसुमः फलेन रहितो द्रुमः ।
यथैकश् चैक-शाखश् च निर्-अपत्यस् तथा नरः ॥९॥

स्खलद्-गमनम् अ-व्यक्त-वचनं धूलि-धूसरम् ।
अपि लालाविल-मुखं हृदयाह्लाद-कारकम् ॥१०॥

४०.१० हृदयाह्लाद-कारिणम् अपत्यं तुल्य-तां केन दर्शन-स्पर्शनादिषु ।
किं पुनर् ययशो-धर्म-मान-श्री-कुल-वर्धनम् ॥११॥

४०.११ अपत्यं तुल्य-ता केन ४०.११ किं पुनर् यो यशो-धर्म- ४०.११ -मान-श्री-कुल-वर्धनः ४०.११ -मान-श्री-कुल-वर्धनात् शुद्ध-काये यथा-शक्ति वृष्य-योगान् प्रयोजयेत् ।
शरेक्षु-कुश-काशानां विदार्या वीरणस्य च ॥१२॥

४०.१२ शुद्धे काये यथा-शक्ति मूलानि कण्टकार्याश् च जीवकर्षभकौ बलाम् ।
मेदे द्वे द्वे च काकोल्यौ शूर्पपर्ण्यौ शतावरीम् ॥१३॥

अश्वगन्धाम् अतिबलां आत्मगुप्तां पुनर्नवाम् ।
वीरां पयस्यां जीवन्तीम् ऋद्धिं रास्नां त्रिकण्टकम् ॥१४॥

मधुकं शालिपर्णीं च भागांस् त्रि-पलिकान् पृथक् ।
माषाणाम् आढकं चैतद्वि-द्रोणे साधयेअपाम् ॥१५॥

रसेनाढक-शेषेण पचेत् तेन घृताढकम् ।
दत्त्वा विदारी-धात्रीक्षु-रसानाम् आढकाढकम् ॥१६॥

घृताचतुर्-गुणं क्षीरं पेष्याणीमानि चावपेत् ।
वीरां स्वगुप्तां काकोल्यौ यष्टीं फल्गूनि पिप्पलीम् ॥१७॥

४०.१७ यष्टिकं गज-पिप्पलीम् द्राक्षां विदारीं खर्जूरं मधुकानि शतावरीम् ।
तत् सिद्ध-पूतं चूर्णस्य पृथक् प्रस्थेन योजयेत् ॥१८॥

शर्करायास् तुगायाश् च पिप्पल्याः कुडवेन च ।
मरिचस्य प्रकुञ्चेन पृथग् अर्ध-पलोन्मितैः ॥१९॥

त्वग्-एला-केसरैः श्लक्ष्णैः क्षौद्र-द्वि-कुडवेन च ।
पल-मात्रं ततः खादेत् प्रत्य्-अहं रस-दुग्ध-भुक् ॥२०॥

४०.२० क्षौद्राद्वि-कुडवेन च ४०.२० प्रत्य्-अहं मधु-दुग्ध-भुक् तेनारोहति वाजीव कुलिङ्ग इव हृष्यति ।
विदारी-पिप्पली-शालि-प्रियालेक्षुरकारजः ॥२१॥

पृथक् स्वगुप्ता-मूलाच कुडवांशं तथा मधु ।
तुलार्धं शर्करा-चूर्णात् प्रस्थार्धं नव-सर्पिषः ॥२२॥

सो ऽक्ष-मात्रम् अतः खादेत् यस्य रामा-शतं गृहे ।
सात्मगुप्ता-फलान् क्षीरे गोधूमान् साधितान् हिमान् ॥२३॥

४०.२३ यस्य कान्ता-शतं गृहे माषान् वा स-घृत-क्षौद्रान् खादन् गृष्टि-पयो-ऽनुपः ।
जागर्ति रात्रिं सकलाम् अ-खिन्नः खेदयन् स्त्रियः ॥२४॥

बस्ताण्ड-सिद्धे पयसि भावितान् अ-सकृत् तिलान् ।
यः खादेत् स-सितान् गच्छेत् स स्त्री-शतम् अ-पूर्व-वत् ॥२५॥

४०.२५ भावितान् बहु-शस् तिलान् चूर्णं विदार्या बहु-शः स्व-रसेनैव भावितम् ।
क्षौद्र-सर्पिर्-युतं लीढ्वा प्रमदा-शतम् ऋच्छति ॥२६॥

४०.२६ प्रमदा दश गच्छति कृष्णा-धात्री-फल-रजः स्व-रसेन सु-भावितम् ।
शर्करा-मधु-सर्पिर्भिर् लीढ्वा यो ऽनु पयः पिबेत् ॥२७॥

४०.२७ कृष्ण-धात्री-फल-रजः स नरो ऽशीति-वर्षो ऽपि युवेव परिहृष्यति ।
कर्षं मधुक-चूर्णस्य घृत-क्षौद्र-समन्वितम् ॥२८॥

४०.२८ घृत-क्षौद्र-समांशकम् पयो-ऽनु-पानं यो लिह्यान् नित्य-वेगः स ना भवेत् ।
कुलीरशृङ्ग्या यः कल्कम् आलोड्य पयसा पिबेत् ॥२९॥

सिता-घृत-पयो-ऽन्नाशी स नारीषु वृषायते ।
यः पयस्यां पयः-सिद्धां खादेन् मधु-घृतान्विताम् ॥३०॥

पिबेबाष्कयणं चानु क्षीरं न क्षयम् एति सः ।
स्वयङ्गुप्तेक्षुरकयोर् बीज-चूर्णं स-शर्करम् ॥३१॥

४०.३१ पिबेबाष्कयिणं चानु धारोष्णेन नरः पीत्वा पयसा रासभायते ।
उच्चटा-चूर्णम् अप्य् एवं शतावर्याश् च योजयेत् ॥३२॥

चन्द्र-शुभ्रं दधि-सरं स-सिता-षष्टिकौदनम् ।
पटे सु-मार्जितं भुक्त्वा वृद्धो ऽपि तरुणायते ॥३३॥

४०.३३च्पटे सु-भावितं भुक्त्वा श्वदंष्ट्रेक्षुर-माषात्मगुप्ता-बीज-शतावरीः ।
पिबन् क्षीरेण जीर्णो ऽपि गच्छति प्रमदा-शतम् ॥३४॥

४०.३४ पिबेत् क्षीरेण जीर्णो ऽपि यत् किञ्-चिन् मधुरं स्निग्धं बृंहणं बल-वर्धनम् ।
मनसो हर्षणं यच तत् सर्वं वृष्यम् उच्यते ॥३५॥

द्रव्यैर् एवं-विधैस् तस्मादर्पितः प्रमदां व्रजेत् ।
आत्म-वेगेन चोदीर्णः स्त्री-गुणैश् च प्रहर्षितः ॥३६॥

४०.३६ भावितः प्रमदां व्रजेत् सेव्याः सर्वेन्द्रिय-सुखा धर्म-कल्प-द्रुमाङ्कुराः ।
विषयातिशयाः पञ्च शराः कुसुम-धन्वनः ॥३७॥

४०.३७ शराः कुसुम-धन्विनः इष्टा ह्य् एकैक-शो ऽप्य् अर्था हर्ष-प्रीति-कराः परम् ।
किं पुनः स्त्री-शरीरे ये संघातेन प्रतिष्ठिताः ॥३८॥

४०.३८ किं पुनः स्त्री-शरीरेषु नामापि यस्या हृदयोत्सवाय यां पश्यतां तृप्तिर् अन्-आप्त-पूर्वा ।
सर्वेन्द्रियाकर्षण-पाश-भूता कान्तानुवृत्ति-व्रत-दीक्षिता या ॥३९॥

४०.३९ यां पश्यतस् तृप्तिर् अन्-आप्त-पूर्वा कला-विलासाङ्ग-वयो-विभूषा शुचिः स-लज्जा रहसि प्रगल्भा ।
प्रियं-वदा तुल्य-मनः-शया या सा स्त्री वृष्य-त्वाय परं नरस्य ॥४०॥

४०.४० प्रियं-वदा तुल्य-मनः-स्व-भावा आचरेच सकलां रति-चर्यां काम-सूत्र-विहिताम् अन्-अ-वद्याम् ।
देश-काल-बल-शक्त्य्-अनुरोधावैद्य-तन्त्र-समयोक्त्य्-अ-विरुद्धाम् ॥४१॥

४०.४१ काम-शास्त्र-विहिताम् अन्-अ-वद्याम् अभ्यञ्जनोद्वर्तन-सेक-गन्ध-स्रक्-चित्र-वस्त्राभरण-प्रकाराः ।
गान्धर्व-काव्यादि-कथा-प्रवीणाः सम-स्व-भावा वश-गा वयस्याः ॥४२॥

४०.४२ -स्रग्-अन्न-वस्त्राभरण-प्रकाराः ४०.४२ गन्धर्व-कन्यादि-कथा-प्रवीणाः दीर्घिका स्व-भवनान्त-निविष्टा पद्म-रेणु-मधु-मत्त-विहङ्गा ।
नील-सानु-गिरि-कूट-नितम्बे काननानि पुर-कण्ठ-गतानि ॥४३॥

४०.४३ दीर्घिकाः स्व-भवनान्त-निविष्टाः ४०.४३ पद्म-रेणु-मधु-मत्त-विहङ्गाः ४०.४३ नील-सानु-गिरि-कूट-नितम्बाः दृष्टि-सुखा विविधा तरु-जातिः श्रोत्र-सुखः कल-कोकिल-नादः ।
अङ्ग-सुखर्तु-वशेन विभूषा चित्त-सुखः सकलः परिवारः ॥४४॥

४०.४४ श्रोत्र-सुखाः कल-कोकिल-नादाः ४०.४४ अङ्ग-सुखर्तु विशेष-विभूषा ताम्बूलम् अच्छ-मदिरा कान्ता कान्ता निशा शशाङ्काङ्का ।
ययच किञ्-चिइष्टं मनसो वाजी-करं तत् तत् ॥४५॥

४०.४५ कान्ताः कान्ता निशाः शशाङ्काङ्काः ४०.४५ मनसो वाजी-करं हि तत् मधु मुखम् इव सोत्पलं प्रियायाः कल-रणना परिवादिनी प्रियेव ।
कुसुम-चय-मनो-रमा च शय्या किसलयिनी लतिकेव पुष्पिताग्रा ॥४६॥

४०.४६ कल-रणना प्रिय-वादिनी प्रियेव ४०.४६ कुसुम-चय-मनो-हरा च शय्या देशे शरीरे च न का-चिअर्तिर् अर्थेषु नाल्पो ऽपि मनो-विधानः ।
वाजी-कराः संनिहिताश् च योगाः कामस्य कामं परिपूरयन्ति ॥४७॥

४०.४७ देशे शरीरे न कदा-चिअर्तिर् ४०.४७ अर्थेषु नाल्पो ऽपि मनो-ऽभिघातः मुस्ता पर्पटकं ज्वरे तृषि जलं मृद्-भृष्ट-लोष्टोद्भवं ॥४८॥
लाजाश् छर्दिषु वस्ति-जेषु गिरिजं मेहेषु धात्री-निशे ॥४८॥
पाण्डौ श्रेष्ठम् अयो ऽभयानिल-कफे प्लीहामये पिप्पली ॥४८॥
संधाने कृमिजा विषे शुकतरुर् मेदो-ऽनिले गुग्गुलुः ॥४८॥
वृषो ऽस्र-पित्ते कुटजो ऽतिसारे भल्लातको ऽर्शःसु गरेषु हेम ।
स्थूलेषु तार्क्ष्यं कृमिषु कृमिघ्नं शोषे सुरा छाग-पयो ऽथ मांसम् ॥४९॥

४०.४९ भल्लातम् अर्शःसु गरेषु हेम अक्ष्य्-आमयेषु त्रि-फला गुडूची वातास्र-रोगे मथितं ग्रहण्याम् ।
कुष्ठेषु सेव्यः खदिरस्य सारः सर्वेषु रोगेषु शिलाह्वयं च ॥५०॥

उन्मादं घृतम् अ-नवं शोकं मद्यं व्यपस्मृतिं ब्राह्मी ।
निद्रा-नाशं क्षीरं जयति रसाला प्रतिश्यायम् ॥५१॥

४०.५१ शोकं मद्यं विसंस्मृतिं ब्राह्मी मांसं कार्श्यं लशुनः प्रभञ्जनं स्तब्ध-गात्र-तां स्वेदः ।
गुडमञ्जर्याः खपुरो नस्यात् स्कन्धांस-बाहु-रुजम् ॥५२॥

४०.५२ नस्यं स्कन्धांस-बाहु-रुजम् नव-नीत-खण्ड-मर्दितम् औष्ट्रं मूत्रं पयश् च हन्त्य् उदरम् ।
नस्यं मूर्ध-विकारान् विद्रधिम् अ-चिरोत्थितम् अस्र-विस्रावः ॥५३॥

४०.५३ औष्ट्री-मूत्रं पयश् च हन्त्य् उदरम् ४०.५३ नस्यं चोर्ध्व-विकारान् ४०.५३ नस्यं मूर्ध्नि विकारान् नस्यं कवडो मुख-जान् नस्याञ्जन-तर्पणानि नेत्र-रुजः ।
वृद्धस्य क्षीर-घृते मूर्छां शीताम्बु-मारुत-च्छायाः ॥५४॥

४०.५४ नस्यं कवडं मुख-गदान् ४०.५४ नस्यं केवलं मुख-गदान् ४०.५४ नस्यं कवडं मुख-जान् सम-शुक्तार्द्रक-मात्रा मन्दे वह्नौ श्रमे सुरा स्नानम् ।
दुःख-सह-त्वे स्थैर्ये व्यायामो गोक्षुरुर् हितः कृच्छ्रे ॥५५॥

४०.५५ सम-शुष्कार्द्रक-मात्रा ४०.५५ मन्दे वह्नौ श्रमे सुरा-पानम् ४०.५५ दुःख-सह-त्वं स्थैर्ये ४०.५५ दुःख-सह-त्वं स्थौल्ये कासे निदिग्धिका पार्श्व-शूले पुष्कर-जा जटा ।
वयसः स्थापने धात्री त्रि-फला गुग्गुलुर् व्रणे ॥५६॥

४०.५६ कासे निदिग्धिका-पानं ४०.५६ पार्श्व-शूले च पौष्करम् ४०.५६ वयः-संस्थापने धात्री वस्तिर् वात-विकारान् पैत्तान् रेकः कफोद्भवान् वमनम् ।
क्षौद्रं जयति बलासं सर्पिः पित्तं समीरणं तैलम् ॥५७॥

इत्य् अग्र्यं यत् प्रोक्तं रोगाणाम् औषधं शमायालम् ।
तदेश-काल-बलतो विकल्पनीयं यथा-योगम् ॥५८॥

इत्य् आत्रेयाआगमय्यार्थ-सूत्रं तत्-सूक्तानां पेशलानाम् अ-तृप्तः ।
भेडादीनां संमतो भक्ति-नम्रः पप्रच्छेदं संशयानो ऽग्निवेशः ॥५९॥

४०.५९ इत्य् आत्रेयाआगमाआर्थ-सूक्ष्मं ४०.५९ इत्य् आत्रेयाआगमय्यार्थ-सूक्ष्मं ४०.५९ तत्-सूक्तीनां पेशलानाम् अ-तृप्तः दृश्यन्ते भग-वन् के-चिआत्म-वन्तो ऽपि रोगिणः ।
द्रव्योपस्थातृ-संपन्ना वृद्ध-वैद्य-मतानुगाः ॥६०॥

क्षीयमाणामय-प्राणा विपरीतास् तथा ऽपरे ।
हिता-हित-विभागस्य फलं तस्माअ-निश्चितम् ॥६१॥

किं शास्ति शास्त्रम् अस्मिन् इति कल्पयतो ऽग्निवेश-मुख्यस्य ।
शिष्य-गणस्य पुनर्वसुर् आचख्यौ कार्त्स्न्यतस् तत्-त्वम् ॥६२॥

४०.६२ आचक्षे कार्त्स्न्यतस् तत्-त्वम् न चिकित्सा-चिकित्सा च तुल्या भवितुम् अर्हति ।
विनापि क्रियया स्वास्थ्यं गच्छतां षो-डशांशया ॥६३॥

आतङ्क-पङ्क-मग्नानां हस्तालम्बो भिषग्-जितम् ।
जीवितं म्रियमाणानां सर्वेषाम् एव नौषधात् ॥६४॥

४०.६४ सर्वेषाम् एव नौषधम् न ह्य् उपायम् अपेक्षन्ते सर्वे रोगा न चान्य-था ।
उपाय-साध्याः सिध्यन्ति ना-हेतुर् हेतु-मान् यतः ॥६५॥

४०.६५ नो ऽ-हेतुर् हेतु-मांस् ततः यउक्तं सर्व-संपत्ति-युक्तयापि चिकित्सया ।
मृत्युर् भवति तन् नैवं नोपाये ऽस्त्य् अन्-उपाय-ता ॥६६॥

४०.६६ नोपायेष्व् अन्-उपाय-ता अपि चोपाय-युक्तस्य धी-मतो जातु चित् क्रिया ।
न सिध्येदैव-वैगुण्यान् न त्व् इयं षो-डशात्मिका ॥६७॥

४०.६७ अप्य् एवोपाय-युक्तस्य ४०.६७ न सिद्धिर् दैव-वैगुण्यान् ४०.६७ न न्व् इयं षो-डशात्मिका कस्या-सिद्धो ऽग्नि-तोयादिः स्वेद-स्तम्भादि-कर्मणि ।
न प्रीणनं कर्षणं वा कस्य क्षीरं गवेधुकम् ॥६८॥

४०.६८ न प्रीणनं कर्शनं वा ४०.६८ कस्य क्षीर-गवेधुकम् कस्य माषात्मगुप्तादौ वृष्य-त्वे नास्ति निश्चयः ।
विण्-मूत्र-करणाक्षेपौ कस्य संशयितौ यवे ॥६९॥

४०.६९ कस्य माषात्मगुप्ताद्यैर् ४०.६९ वृष-त्वे नास्ति निश्चयः विषं कस्य जरां याति मन्त्र-तन्त्र-विवर्जितम् ।
कः प्राप्तः कल्य-तां पथ्याऋते रोहिणिकादिषु ॥७०॥

४०.७० कः प्राप्तः कल्प-तां पथ्याअपि चा-काल-मरणं सर्व-सिद्धान्त-निश्चितम् ।
महतापि प्रयत्नेन वार्यतां कथम् अन्य-था ॥७१॥

चन्दनाद्य् अपि दाहादौ रूढम् आगम-पूर्वकम् ।
शास्त्राएव गतं सिद्धिं ज्वरे लङ्घन-बृंहणम् ॥७२॥

चतुष्-पाद्-गुण-संपन्ने सम्यग् आलोच्य योजिते ।
मा कृथा व्याधि-निर्घातं विचिकित्सां चिकित्सिते ॥७३॥

४०.७३ चतुष्-पाद्-गुण-संपूर्णे ४०.७३ मा कृथा व्याधि-निर्घाते एतधि मृत्यु-पाशानाम् अ-काण्डे छेदनं दृढम् ।
रोगोत्त्रासित-भीतानां रक्षा-सूत्रम् अ-सूत्रकम् ॥७४॥

एतत् तअमृतं साक्षाज् जगद्-आयास-वर्जितम् ।
याति हालाहल-त्वं तु सद्यो दुर्-भाजन-स्थितम् ॥७५॥

४०.७५ एतवेदामृतं साक्षाज् ४०.७५ जगत्य् आयास-वर्जितम् ४०.७५ याति हालाहल-त्वं च अ-ज्ञात-शास्त्र-सद्-भावाञ् छास्त्र-मात्र-परायणान् ।
त्यजेदूराभिषक्-पाशान् पाशान् वैवस्वतान् इव ॥७६॥

४०.७६ विवर्जयेभिषक्-पाशान् भिषजां साधु-वृत्तानां भद्रम् आगम-शालिनाम् ।
अभ्यस्त-कर्मणां भद्रं भद्रं भद्राभिलाषिणाम् ॥७७॥

४०.७७ बहु-धागम-शालिनाम् ४०.७७ भद्रम् आगम-शीलिनाम् ४०.७७ अभ्यस्त-कर्मणां सिद्धिर् इति तन्त्र-गुणैर् युक्तं तन्त्र-दोषैर् विवर्जितम् ।
चिकित्सा-शास्त्रम् अ-खिलं व्याप्य यत् परितः स्थितम् ॥७८॥

४०.७८ तन्त्र-दोष-विवर्जितम् ४०.७८ व्यापठ्य परितः स्थितम् विपुला-मल-विज्ञान-महा-मुनि-मतानुगम् ।
महा-सागर-गम्भीर-संग्रहार्थोपलक्षणम् ॥७९॥

४०.७९ विपुला-मल-विज्ञानं ४०.७९ महा-सागर-गम्भीरं ४०.७९ महा-मुनि-मतानुगम् ४०.७९ संग्रहार्थोपलक्षणम् ४०.७९ संग्रहार्थोपलक्षकम् अष्टाङ्ग-वैद्यक-महोदधि-मन्थनेन यो ऽष्टाङ्ग-संग्रह-महामृत-राशिर् आप्तः ।
तस्माअन्-अल्प-फलम् अल्प-समुद्यमानां प्रीत्य्-अर्थम् एतउदितं पृथग् एव तन्त्रम् ॥८०॥

४०.८० यो ऽष्टाङ्ग-संग्रह-महामृत-सार-तुल्यः ४०.८० प्रीत्य्-अर्थम् एवम् उदितं पृथग् एव तन्त्रम् इदम् आगम-सिद्ध-त्वात् प्रत्यक्ष-फल-दर्शनात् ।
मन्त्र-वत् संप्रयोक्तव्यं न मीमांस्यं कथञ्-च-न ॥८१॥

४०.८१ इदम् आगम-शुद्ध-त्वात् ४०.८१ न मीमांस्यं कदा-च-न दीर्घ-जीवितम् आरोग्यं धर्मम् अर्थं सुखं यशः ।
पाठावबोधानुष्ठानैर् अधिगच्छत्य् अतो ध्रुवम् ॥८२॥

४०.८२ दीर्घं जीवितम् आरोग्यं एतत् पठन् संग्रह-बोध-शक्तः स्व्-अभ्यस्त-कर्मा भिषग् अ-प्रकम्प्यः ।
आकम्पयत्य् अन्य-विशाल-तन्त्र-कृताभियोगान् यदि तन् न चित्रम् ॥८३॥

४०.८३ यः कम्पयत्य् अन्य-विशाल-तन्त्र- यदि चरकम् अधीते तध्रुवं सुश्रुतादि-प्रणिगदित-गदानां नाम-मात्रे ऽपि बाह्यः ।
अथ चरक-विहीनः प्रक्रियायाम् अ-क्लिन्नः किम् इव खलु करोतु व्याधितानां वराकः ॥
८४॥

४०.८४ -प्रणिगदित-गदानां नाम-मात्रेण बाह्यः ४०.८४ -प्रतिगदित-गदानां नाम-मात्रे ऽपि बाह्यः ४०.८४ किम् इह खलु करोतु व्याधितानां वराकः अभिनिवेश-वशाअभियुज्यते सु-भणिते ऽपि न यो दृढ-मूढकः ।
पठतु यत्न-परः पुरुषायुषं स खलु वैद्यकम् आद्यम् अ-निर्विदः ॥८५॥

वाते पित्ते श्लेष्म-शान्तौ च पथ्यं तैलं सर्पिर् माक्षिकं च क्रमेण ।
एतब्रह्मा भाषतां ब्रह्म-जो वा का निर्-मन्त्रे वक्तृ-भेदोक्ति-शक्तिः ॥८६॥

४०.८६ एतब्रह्मा भाषते ब्रह्म-जो वा अभिधातृ-वशात् किं वा द्रव्य-शक्तिर् विशिष्यते ।
अतो मत्सरम् उत्सृज्य माध्यस्थ्यम् अवलम्ब्यताम् ॥८७॥

४०.८७ अभिधातुर् वशात् किञ्-चिऋषि-प्रणीते प्रीतिश् चेन् मुक्त्वा चरक-सुश्रुतौ ।
भेडाद्याः किं न पठ्यन्ते तस्माग्राह्यं सु-भाषितम् ॥८८॥

हृदयम् इव हृदयम् एतत् सर्वायुर्-वेद-वाङ्-मय-पयो-धेः ।
कृत्वा यछुभम् आप्तं शुभम् अस्तु परं ततो जगतः ॥८९॥          -

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:20.6570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

वाच् (आम्भृणी)

  • n. एक वैदिक सूक्तद्रष्ट्री [ऋ. १०.१२५] । इसके द्वारा रचित ऋग्वेद का सूक्त तेजस्वी विचारों से ओतप्रोत भरा हुआ है, जहॉं इसने वाणी का सामर्थ्य निम्नलिखित शब्दों में बताया है, ‘जो ज्ञान देव एवं मानवों के लिए अप्राप्य है, वह में बता सकती हूँ, ब्राह्मण बन सकती हूँ। ऋषि बना सकती हूँ, बुद्धिमान बना सकती हूँ, मेरे पास रुद्र का धनुष सदैव सज्ज है, जिसकी सहाय्यता से मैं समस्त ब्रह्मद्वेष्टा शत्रुओं का नाश कर सकती हूँ’ [ऋ.१०.१२५.५-७] 
RANDOM WORD

Did you know?

वास्‍तुदोषावर आरसा काय करतो आरशांचा उपयोग कसा होतो
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.