संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|उत्तरस्थान| अध्याय ३६ उत्तरस्थान अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० उत्तरस्थान - अध्याय ३६ आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय ३६ Translation - भाषांतर दर्वी-करा मण्डलिनो राजी-मन्तश् च पन्नगाः ।त्रि-धा समासतो भौमा भिद्यन्ते ते त्व् अनेक-धा ॥१॥व्यासतो योनि-भेदेन नोच्यन्ते ऽन्-उपयोगिनः ।विशेषारूक्ष-कटुकम् अम्लोष्णं स्वादु-शीतलम् ॥२॥३६.२ नोच्यन्ते ऽन्-उपयोगतः विषं दर्वी-करादीनां क्रमावातादि-कोपनम् ।तारुण्य-मध्य-वृद्ध-त्वे वृष्टि-शीतातपेषु च ॥३॥विषोल्बणा भवन्त्य् एते व्यन्तरा ऋतु-संधिषु ।रथाङ्ग-लाङ्गल-च्छत्त्र-स्वस्तिकाङ्कुश-धारिणः ॥४॥फणिनः शीघ्र-गतयः सर्पा दर्वी-कराः स्मृताः ।ज्ञेया मण्डलिनो ऽ-भोगा मण्डलैर् विविधैश् चिताः ॥५॥३६.५ सर्पा दर्वी-करा मताः प्रांशवो मन्द-गमना राजी-मन्तस् तु राजिभिः ।स्निग्धा विचित्र-वर्णाभिस् तिर्यग् ऊर्ध्वं च चित्रिताः ॥६॥३६.६ राजी-मन्तश् च राजिभिः ३६.६ स्निग्धाभिर् बहु-वर्णाभिस् गोधा-सुतस् तु गौधेरो विषे दर्वी-करैः समः ।चतुष्-पाव्यन्तरान् विद्याएतेषाम् एव संकरात् ॥७॥३६.७ गोधा-सुतस् तु गौधेयो व्यामिश्र-लक्षणास् ते हि संनिपात-प्रकोपणाः ।आहारार्थं भयात् पाद-स्पर्शाअति-विषात् क्रुधः ॥८॥पाप-वृत्ति-तया वैरादेवर्षि-यम-चोदनात् ।दशन्ति सर्पास् तेषूक्तं विषाधिक्यं यथोत्तरम् ॥९॥३६.९ पाप-वृत्त-तया वैरा३६.९ देवर्षि-यम-नोदनात् आदिष्टात् कारणं ज्ञात्वा प्रतिकुर्यायथा-यथम् ।व्यन्तरः पाप-शील-त्वान् मार्गम् आश्रित्य तिष्ठति ॥१०॥३६.१० आविष्टात् कारणं ज्ञात्वा ३६.१० मार्गम् आवृत्य तिष्ठति यत्र लाला-परिक्लेद-मात्रं गात्रे प्रदृश्यते ।न तु दंष्ट्रा-कृतं दंशं तत् तुण्डाहतम् आदिशेत् ॥११॥३६.११ -मात्रं गात्रेषु दृश्यते ३६.११ न तु दंष्ट्रा-क्षतं दंशं ३६.११ न तु दंष्ट्रा-क्षतं दंशे ३६.११ तं तुण्डाहतं आदिशेत् एकं दंष्ट्रा-पदं द्वे वा व्यालीढाख्यम् अ-शोणितम् ।दंष्ट्रा-पदे स-रक्ते द्वे व्यालुप्तं त्रीणि तानि तु ॥१२॥३६.१२ व्यालुप्तं त्रीणि तानि च मांस-च्छेदाअ-विच्छिन्न-रक्त-वाहीनि दष्टकम् ।दंष्ट्रा-पदानि चत्वारि तद्-वदष्ट-निपीडितम् ॥१३॥निर्-विषं द्वयम् अत्राद्यम् अ-साध्यं पश्चिमं वदेत् ।विषं नाहेयम् अ-प्राप्य रक्तं दूषयते वपुः ॥१४॥रक्तम् अण्व् अपि तु प्राप्तं वर्धते तैलम् अम्बु-वत् ।भीरोस् तु सर्प-संस्पर्शाभयेन कुपितो ऽनिलः ॥१५॥३६.१५ रक्तम् अण्व् अपि तत् प्राप्तं ३६.१५ वर्धते तैल-बिन्दु-वत् कदा-चित् कुरुते शोफं सर्पाङ्गाभिहतं तु तत् ।दुर्-गान्ध-कारे विद्धस्य केन-चिदष्ट-शङ्कया ॥१६॥३६.१६ दुर्-गे ऽन्धकारे विद्धस्य विषोद्वेगो ज्वरश् छर्दिर् मूर्छा दाहो ऽपि वा भवेत् ।ग्लानिर् मोहो ऽतिसारो वा तछङ्का-विषम् उच्यते ॥१७॥३६.१७ विष-वेगाज् ज्वरश् छर्दिर् ३६.१७ विषोद्रेको ज्वरश् छर्दिर् ३६.१७ विषोद्वेगाज् ज्वरश् छर्दिर् तुद्यते स-विषो दंशः कण्डू-शोफ-रुजान्वितः ।दह्यते ग्रथितः किञ्-चिविपरीतस् तु निर्-विषः ॥१८॥३६.१८ तुद्यते विष-जो दंशः पूर्वे दर्वी-कृतां वेगे दुष्टं श्यावी-भवत्य् असृक् ।श्याव-ता तेन वक्त्रादौ सर्पन्तीव च कीटकाः ॥१९॥३६.१९ दुष्टं श्यावं भवत्य् असृक् ३६.१९ श्याव-ता नेत्र-वक्त्रादौ द्वितीये ग्रन्थयो वेगे तृतीये मूर्ध्नि गौरवम् ।दृग्-रोधो दंश-विक्लेदश् चतुर्थे ष्ठीवनं वमिः ॥२०॥३६.२० तृतीये मूर्ध-गौरवम् ३६.२० दृग्-बाधा दंश-विक्लेदश् ३६.२० चतुर्थे ष्ठेवनं वमिः संधि-विश्लेषणं तन्द्रा पञ्चमे पर्व-भेदनम् ।दाहो हिध्मा च षष्ठे तु हृत्-पीडा गात्र-गौरवम् ॥२१॥३६.२१ दाहो हिध्मा च षष्ठे च मूर्छा-विपाको ऽतीसारः प्राप्य शुक्रं तु सप्तमे ।स्कन्ध-पृष्ठ-कटी-भङ्गः सर्व-चेष्टा-निवर्तनम् ॥२२॥३६.२२ प्राप्य शुक्रं च सप्तमे अथ मण्डलि-दष्टस्य दुष्टं पीती-भवत्य् असृक् ।तेन पीताङ्ग-ता दाहो द्वितीये श्वयथूद्भवः ॥२३॥३६.२३ दुष्टं पीतं भवत्य् असृक् तृतीये दंश-विक्लेदः स्वेदस् तृष्णा च जायते ।चतुर्थे ज्वर्यते दाहः पञ्चमे सर्व-गात्र-गः ॥२४॥३६.२४ स्वेदस् तृष्णा प्रजायते दष्टस्य राजिलैर् दुष्टं पाण्डु-तां याति शोणितम् ।पाण्डु-ता तेन गात्राणां द्वितीये गुरु-ताति च ॥२५॥तृतीये दंश-विक्लेदो नासिकाक्षि-मुख-स्रवाः ।चतुर्थे गरिमा मूर्ध्नो मन्या-स्तम्भश् च पञ्चमे ॥२६॥गात्र-भङ्गो ज्वरः शीतः शेषयोः पूर्व-ववदेत् ।कुर्यात् पञ्चसु वेगेषु चिकित्सां न ततः परम् ॥२७॥३६.२७ शेषयोः पूर्व-वभवेत् जलाप्लुता रति-क्षीणा भीता नकुल-निर्जिताः ।शीत-वातातप-व्याधि-क्षुत्-तृष्णा-श्रम-पीडिताः ॥२८॥तूर्णं देशान्तरायाता विमुक्त-विष-कञ्चुकाः ।कुशौषधि-कण्टक-वये चरन्ति च काननम् ॥२९॥देशं च दिव्याध्युषितं सर्पास् ते ऽल्प-विषा मताः ।श्मशान-चिति-चैत्यादौ पञ्चमी-पक्ष-संधिषु ॥३०॥३६.३० देशं च विद्याध्युषितं अष्टमी-नवमी-संध्या-मध्य-रात्रि-दिनेषु च ।याम्याग्नेय-मघाश्लेषा-विशाखा-पूर्व-नैरृते ॥३१॥नैरृताख्ये मुहूर्ते च दष्टं मर्मसु च त्यजेत् ।दष्ट-मात्रः सितास्याक्षः शीर्यमाण-शिरो-रुहः ॥३२॥३६.३२ दष्ट-मात्रस् तु ताम्राक्षः स्तब्ध-जिह्वो मुहुर् मूर्छन् शीतोच्छ्वासो न जीवति ।हिध्मा श्वासो वमिः कासो दष्ट-मात्रस्य देहिनः ॥३३॥३६.३३ शीतोच्छ्वासी न जीवति जायन्ते युग-पयस्य स हृच्-छूली न जीवति ।फेनं वमति निः-संज्ञः श्याव-पाद-कराननः ॥३४॥नासावसादो भङ्गो ऽङ्गे विड्-भेदः श्लथ-संधि-ता ।विष-पीतस्य दष्टस्य दिग्धेनाभिहतस्य च ॥३५॥३६.३५ नासावसादो रुक् वाङ्गे भवन्त्य् एतानि रूपाणि संप्राप्ते जीवित-क्षये ।न नस्यैश् चेतना तीक्ष्णैर् न क्षतात् क्षत-जागमः ॥३६॥३६.३६ प्राप्ते जीवित-संक्षये दण्डाहतस्य नो राजी प्रयातस्य यमान्तिकम् ।अतो ऽन्य-था तु त्वरया प्रदीप्तागार-वभिषक् ॥३७॥३६.३७ प्रयाति स यमान्तिकम् रक्षन् कण्ठ-गतान् प्राणान् विषम् आशु शमं नयेत् ।मात्रा-शतं विषं स्थित्वा दंशे दष्टस्य देहिनः ॥३८॥देहं प्रक्रमते धातून् रुधिरादीन् प्रदूषयन् ।एतस्मिन्न् अन्तरे कर्म दंशस्योत्कर्तनादिकम् ॥३९॥३६.३९ रुधिरादीन् प्रदूषयेत् कुर्यछीघ्रं यथा देहे विष-वल्ली न रोहति ।दष्ट-मात्रो दशेआशु तम् एव पवनाशिनम् ॥४०॥३६.४० तम् एव पवनाशनम् लोष्टं महीं वा दशनैश् छित्त्वा चानु स-संभ्रमम् ।निष्ठीवेन समालिम्पेदंशं कर्ण-मलेन वा ॥४१॥३६.४१ छित्त्वा चाशु स-संभ्रमम् दंशस्योपरि बध्नीयाअरिष्टां चतुर्-अङ्गुले ।क्षौमादिभिर् वेणिकया सिद्धैर् मन्त्रैश् च मन्त्र-वित् ॥४२॥अम्बु-वत् सेतु-बन्धेन बन्धेन स्तभ्यते विषम् ।न वहन्ति सिराश् चास्य विषं बन्धाभिपीडिताः ॥४३॥३६.४३ न वहन्ति सिरास् तस्य ३६.४३ विषं बन्धन-पीडिताः निष्पीड्यानूद्धरेदंशं मर्म-संध्य्-अ-गतं तथा ।न जायते विषावेगो बीज-नाशाइवाङ्कुरः ॥४४॥३६.४४ निष्पीड्य चोद्धरेदंशं ३६.४४ न जायते विषावेगो दंशं मण्डलिनां मुक्त्वा पित्तल-त्वाअथापरम् ।प्रतप्तैर् हेम-लोहाद्यैर् दहेआशूल्मुकेन वा ॥४५॥करोति भस्म-सात् सद्यो वह्निः किं नाम तु क्षतम् ।आचूषेत् पूर्ण-वक्त्रो वा मृद्-भस्मा-गद-गो-मयैः ॥४६॥३६.४६ वह्निः किं नाम न क्षणात् ३६.४६ वह्निः किं नाम न क्षणम् प्रच्छायान्तर् अरिष्टायां मांसलं तु विशेषतः ।अङ्गं सहैव दंशेन लेपयेअ-गदैर् मुहुः ॥४७॥चन्दनोशीर-युक्तेन सलिलेन च सेचयेत् ।विषे प्रविसृते विध्येत् सिरां सा परमा क्रिया ॥४८॥रक्ते निर्ह्रियमाणे हि कृत्स्नं निर्ह्रियते विषम् ।दुर्-गन्धं स-विषं रक्तम् अग्नौ चटचटायते ॥४९॥३६.४९ दुर्-गन्धि स-विषं रक्तम् यथा-दोषं विशुद्धं च पूर्व-वल् लक्षयेअसृक् ।सिरास्व् अ-दृश्यमानासु योज्याः शृङ्ग-जलौकसः ॥५०॥शोणितं स्रुत-शेषं च प्रविलीनं विषोष्मणा ।लेप-सेकैः सु-बहु-शः स्तम्भयेभृश-शीतलैः ॥५१॥अ-स्कन्ने विष-वेगाधि मूर्छाय-मद-हृद्-द्रवाः ।भवन्ति तान् जयेछीतैर् वीजेचा-रोम-हर्षतः ॥५२॥३६.५२ वीजयेरोम-हर्षतः स्कन्ने तु रुधिरे सद्यो विष-वेगः प्रशाम्यति ।विषं कर्षति तीक्ष्ण-त्वाधृदयं तस्य गुप्तये ॥५३॥पिबेघृतं घृत-क्षौद्रम् अ-गदं वा घृताप्लुतम् ।हृदयावरणे चास्य श्लेष्मा हृद्य् उपचीयते ॥५४॥३६.५४ हृदयावरणेनास्य प्रवृत्त-गौरवोत्क्लेश-हृल्-लासं वामयेत् ततः ।द्रवैः काञ्जिक-कौलत्थ-तैल-मद्यादि-वर्जितैः ॥५५॥वमनैर् विष-हृद्भिश् च नैवं व्याप्नोति तवपुः ।भुजङ्ग-दोष-प्रकृति-स्थान-वेग-विशेषतः ॥५६॥सु-सूक्ष्मं सम्यग् आलोच्य विशिष्टां चाचरेत् क्रियाम् ।सिन्धुवारित-मूलानि श्वेता च गिरिकर्णिका ॥५७॥३६.५७ विशिष्टां वाचरेत् क्रियाम् पानं दर्वी-करैर् दष्टे नस्यं मधु स-पाकलम् ।कृष्ण-सर्पेण दष्टस्य लिम्पेदंशं हृते ऽसृजि ॥५८॥३६.५८ नस्यं स-मधु पाकलम् ३६.५८ नस्यं स-मधु वालकम् ३६.५८ नस्यं मधु स-वालकम् चारटी-नाकुलीभ्यां वा तीक्ष्ण-मूल-विषेण वा ।पानं च क्षौद्र-मञ्जिष्ठा-गृह-धूम-युतं घृतम् ॥५९॥३६.५९ पाने च क्षौद्र-मञ्जिष्ठा- तण्डुलीयक-काश्मर्य-किणिही-गिरिकर्णिकाः ।मातुलुङ्गी सिता शेलुः पान-नस्याञ्जनैर् हितः ॥६०॥३६.६० मातुलुङ्गैः शिफा शेलुः अ-गदः फणिनां घोरे विषे राजी-मताम् अपि ।समाः सुगन्धा-मृद्वीका-श्वेताख्या-गजदन्तिकाः ॥६१॥३६.६१ समाः सुगन्धा मृद्वीका ३६.६१ श्वेताख्या गजमृत्तिका ३६.६१ श्वेताख्या गजवृत्तिका अर्धांशं सौरसं पत्त्रं कपित्थं बिल्व-दाडिमम् ।स-क्षौद्रो मण्डलि-विषे विशेषाअ-गदो हितः ॥६२॥पञ्च-वल्क-वरा-यष्टी-नागपुष्पैलवालुकम् ।जीवकर्षभकौ शीतं सिता पद्मकम् उत्पलम् ॥६३॥३६.६३ पञ्च-वल्क-बला-यष्टी- ३६.६३ पञ्च-वल्क-वचा-यष्टी- ३६.६३ जीवकर्षभकोशीरं स-क्षौद्रो हिमवान् नाम हन्ति मण्डलिनां विषम् ।लेपाछ्वयथु-वीसर्प-विस्फोट-ज्वर-दाह-हा ॥६४॥काश्मर्यं वट-शुङ्गानि जीवकर्षभकौ सिता ।मञ्जिष्ठा मधुकं चेति दष्टो मण्डलिना पिबेत् ॥६५॥३६.६५ काश्मर्यं वट-शृङ्गानि वंश-त्वग्-बीज-कटुका-पाटली-बीज-नागरम् ।शिरीष-बीजातिविषे मूलं गावेधुकं वचा ॥६६॥३६.६६ -पाटला-बीज-नागरम् ३६.६६ मूलं गावेधुकं वचाम् ३६.६६ मूलं श्रीवेष्टकं वचाम् पिष्टो गो-वारिणाष्टाङ्गो हन्ति गोनस-जं विषम् ।कटुकातिविषा-कुष्ठ-गृह-धूम-हरेणुकाः ॥६७॥स-क्षौद्र-व्योष-तगरा घ्नन्ति राजी-मतां विषम् ।निखनेत् काण्ड-चित्राया दंशं याम-द्वयं भुवि ॥६८॥उद्धृत्य प्रच्छितं सर्पिर्-धान्य-मृद्भ्यां प्रलेपयेत् ।पिबेत् पुराणं च घृतं वरा-चूर्णावचूर्णितम् ॥६९॥३६.६९ उद्धृत्य प्रस्थितं सर्पिर्- ३६.६९ वरा-चूर्ण-विचूर्णितम् जीर्णे विरिक्तो भुञ्जीत यवान्नं सूप-संस्कृतम् ।करवीरार्क-कुसुम-मूल-लाङ्गलिका-कणाः ॥७०॥३६.७० जीर्णे विरिक्ते भुञ्जीत ३६.७० -मूलं लाङ्गलिका कणा कल्कयेआरनालेन पाठा-मरिच-संयुताः ।एष व्यन्तर-दष्टानाम् अ-गदः सार्वकार्मिकः ॥७१॥शिरीष-पुष्प-स्व-रसे सप्ताह्वं मरिचं सितम् ।भावितं सर्प-दष्टानां पान-नस्याञ्जने हितम् ॥७२॥३६.७२ पान-नस्याञ्जनैर् हितम् ३६.७२ पाने नस्ये ऽञ्जने हितम् द्वि-पलं नत-कुष्ठाभ्यां घृत-क्षौद्रं चतुः-पलम् ।अपि तक्षक-दष्टानां पानम् एतत् सुख-प्रदम् ॥७३॥३६.७३ घृत-क्षौद्र-चतुः-पलम् ३६.७३ अपि तार्क्षक-दष्टानां अथ दर्वी-कृतां वेगे पूर्वे विस्राव्य शोणितम् ।अ-गदं मधु-सर्पिर्भ्यां संयुक्तं त्वरितं पिबेत् ॥७४॥द्वितीये वमनं कृत्वा तद्-वएवा-गदं पिबेत् ।विषापहे प्रयुञ्जीत तृतीये ऽञ्जन-नावने ॥७५॥३६.७५ विषापहैः प्रयुञ्जीत पिबेचतुर्थे पूर्वोक्तां यवागूं वमने कृते ।षष्ठ-पञ्चमयोः शीतैर् दिग्धं सिक्तम् अभीक्ष्ण-शः ॥७६॥पाययेवमनं तीक्ष्णं यवागूं च विषापहैः ।अ-गदं सप्तमे तीक्ष्णं युञ्ज्याअञ्जन-नस्ययोः ॥७७॥कृत्वावगाढं शस्त्रेण मूर्ध्नि काक-पदं ततः ।मांसं स-रुधिरं तस्य चर्म वा तत्र निक्षिपेत् ॥७८॥तृतीये वमितः पेयां वेगे मण्डलिनां पिबेत् ।अ-तीक्ष्णम् अ-गदं षष्ठे गणं वा पद्मकादिकम् ॥७९॥३६.७९ तृतीये वामितः पेयां आद्ये ऽवगाढं प्रच्छाय वेगे दष्टस्य राजिलैः ।अलाबुना हरेरक्तं पूर्व-वचा-गदं पिबेत् ॥८०॥षष्ठे ऽञ्जनं तीक्ष्ण-तमम् अवपीडं च योजयेत् ।अन्-उक्तेषु च वेगेषु क्रियां दर्वी-करोदिताम् ॥८१॥गर्भिणी-बाल-वृद्धेषु मृदुं विध्येत् सिरां न च ।त्वङ् मनोह्वा निशे वक्रं रसः शार्दूल-जो नखः ॥८२॥३६.८२ गुर्विणी-बाल-वृद्धेषु ३६.८२ मृदु विध्येत् सिरां न च ३६.८२ त्वङ् मनोह्वा निशे वक्त्रं तमालः केसरं शीतं पीतं तण्डुल-वारिणा ।हन्ति सर्व-विषाण्य् एतवज्रं वज्रम् इवासुरान् ॥८३॥३६.८३ हन्ति सर्व-विषाण्य् एत३६.८३ छक्र-वज्रम् इवासुरान् ३६.८३ वज्रि-वज्रम् इवासुरान् बिल्वस्य मूलं सुरसस्य पुष्पं फलं करञ्जस्य नतं सुराह्वम् ।फल-त्रिकं व्योष-निशा-द्वयं च बस्तस्य मूत्रेण सु-सूक्ष्म-पिष्टम् ॥८४॥३६.८४ फल-त्रयं व्योष-निशा-द्वयं च भुजङ्ग-लूतोन्दुर-वृश्चिकाद्यैर् विषूचिका-जीर्ण-गर-ज्वरैश् च ।आर्तान् नरान् भूत-विधर्षितांश् च स्वस्थी-करोत्य् अञ्जन-पान-नस्यैः ॥८५॥३६.८५ आर्तान् नरान् भूत-विमर्दितांश् च प्रलेपाद्यैश् च निःशेषं दंशाअप्य् उद्धरेविषम् ।भूयो वेगाय जायेत शेषं दूषी-विषाय वा ॥८६॥३६.८६ शेषं दूषी-विषं यथा ३६.८६ शेषं दूषी-विषाय च विषापाये ऽनिलं क्रुद्धं स्नेहादिभिर् उपाचरेत् ।तैल-मद्य-कुलत्थाम्ल-वर्ज्यैः पवन-नाशनैः ॥८७॥पित्तं पित्त-ज्वर-हरैः कषाय-स्नेह-वस्तिभिः ।स-माक्षिकेण वर्गेण कफम् आरग्वधादिना ॥८८॥सिता वैगन्धिको द्राक्षा पयस्या मधुकं मधु ।पानं स-मन्त्र-पूताम्बु प्रोक्षणं सान्त्व-हर्षणम् ॥८९॥३६.८९ सिता वैगन्धको द्राक्षा सर्पाङ्गाभिहते युञ्ज्यात् तथा शङ्का-विषार्दिते ।कर्केतनं मरकतं वज्रं वारण-मौक्तिकम् ॥९०॥वैडूर्यं गर्दभ-मणिं पिचुकं विष-मूषिकाम् ।हिमवद्-गिरि-संभूतां सोमराजीं पुनर्नवाम् ॥९१॥३६.९१ वैडूर्य-गर्दभ-मणिं ३६.९१ पिचुकं विष-दूषिकाम् तथा द्रोणां महा-द्रोणां मानसीं सर्प-जं मणिम् ।विषाणि विष-शान्त्य्-अर्थं वीर्य-वन्ति च धारयेत् ॥९२॥३६.९२ तथा द्रोणं महा-द्रोणं छत्त्री झर्झर-पाणिश् च चरेरात्रौ विशेषतः ।तच्-छाया-शब्द-वित्रस्ताः प्रणश्यन्ति भुजङ्गमाः ॥९३॥३६.९३ छत्त्री जर्जर-पाणिश् च ३६.९३ छत्त्री जर्झर-पाणिश् च ३६.९३ छत्त्री झर्जर-पाणिश् च ३६.९३ चरेरात्रौ च सर्व-दा ३६.९३ विद्रवन्ति भुजङ्गमाः वारि-गुञ्जा-फलोशीरं नेत्रयोर् विष-दुष्टयोः ।अञ्जनं वारिणा पिष्टं गारुडं गरुडोपमम् ॥९३-१॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP