संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|उत्तरस्थान| अध्याय २७ उत्तरस्थान अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० उत्तरस्थान - अध्याय २७ आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय २७ Translation - भाषांतर पात-घातादिभिर् द्वे-धा भङ्गो ऽस्थ्नां संध्य्-अ-संधितः ।प्रसारणाकुञ्चनयोर् अ-शक्तिः संधि-मुक्त-ता ॥१॥२७.१ भङ्गो ऽस्थ्नः संध्य्-अ-संधि-गः २७.१ भङ्गो ऽस्थ्नः संध्य्-अ-संधितः इतरस्मिन् भृशं शोफः सर्वावस्थास्व् अति-व्यथा ।अ-शक्तिश् चेष्टिते ऽल्पे ऽपि पीड्यमाने स-शब्द-ता ॥२॥२७.२ सर्वावस्थास्व् अति-व्यथः समासाइति भङ्गस्य लक्षणं बहु-धा तु तत् ।भिद्यते भङ्ग-भेदेन तस्य सर्वस्य साधनम् ॥३॥यथा स्याउपयोगाय तथा तउपदेक्ष्यते ।प्राज्याणु-दारि यत् त्व् अस्थि स्पर्शे शब्दं करोति यत् ॥४॥२७.४ प्राज्याणु-दारि यचास्थि यत्रास्थि-लेशः प्रविशेन् मध्यम् अस्थ्नो विदारितः ।भग्नं यचाभिघातेन किञ्-चिएवावशेषितम् ॥५॥२७.५ भग्नं यअभिघातेन २७.५ भग्नं यवाभिघातेन उन्नम्यमानं क्षत-वयच मज्जनि मज्जति ।तदुः-साध्यं कृशा-शक्त-वातलाल्पाशिनाम् अपि ॥६॥भिन्नं कपालं यत् कट्यां संधि-मुक्तं च्युतं च यत् ।जघनं प्रति पिष्टं च भग्नं यत् तविवर्जयेत् ॥७॥२७.७ भिन्नं कपालं यत् कट्याः अ-संश्लिष्ट-कपालं च ललाटं चूर्णितं तथा ।यच भग्नं भवेछङ्ख-शिरः-पृष्ठ-स्तनान्तरे ॥८॥सम्यग्-यमितम् अप्य् अस्थि दुर्-न्यासादुर्-निबन्धनात् ।संक्षोभाअपि यगच्छेवि-क्रियां तविवर्जयेत् ॥९॥२७.९ वि-क्रियां तच वर्जयेत् आदितो यच दुर्-जातम् अस्थि संधिर् अथापि वा ।तरुणास्थीनि भुज्यन्ते भज्यन्ते नलकानि तु ॥१०॥२७.१० तरुणास्थीनि नम्यन्ते २७.१० भज्यन्ते नलकानि च कपालानि विभिद्यन्ते स्फुटन्त्य् अन्यानि भूयसा ।अथावनतम् उन्नम्यम् उन्नतं चावपीडयेत् ॥११॥२७.११ कपालास्थीनि भिद्यन्ते आञ्छेअतिक्षिप्तम् अधो-गतं चोपरि वर्तयेत् ।आञ्छनोत्पीडनोन्नाम-चर्म-संक्षेप-बन्धनैः ॥१२॥२७.१२ आञ्छेअ-विक्षिप्तम् अधो- संधीञ् छरीर-गान् सर्वांश् चलान् अप्य् अ-चलान् अपि ।इत्य् एतैः स्थापनोपायैः सम्यक् संस्थाप्य निश्-चलम् ॥१३॥२७.१३ सम्यक् संस्थाप्य निश्-चलान् पट्टैः प्रभूत-सर्पिर्भिः वेष्टयित्वा सुखैस् ततः ।कदम्बोदुम्बराश्वत्थ-सर्जार्जुन-पलाश-जैः ॥१४॥वंशोद्भवैर् वा पृथुभिस् तनुभिः सु-निवेशितैः ।सु-श्लक्ष्णैः स-प्रतिस्तम्भैर् वल्कलैः शकलैर् अपि ॥१५॥२७.१५ सु-श्लक्ष्णैः स-प्रतिस्तम्भैर् कुशाह्वयैः समं बन्धं पट्टस्योपरि योजयेत् ।शिथिलेन हि बन्धेन संधि-स्थैर्यं न जायते ॥१६॥२७.१६ संधेः स्थैर्यं न जायते गाढेनाति रुजा-दाह-पाक-श्वयथु-संभवः ।त्र्य्-अहात् त्र्य्-अहाऋतौ घर्मे सप्ताहान् मोक्षयेधिमे ॥१७॥२७.१७ गाढेनापि रुजा-दाह- साधारणे तु पञ्चाहाभङ्ग-दोष-वशेन वा ।न्यग्रोधादि-कषायेण ततः शीतेन सेचयेत् ॥१८॥२७.१८ भग्न-दोष-वशेन वा २७.१८ भङ्गे दोष-वशेन वा तं पञ्च-मूल-पक्वेन पयसा तु स-वेदनम् ।सुखोष्णं वावचार्यं स्याचक्र-तैलं विजानता ॥१९॥२७.१९ पञ्च-मूल-विपक्वेन २७.१९च्सुखोष्णम् अवचार्यं स्याविभज्य देशं कालं च वात-घ्नौषध-संयुतम् ।प्रततं सेक-लेपांश् च विदध्याभृश-शीतलान् ॥२०॥२७.२० विभज्य देश-कालौ च २७.२० वात-घ्नौषध-साधितम् गृष्टि-क्षीरं स-सर्पिष्कं मधुरौषध-साधितम् ।प्रातः प्रातः पिबेभग्नः शीतलं लाक्षया युतम् ॥२१॥स-व्रणस्य तु भग्नस्य व्रणो मधु-घृतोत्तरैः ।कषायैः प्रतिसार्यो ऽथ शेषो भङ्गोदितः क्रमः ॥२२॥२७.२२ कषायैः प्रतिसार्यो वा लम्बानि व्रण-मांसानि प्रलिप्य मधु-सर्पिषा ।संदधीत व्रणान् वैद्यो बन्धनैश् चोपपादयेत् ॥२३॥तान् समान् सु-स्थिताञ् ज्ञात्वा फलिनी-लोध्र-कट्फलैः ।समङ्गा-धातकी-युक्तैश् चूर्णितैर् अवचूर्णयेत् ॥२४॥धातकी-लोध्र-चूर्णैर् वा रोहन्त्य् आशु तथा व्रणाः ।इति भङ्ग उपक्रान्तः स्थिर-धातोर् ऋतौ हिमे ॥२५॥मांसलस्याल्प-दोषस्य सु-साध्यो दारुणो ऽन्य-था ।पूर्व-मध्यान्त-वयसाम् एक-द्वि-त्रि-गुणैः क्रमात् ॥२६॥२७.२६ सु-साधो दारुणो ऽन्य-था मासैः स्थैर्यं भवेत् संधेर् यथोक्तं भजतां विधिम् ।कटी-जङ्घोरु-भग्नानां कपाट-शयनं हितम् ॥२७॥२७.२७ यथोक्तं भजतो विधिम् यन्त्रणार्थं तथा कीलाः पञ्च कार्या निबन्धनाः ।जङ्घोर्वोः पार्श्वयोर् द्वौ द्वौ तल एकश् च कीलकः ॥२८॥श्रोण्यां वा पृष्ठ-वंशे वा वक्षस्य् अक्षकयोस् तथा ।विमोक्षे भग्न-संधीनां विधिम् एवं समाचरेत् ॥२९॥२७.२९ वक्षस्य् अंशकयोस् तथा २७.२९ वक्त्रस्याक्षकयोस् तथा २७.२९ विधिम् एनं समाचरेत् संधींश् चिर-विमुक्तांस् तु स्निग्ध-स्विन्नान् मृदू-कृतान् ।उक्तैर् विधानैर् बुद्ध्या च यथा-स्वं स्थानम् आनयेत् ॥३०॥२७.३० संधींश् चिर-विमुक्तांश् च २७.३० उक्तैर् विधानैर् युक्त्या च २७.३० उक्तैर् विधानैर् युक्त्या वा अ-संधि-भग्ने रूढे तु विषमोल्बण-साधिते ।आपोथ्य भङ्गं यमयेत् ततो भग्न-वआचरेत् ॥३१॥२७.३१ अ-संधि-भग्ने रूढे च २७.३१ विषमोल्बण-साधनैः भग्नं नैति यथा पाकं प्रयतेत तथा भिषक् ।पक्व-मांस-सिरा-स्नायुः संधिः श्लेषं न गच्छति ॥३२॥२७.३२ भङ्गो नैति यथा पाकं वात-व्याधि-विनिर्दिष्टान् स्नेहान् भग्नस्य योजयेत् ।चतुष्-प्रयोगान् बल्यांश् च वस्ति-कर्म च शीलयेत् ॥३३॥शाल्य्-आज्य-रस-दुग्धाद्यैः पौष्टिकैर् अ-विदाहिभिः ।मात्रयोपचरेभग्नं संधि-संश्लेष-कारिभिः ॥३४॥ग्लानिर् न शस्यते तस्य संधि-विश्लेष-कृधि सा ॥३५अ॥लवणं कटुकं क्षारम् अम्लं मैथुनम् आतपम् ॥३५च्॥व्यायामं च न सेवेत भग्नो रूक्षं च भोजनम् ॥३५एf ॥कृष्णांस् तिलान् वि-रजसो दृढ-वस्त्र-बद्धान् सप्त क्षपा वहति वारिणि वासयेत् ।संशोषयेअनु-दिनं प्रविसार्य चैतान् क्षीरे तथैव मधुक-क्वथिते च तोये ॥३६॥२७.३६ संशोषयेअनु-दिनं प्रतिसार्य चैतान् २७.३६ संशोषयेअनु-दिनं प्रविभाव्य चैतान् पुनर् अपि पीत-पयस्कांस् तान् पूर्व-वएव शोषितान् बाढम् ।विगत-तुषान् अ-रजस्कान् संचूर्ण्य सु-चूर्णितैर् युञ्ज्यात् ॥३७॥२७.३७ संचूर्ण्य विचूर्णितैर् युञ्ज्यात् नलद-वालक-लोहितयष्टिका-नख-मिशि-प्लव-कुष्ठ-बला-त्रयैः ।अगुरु-कुङ्कुम-चन्दन-शारिवा-सरल-सर्ज-रसामरदारुभिः ॥३८॥पद्मकादि-गणोपेतैस् तिल-पिष्टं ततश् च तत् ।समस्त-गन्ध-भैषज्य-सिद्ध-दुग्धेन पीडयेत् ॥३९॥२७.३९ तिल-पिष्टं ततश् च तम् शैलेय-रास्नांशुमती-कसेरु-कालानुसारी-नत-पत्त्र-लोध्रैः ।स-क्षीरशुक्लैः स-पयः स-दूर्वैस् तैलं पचेत् तन् नलदादिभिश् च ॥४०॥२७.४० त्वक्-क्षीर-युक्तैः पयसा स-दूर्वैस् २७.४० स-क्षीर-युक्तैस् पयसा स-दूर्वैस् २७.४० स-क्षीर-युक्तैस् स-पयः स-दूर्वैस् गन्ध-तैलम् इदम् उत्तमम् अस्थि-स्थैर्य-कृज् जयति चाशु विकारान् ।वात-पित्त-जनितान् अति-वीर्यान् व्यापिनो ऽपि विविधैर् उपयोगैः ॥४१॥२७.४१ वात-पित्त-जनितान् अति-वीर्यं २७.४१ वात-पित्त-जनितान् अति-वीर्य- २७.४१ -व्यापिनो ऽपि विविधैर् उपयोगैः N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP