संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|उत्तरस्थान| अध्याय ३१ उत्तरस्थान अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० उत्तरस्थान - अध्याय ३१ आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय ३१ Translation - भाषांतर स्निग्धा स-वर्णा ग्रथिता नी-रुजा मुद्ग-संनिभा ।पिटिका कफ-वाताभ्यां बालानाम् अजगल्लिका ॥१॥३१.१ स्निग्धाः स-वर्णा ग्रथिता ३१.१ पिटिकाः कफ-वाताभ्यां ३१.१ नी-रुजा मुद्ग-संमिता ३१.१ नी-रुजा मुद्ग-संनिभाः यव-प्रख्या यव-प्रख्या ताभ्यां मांसाश्रिता घना ।अ-वक्त्रा चालजी वृत्ता स्तोक-पूया घनोन्नता ॥२॥३१.२ यव-प्रख्या यवाकारा ३१.२ अ-वक्त्राश् चालजी-वृत्ताः ३१.२ स्तोक-पूया घनोन्नताः ग्रन्थयः पञ्च वा षड् वा कच्छपी कच्छपोन्नताः ।कर्णस्योर्ध्वं समन्तावा पिटिका कठिनोग्र-रुक् ॥३॥३१.३ कच्छपी कच्छपोन्नता शालूकाभा पनसिका शोफस् त्व् अल्प-रुजः स्थिरः ।हनु-संधि-समुद्भूतस् ताभ्यां पाषाण-गर्दभः ॥४॥शाल्मली-कण्टकाकाराः पिटिकाः स-रुजो घनाः ।मेदो-गर्भा मुखे यूनां ताभ्यां च मुख-दूषिकाः ॥५॥३१.५ ताभ्यां च मुख-दूषकाः ते पद्म-कण्टका ज्ञेया यैः पद्मम् इव कण्टकैः ।चीयते नी-रुजैः श्वेतैः शरीरं कफ-वात-जैः ॥६॥पित्तेन पिटिका वृत्ता पक्वोदुम्बर-संनिभा ।महा-दाह-ज्वर-करी विवृता विवृतानना ॥७॥गात्रेष्व् अन्तश् च वक्त्रस्य दाह-ज्वर-रुजान्विताः ।मसूर-मात्रास् तद्-वर्णास् तत्-संज्ञाः पिटिका घनाः ॥८॥ततः कष्ट-तराः स्फोटा विस्फोटाख्या महा-रुजाः ।या पद्म-कर्णिकाकारा पिटिका पिटिकाचिता ॥९॥सा विद्धा वात-पित्ताभ्यां ताभ्याम् एव च गर्दभी ।मण्डला विपुलोत्सन्ना स-राग-पिटिकाचिता ॥१०॥कक्षेति कक्षासन्नेषु प्रायो देशेषु सानिलात् ।पित्ताभवन्ति पिटिकाः सूक्ष्मा लाजोपमा घनाः ॥११॥३१.११ सूक्ष्मा जालोपमा घनाः तादृशी महती त्व् एका गन्ध-नामेति कीर्तिता ।घर्म-स्वेद-परीते ऽङ्गे पिटिकाः स-रुजो घनाः ॥१२॥राजीका-वर्ण-संस्थान-प्रमाणा राजिकाह्वयाः ।दोषैः पित्तोल्बणैर् मन्दैर् विसर्पति विसर्प-वत् ॥१३॥शोफो ऽ-पाकस् तनुस् ताम्रो ज्वर-कृज् जाल-गर्दभः ।मलैः पित्तोल्बणैः स्फोटा ज्वरिणो मांस-दारणाः ॥१४॥३१.१४ ज्वरिणो मांस-दारुणाः ३१.१४ ज्वरिणो मांस-दारिणः कक्षा-भागेषु जायन्ते ये ऽग्न्य्-आभाः साग्नि-रोहिणी ।पञ्चाहात् सप्त-रात्रावा पक्षावा हन्ति जीवितम् ॥१५॥त्रि-लिङ्गा पिटिका वृत्ता जत्रूर्ध्वम् इरिवेल्लिका ।विदारी-कन्द-कठिना विदारी कक्ष-वङ्क्षणे ॥१६॥मेदो-ऽनिल-कफैर् ग्रन्थिः स्नायु-मांस-सिराश्रयैः ।भिन्नो वसाज्य-मध्व्-आभं स्रवेत् तत्रोल्बणो ऽनिलः ॥१७॥मांसं विशोष्य ग्रथितां शर्करां उपपादयेत् ।दुर्-गन्धं रुधिरं क्लिन्नं नाना-वर्णं ततो मलाः ॥१८॥३१.१८ दुर्-गन्धि रुधिरं क्लिन्नं तां स्रावयन्ति निचितां विद्यात् तछर्करार्बुदम् ।पाणि-पाद-तले संधौ जत्रूर्ध्वं वोपचीयते ॥१९॥३१.१९ तां स्रावयन्ति निचिता ३१.१९ जत्रूर्ध्वं चोपचीयते वल्मीक-वछनैर् ग्रन्थिस् तद्-वबह्व्-अणुभिर् मुखैः ।रुग्-दाह-कण्डू-क्लेदाढ्यैर् वल्मीको ऽसौ समस्त-जः ॥२०॥३१.२० रुग्-दाह-कण्डू-क्लेदाढ्यो शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः ।ग्रन्थिः कील-वउत्सन्नो जायते कदरं तु तत् ॥२१॥वेग-संधारणावायुर् अपानो ऽपान-संश्रयम् ।अणू-करोति बाह्यान्तर्-मार्गम् अस्य ततः शकृत् ॥२२॥३१.२२ अपानो ऽपान-संश्रयः कृच्छ्रान् निर्गच्छति व्याधिर् अयं रुद्ध-गुदो मतः ।कुर्यात् पित्तानिलं पाकं नख-मांसे स-रुग्-ज्वरम् ॥२३॥चिप्यम् अ-क्षत-रोगं च विद्याउप-नखं च तम् ।कृष्णो ऽभिघातारूक्षश् च खरश् च कु-नखो नखः ॥२४॥३१.२४ विद्याउप-नखं च तत् दुष्ट-कर्दम-संस्पर्शात् कण्डू-क्लेदान्वितान्तराः ।अङ्गुल्यो ऽलसम् इत्य् आहुस् तिलाभांस् तिल-कालकान् ॥२५॥कृष्णान् अ-वेदनांस् त्वक्-स्थान् माषांस् तान् एव चोन्नतान् ।मषेभ्यस् तून्नत-तरांश् चर्म-कीलान् सितासितान् ॥२६॥तथा-विधो जतु-मणिः सह-जो लोहितस् तु सः ।कृष्णं सितं वा सह-जं मण्डलं लाञ्छनं समम् ॥२७॥३१.२७ स-रुजो लोहितस् तु सः शोक-क्रोधादि-कुपितावात-पित्तान् मुखे तनु ।श्यामलं मण्डलं व्यङ्गं वक्त्राअन्य-त्र नीलिका ॥२८॥परुषं परुष-स्पर्शं व्यङ्गं श्यावं च मारुतात् ।पित्तात् ताम्रान्तम् आ-नीलं श्वेतान्तं कण्डु-मत् कफात् ॥२९॥३१.२९ पित्तात् ताम्रं तथा नीलं ३१.२९ श्वेताभं कण्डु-मत् कफात् रक्तारक्तान्तम् आ-ताम्रं सौषं चिमिचिमायते ।वायुनोदीरितः श्लेष्मा त्वचं प्राप्य विशुष्यति ॥३०॥३१.३० मुखं चिमिचिमायते ततस् त्वग् जायते पाण्दुः क्रमेण च वि-चेतना ।अल्प-कण्डूर् अ-विक्लेदा सा प्रसुप्तिः प्रसुप्तितः ॥३१॥३१.३१ अल्प-कण्डूर् अप-क्लेदा अ-सम्यग्-वमनोदीर्ण-पित्त-श्लेष्मान्न-निग्रहैः ।मण्डलान्य् अति-कण्डूनि राग-वन्ति बहूनि च ॥३२॥उत्कोठः सो ऽनुबद्धस् तु कोठ इत्य् अभिधीयते ।प्रोक्ताः षट्-त्रिंशइत्य् एते क्षुद्र-रोगा विभाग-शः ॥३३॥३१.३३ उत्कोठः सो ऽनुबन्धस् तु यान् अ-विज्ञाय मुह्येत चिकित्सायां चिकित्सकः ॥३३-१-अ॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP