उत्तरस्थान - अध्याय ८

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


सर्व-रोग-निदानोक्तैर् अ-हितैः कुपिता मलाः ।
अ-चक्षुष्यैर् विशेषेण प्रायः पित्तानुसारिणः ॥१॥

सिराभिर् ऊर्ध्वं प्रसृता नेत्रावयवम् आश्रिताः ।
वर्त्म संधिं सितं कृष्णं दृष्टिं वा सर्वम् अक्षि वा ॥२॥

रोगान् कुर्युश् चलस् तत्र प्राप्य वर्त्माश्रयाः सिराः ।
सुप्तोत्थितस्य कुरुते वर्त्म-स्तम्भं स-वेदनम् ॥३॥

पांसु-पूर्णाभ-नेत्र-त्वं कृच्छ्रोन्मीलनम् अश्रु च ।
विमर्दनात् स्याच शमः कृच्छ्रोन्मूलं वदन्ति तत् ॥४॥

चालयन् वर्त्मनी वायुर् निमेषोन्मेषणं मुहुः ।
करोत्य् अ-रुङ् निमेषो ऽसौ वर्त्म यत् तु निमील्यते ॥५॥

विमुक्त-संधि निश्-चेष्टं हीनं वात-हतं हि तत् ।
कृष्णाः पित्तेन बह्व्यो ऽन्तर्-वर्त्म कुम्भीक-बीज-वत् ॥६॥

८.६ पित्तेन वर्त्मनो ऽन्तर्-जा ८.६ बह्व्यः कुम्भीक-बीज-वत् आध्मायन्ते पुनर् भिन्नाः पिटिकाः कुम्भि-संज्ञिताः ।
स-दाह-क्लेद-निस्तोदं रक्ताभं स्पर्शना-क्षमम् ॥७॥

८.७ पिटिकाः कुम्भि-संज्ञकाः पित्तेन जायते वर्त्म पित्तोत्क्लिष्टम् उशन्ति तत् ।
करोति कण्डूं दाहं च पित्तं पक्ष्ंान्तम् आस्थितम् ॥८॥

८.८ पित्तं पक्ष्ंान्तम् आश्रितम् पक्ष्मणां शातनं चानु पक्ष्म-शातं वदन्ति तम् ।
पोथक्यः पिटिकाः श्वेताः सर्षपाभा घनाः कफात् ॥९॥

८.९ पक्ष्मणां शतनं चानु ८.९ पक्ष्मणां सदनं चानु शोफोपदेह-रुक्-कण्डू-पिच्छिलाश्रु-समन्विताः ।
कफोत्क्लिष्टं भवेवर्त्म स्तम्भ-क्लेदोपदेह-वत् ॥१०॥

ग्रन्थिः पाण्डुर-रुक्-पाकः कण्डू-मान् कठिनः कफात् ।
कोल-मात्रः स लगणः किञ्-चिअल्पस् ततो ऽथ-वा ॥११॥

८.११ किञ्-चिअल्पस् ततो ऽपि वा रक्ता रक्तेन पिटिका तत्-तुल्य-पिटिकाचिता ।
उत्सङ्गाख्या तथोत्क्लिष्टं राजी-मत् स्पर्शना-क्षमम् ॥१२॥

८.१२ रक्ता रक्तेन पिटिकास् ८.१२ तत्-तुल्य-पिटिकाचिताः ८.१२ उत्सङ्गाख्यास् तथोत्क्लिष्टं अर्शो ऽधि-मांसं वर्त्मान्तः स्तब्धं स्निग्धं स-दाह-रुक् ।
रक्तं रक्तेन तत्-स्रावि च्छिन्नं छिन्नं च वर्धते ॥१३॥

मध्ये वा वर्त्मनो ऽन्ते वा कण्डूषा-रुग्-वती स्थिरा ।
मुद्ग-मात्रासृजा ताम्रा पिटिकाञ्जन-नामिका ॥१४॥

दोषैर् वर्त्म बहिः शूनं यअन्तः सूक्ष्म-खाचितम् ।
स-स्रावम् अन्तर्-उदकं बिसाभं बिस-वर्त्म तत् ॥१५॥

यवर्त्मोत्क्लिष्टम् उत्क्लिष्टम् अ-कस्मान् म्लान-ताम् इयात् ।
रक्त-दोष-त्रयोत्क्लेशाभवत्य् उत्क्लिष्ट-वर्त्म तत् ॥१६॥

८.१६ वदन्त्य् उत्क्लिष्ट-वर्त्म तत् श्याव-वर्त्म मलैः सास्रैः श्यावं रुक्-क्लेद-शोफ-वत् ।
श्लिष्टाख्यं वर्त्मनी श्लिष्टे कण्डू-श्वयथु-रागिणी ॥१७॥

वर्त्मनो ऽन्तः खरा रूक्षाः पिटिकाः सिकतोपमाः ।
सिकता-वर्त्म कृष्णं तु कर्दमं कर्दमोपमम् ॥१८॥

बहलं बहलैर् मांसैः स-वर्णैश् चीयते समैः ।
कुकूणकः शिशोर् एव दन्तोत्पत्ति-निमित्त-जः ॥१९॥

स्यात् तेन शिशुर् उच्छून-ताम्राक्षो वीक्षणा-क्षमः ।
स-वर्त्म-शूल-पैच्छिल्यः कर्ण-नासाक्षि-मर्दनः ॥२०॥

८.२० -ताम्राक्षो वीक्षणे ऽ-क्षमः पक्ष्मोपरोधे संकोचो वर्त्मनां जायते तथा ।
खर-तान्तर्-मुख-त्वं च रोम्णाम् अन्यानि वा पुनः ॥२१॥

८.२१ वर्त्मनो जायते तथा कण्टकैर् इव तीक्ष्णाग्रैर् घृष्टं तैर् अक्षि शूयते ।
उष्यते चानिलादि-द्विड् अल्पाहः शान्तिर् उद्धृतैः ॥२२॥

८.२२ घृष्टं तैर् अक्षि सूयते ८.२२ उष्यते वानिलादि-द्विड् ८.२२ उष्यते चानिलाद्यैश् च ८.२२ अल्पाहं शान्तिर् उद्धृतैः कनीनके बहिर्-वर्त्म कठिनो ग्रन्थिर् उन्नतः ।
ताम्रः पक्वो ऽस्र-पूय-स्रुअलज्य् आध्मायते मुहुः ॥२३॥

वर्त्मान्तर् मांस-पिण्डाभः श्वयथुर् ग्रथितो ऽ-रुजः ।
सास्रैः स्याअर्बुदो दोषैर् विषमो बाह्यतश् चलः ॥२४॥

चतुर्-विंशतिर् इत्य् एते व्याधयो वर्त्म-संश्रयाः ।
आद्यो ऽत्र भेषजैः साध्यो द्वौ ततो ऽर्शश् च वर्यजेत् ॥२५॥

पक्ष्मोपरोधो याप्यः स्याछेषाञ् छस्त्रेण साधयेत् ।
कुट्टयेत् पक्ष्म-सदनं छिन्द्यात् तेष्व् अपि चार्बुदम् ॥२६॥

८.२६ कुट्टयेत् पक्ष्म-शदनं भिन्द्याल् लगण-कुम्भीका-बिसोत्सङ्गाञ्जनालजीः ।
पोथकी-श्याव-सिकता-श्लिष्टोत्क्लिष्ट-चतुष्टयम् ॥२७॥

स-कर्दमं स-बहलं विलिखेत् स-कुकूणकम् ॥२७ऊ̆अ॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP