संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|उत्तरस्थान| अध्याय ३५ उत्तरस्थान अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० उत्तरस्थान - अध्याय ३५ आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय ३५ Translation - भाषांतर मथ्यमाने जल-निधाव् अमृतार्थं सुरासुरैः ।जातः प्राग् अमृतोत्पत्तेः पुरुषो घोर-दर्शनः ॥१॥दीप्त-तेजाश् चतुर्-दंष्ट्रो हरि-केशो ऽनलेक्षणः ।जगविषण्णं तं दृष्ट्वा तेनासौ विष-संज्ञितः ॥२॥३५.२ हरित्-केशो ऽनलेक्षणः ३५.२ तेनासौ विष-संज्ञकः हुङ्-कृतो ब्रह्मणा मूर्ती ततः स्थावर-जङ्गमे ।सो ऽध्यतिष्ठन् निजं रूपम् उज्झित्वा वञ्चनात्मकम् ॥३॥३५.३ हुङ्-कृतो ब्रह्मणा मूर्तस् ३५.३ हुङ्-कृतो ब्रह्मणा मूर्तीस् ३५.३ ततः स्थावर-जङ्गमम् ३५.३ ततः स्थावर-जङ्गमम् ३५.३ ततः स्थावर-जङ्गमात् ३५.३ ततः स्थावर-जङ्गमाः ३५.३ उज्झित्वा वञ्चनात्मकः स्थिरम् इत्य् उल्बणं वीर्ये यत् कन्देषु प्रतिष्ठितम् ।कालकूटेन्द्रवत्साख्य-शृङ्गी-हालाहलादिकम् ॥४॥सर्प-लूतादि-दंष्ट्रासु दारुणं जङ्गमं विषम् ।स्थावरं जङ्गमं चेति विषं प्रोक्तम् अ-कृत्रिमम् ॥५॥कृत्रिमं गर-संज्ञं तु क्रियते विविधौषधैः ।हन्ति योग-वशेनाशु चिराचिर-तराच तत् ॥६॥शोफ-पाण्डूदरोन्माद-दुर्-नामादीन् करोति वा ।तीक्ष्णोष्ण-रूक्ष-विशदं व्यवाय्य् आशु-करं लघु ॥७॥३५.७ -दुर्-नामादीन् करोति च विकाषि सूक्ष्मम् अ-व्यक्त-रसं विषम-पाकि च ।ओजसो विपरीतं तत् तीक्ष्णाद्यैर् अन्वितं गुणैः ॥८॥३५.८ विकाशि सूक्ष्मम् अ-व्यक्त- ३५.८ विकासि सूक्ष्मम् अ-व्यक्त- ३५.८ -रसैर् युक्तम् अ-पाकि च ३५.८ ओजसो विपरीतं तु वात-पित्तोत्तरं नॄणां सद्यो हरति जीवितम् ।विषं हि देहं संप्राप्य प्राग् दूषयति शोणितम् ॥९॥कफ-पित्तानिलांश् चानु समं दोषान् सहाशयान् ।ततो हृदयम् आस्थाय देहोच्छेदाय कल्पते ॥१०॥३५.१० सम-दोषं सहाशयान् ३५.१० समं दोषान् सहाय-वत् ३५.१० सम-दोषं सहाय-वत् ३५.१० सम-दोषं सहाश्रयम् ३५.१० देह-च्छेदाय कल्पते स्थावरस्योपयुक्तस्य वेगे पूर्वे प्रजायते ।जिह्वायाः श्याव-ता स्तम्भो मूर्छा त्रासः क्लमो वमिः ॥११॥३५.११ वेगः पूर्वं प्रजायते ३५.११ वेगे पूर्वे च जायते द्वितीये वेपथुः स्वेदो दाहः कण्ठे च वेदना ।विषं चामाशयं प्राप्तं कुरुते हृदि वेदनाम् ॥१२॥तालु-शोषस् तृतीये तु शूलं चामाशये भृशम् ।दुर्-बले हरिते शूने जायेते चास्य लोचने ॥१३॥३५.१३ दुर्-वर्णे हरिते शूने ३५.१३ दुर्-वर्णे हरिते शून्ये पक्वाशय-गते तोद-हिध्मा-कासान्त्र-कूजनम् ।चतुर्थे जायते वेगे शिरसश् चाति-गौरवम् ॥१४॥३५.१४ पक्वाशय-गते तोदो ३५.१४ हिध्मा कासान्त्र-कूजनम् कफ-प्रसेको वैवर्ण्यं पर्व-भेदश् च पञ्चमे ।सर्व-दोष-प्रकोपश् च पक्वाधाने च वेदना ॥१५॥षष्ठे संज्ञा-प्रणाशश् च सु-भृशं चातिसार्यते ।स्कन्ध-पृष्ठ-कटी-भङ्गो भवेन् मृत्युश् च सप्तमे ॥१६॥प्रथमे विष-वेगे तु वान्तं शीताम्बु-सेचिनम् ।सर्पिर्-मधुभ्यां संयुक्तम् अ-गदं पाययेद्रुतम् ॥१७॥३५.१७ प्रथमे विष-वेगे ऽथ द्वितीये पूर्व-ववान्तं विरिक्तं चानुपाययेत् ।तृतीये ऽ-गद-पानं तु हितं नस्यं तथाञ्जनम् ॥१८॥चतुर्थे स्नेह-संयुक्तम् अ-गदं प्रतियोजयेत् ।पञ्चमे मधुक-क्वाथ-माक्षिकाभ्यां युतं हितम् ॥१९॥षष्ठे ऽतीसार-वसिद्धिर् अवपीडश् तु सप्तमे ।मूर्ध्नि काक-पदं कृत्वा सासृग् वा पिशितं क्षिपेत् ॥२०॥३५.२० अवपीडश् च सप्तमे कोशातक्य् अग्निकः पाठा सूर्यवल्ल्य्-अमृताभयाः ।शेलुः शिरीषः किणिही हरिद्रे क्षौद्र-साह्वया ॥२१॥३५.२१ सूर्यवल्ल्य् अमृताभया ३५.२१ हरिद्रे क्षौद्र-साह्वयम् पुनर्नवे त्रि-कटुकं बृहत्यौ शारिवे बला ।एषां यवागूं निर्यूहे शीतां स-घृत-माक्षिकाम् ॥२२॥३५.२२ पुनर्नवा त्रि-कटुकं ३५.२२ बृहत्यौ शारिवे बले युञ्ज्यावेगान्तरे सर्व-विष-घ्नीं कृत-कर्मणः ।तद्-वन् मधूक-मधुक-पद्म-केसर-चन्दनैः ॥२३॥अञ्जनं तगरं कुष्ठं हरितालं मनःशिला ।फलिनी त्रि-कटु स्पृक्का नागपुष्पं स-केसरम् ॥२४॥हरेणुर् मधुकं मांसी रोचना काकमालिका ।श्रीवेष्टकं सर्ज-रसः शताह्वा कुङ्कुमं बला ॥२५॥३५.२५ रोचना कालमालिका ३५.२५ रोचना कालमञ्जिका तमाल-पत्त्र-तालीश-भूर्जोशीर-निशा-द्वयम् ।कन्योपवासिनी स्नाता शुक्ल-वासा मधु-द्रुतैः ॥२६॥३५.२६ तमाल-पत्त्रं तालीशं ३५.२६ भूर्जोशीरं निशा-द्वयम् ३५.२६ शुक्ल-वासा मधु-प्लुतैः द्वि-जान् अभ्यर्च्य तैः पुष्ये कल्पयेअ-गदोत्तमम् ।वैद्यश् चात्र तदा मन्त्रं प्रयतात्मा पठेइमम् ॥२७॥३५.२७ द्वि-जान् अभ्यर्च्य पुष्यर्क्षे ३५.२७ वैद्यश् चाशु तदा मन्त्रं नमः पुरुष-सिंहाय नमो नारायणाय च ।यथासौ नाभिजानाति रणे कृष्ण-पराजयम् ॥२८॥३५.२८ रणे कृष्णः पराजयम् एतेन सत्य-वाक्येन अ-गदो मे प्रसिध्यतु ।नमो वैडूर्यमाते हुलु हुलु रक्ष मां सर्व-विषेभ्यः ॥२९॥३५.२९ हुलु कुलु रक्ष मां सर्व-विषेभ्यः गौरि गान्धारि चाण्डालि मातङ्गि स्वाहा पिष्टे च द्वितीयो मन्त्रः ॥३०अ॥३५.३० गौरि गान्धारि चण्डालि मातङ्गि स्वाहा हरिमायि स्वाहा ॥३०॥३५.३० हारितमायि स्वाहा अ-शेष-विष-वेताल-ग्रह-कार्मण-पाप्मसु ।मरक-व्याधि-दुर्-भिक्ष-युद्धाशनि-भयेषु च ॥३१॥पान-नस्याञ्जनालेप-मणि-बन्धादि-योजितः ।एष चन्द्रोदयो नाम शान्ति-स्वस्त्य्-अयनं परम् ॥३२॥३५.३२ शान्तिः स्वस्त्य्-अयनं परम् वासवो वृत्रम् अवधीत् समालिप्तः किलामुना ॥३२-१-अ॥३५.३२-१-ब्व् समालिप्तो ऽमुना किल जीर्णं विष-घ्नौषधिभिर् हतं वा दावाग्नि-वातातप-शोषितं वा ।स्व-भावतो वा न गुणैः सु-युक्तं दूषी-विषाख्यां विषम् अभ्युपैति ॥३३॥३५.३३ स्व-भावतो वा सु-गुणैर् न युक्तं ३५.३३ स्व-भावतो वा स्व-गुणैर् न युक्तं ३५.३३ दूषी-विषाख्यं विषम् अभ्युपैति वीर्याल्प-भावाअ-विभाव्यम् एतत् कफावृतं वर्ष-गणानुबन्धि ।तेनार्दितो भिन्न-पुरीष-वर्णो दुष्टास्र-रोगी तृड्-अ-रोचकार्तः ॥३४॥मूर्छन् वमन् गद्गद-वाग् विमुह्यन् भवेच दूष्योदर-लिङ्ग-जुष्टः ।आमाशय-स्थे कफ-वात-रोगी पक्वाशय-स्थे ऽनिल-पित्त-रोगी ॥३५॥भवेन् नरो ध्वस्त-शिरो-रुहाङ्गो विलून-पक्षः स यथा विहङ्गः ।स्थितं रसादिष्व् अथ-वा विचित्रान् करोति धातु-प्रभवान् विकारान् ॥३६॥प्राग्-वाता-जीर्ण-शीताभ्र-दिवा-स्वप्ना-हिताशनैः ।दुष्टं दूषयते धातून् अतो दूषी-विषं स्मृतम् ॥३७॥३५.३७ दुष्टं दूषयते धातुं ३५.३७ ततो दूषी-विषं स्मृतम् दूषी-विषार्तं सु-स्विन्नम् ऊर्ध्वं चाधश् च शोधितम् ।दूषी-विषारिम् अ-गदं लेहयेन् मधुनाप्लुतम् ॥३८॥पिप्पल्यो ध्यामकं मांसी लोध्रम् एला सुवर्चिका ।कुटन्नटं नतं कुष्ठं यष्टी चन्दन-गैरिकम् ॥३९॥दूषी-विषारिर् नाम्नायं न चान्य-त्रापि वार्यते ।विष-दिग्धेन विद्धस् तु प्रताम्यति मुहुर् मुहुः ॥४०॥वि-वर्ण-भावं भजते विषादं चाशु गच्छति ।कीटैर् इवावृतं चास्य गात्रं चिमिचिमायते ॥४१॥श्रोणि-पृष्ठ-शिरः-स्कन्ध-संधयः स्युः स-वेदनाः ।कृष्ण-दुष्टास्र-विस्रावी तृण्-मूर्छा-ज्वर-दाह-वान् ॥४२॥दृष्टि-कालुष्य-वमथु-श्वास-कास-करः क्षणात् ।आ-रक्त-पीत-पर्य्-अन्तः श्याव-मध्यो ऽति-रुग् व्रणः ॥४३॥शूयते पच्यते सद्यो गत्वा मांसं च कृष्ण-ताम् ।प्रक्लिन्नं शीर्यते ऽभीक्ष्णं स-पिच्छिल-परिस्रवम् ॥४४॥कुर्याअ-मर्म-विद्धस्य हृदयावरणं द्रुतम् ।शल्यम् आकृष्य तप्तेन लोहेनानु दहेव्रणम् ॥४५॥अथ-वा मुष्कक-श्वेता-सोम-त्वक्-ताम्रवल्लितः ।शिरीषागृध्रनख्याश् च क्षारेण प्रतिसारयेत् ॥४६॥शुकनासा-प्रतिविषा-व्याघ्री-मूलैश् च लेपयेत् ।कीट-दष्ट-चिकित्सां च कुर्यात् तस्य यथार्हतः ॥४७॥व्रणे तु पूति-पिशिते क्रिया पित्त-विसर्प-वत् ।सौभाग्यार्थं स्त्रियो भर्त्रे राज्ञे वा-रति-चोदिताः ॥४८॥३५.४८ राज्ञे चा-रति-चोदिताः गरम् आहार-संपृक्तं यच्छन्त्य् आसन्न-वर्तिनः ।नाना-प्राण्य्-अङ्ग-शमल-विरुद्धौषधि-भस्मनाम् ॥४९॥३५.४९ नाना-प्राण्य्-अङ्ग-स-मल- विषाणां चाल्प-वीर्याणां योगो गर इति स्मृतः ।तेन पाण्दुः कृशो ऽल्पाग्निः कास-श्वास-ज्वरार्दितः ॥५०॥३५.५० विषाणां मन्द-वीर्याणां वायुना प्रतिलोमेन स्वप्न-चिन्ता-परायणः ।महोदर-यकृत्-प्लीही दीन-वाग् दुर्-बलो ऽलसः ॥५१॥३५.५१ मेहोदर-यकृत्-प्लीही ३५.५१ हीन-वाग् दुर्-बलो ऽलसः शोफ-वान् सतताध्मातः शुष्क-पाद-करः क्षयी ।स्वप्ने गोमायु-मार्जार-नकुल-व्याल-वानरान् ॥५२॥प्रायः पश्यति शुष्कांश् च वनस्पति-जलाशयान् ।मन्यते कृष्णम् आत्मानं गौरो गौरं च कालकः ॥५३॥वि-कर्ण-नासा-नयनं पश्येत् तद्-विहतेन्द्रियः ।एतैर् अन्यैश् च बहुभिः क्लिष्टो घोरैर् उपद्रवैः ॥५४॥३५.५४ पश्येत् तु विहतेन्द्रियः गरार्तो नाशम् आप्नोति कश्-चित् सद्यो ऽ-चिकित्सितः ।गरार्तो वान्त-वान् भुक्त्वा तत् पथ्यं पान-भोजनम् ॥५५॥शुद्ध-हृछीलयेधेम सूत्र-स्थान-विधेः स्मरन् ।शर्करा-क्षौद्र-संयुक्तं चूर्णं ताप्य-सुवर्णयोः ॥५६॥३५.५६ सूत्र-स्थान-विधिं स्मरन् लेहः प्रशमयन्त्य् उग्रं सर्व-योग-कृतं विषम् ।मूर्वामृता-नत-कणा-पटोली-चव्य-चित्रकान् ॥५७॥वचा-मुस्त-विडङ्गानि तक्र-कोष्णाम्बु-मस्तुभिः ।पिबेरसेन वाम्लेन गरोपहत-पावकः ॥५८॥३५.५८ पिबेरसेन चाम्लेन पारावतामिष-शठी-पुष्कराह्व-शृतं हिमम् ।गर-तृष्णा-रुजा-कास-श्वास-हिध्मा-ज्वरापहम् ॥५९॥३५.५९ -पुष्कराह्वं शृतं हिमम् त्र्य्-ऊषणं पञ्च-लवणं मञ्जिष्ठां रजनी-द्वयम् ।सूक्ष्मैलां त्रिवृतां पत्त्रं विडङ्गानीन्द्रवारुणीम् ॥५९-१॥मधुकं चेति स-क्षौद्रं गो-विषाणे निधापयेत् ।तस्माउष्णाम्बुना मात्रां प्राग्-भक्तं योजयेत् तथा ॥५९-२॥विषं भुक्तं जरां याति निर्-विषे ऽपि न दोष-कृत् ।लाक्षा-प्रियङ्गु-मञ्जिष्ठाः स-मृणाल-हरेणुकाः ॥५९-३॥स-यष्ट्य्-आह्वा मधु-युता बस्त-पित्तेन कल्पिताः ।निखनेगो-विषाण-स्थाः सप्त-रात्रं मही-तले ॥५९-४॥तत्र कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् ।संस्पृष्टं स-विषं तेन सद्यो भवति निर्-विषम् ॥५९-५॥विष-प्रकृति-कालान्न-दोष-दूष्यादि-संगमे ।विष-संकटम् उद्दिष्टं शतस्यैको ऽत्र जीवति ॥६०॥क्षुत्-तृष्णा-घर्म-दौर्बल्य-क्रोध-शोक-भय-श्रमैः ।अ-जीर्ण-वर्चो-द्रव-ता-पित्त-मारुत-वृद्धिभिः ॥६१॥तिल-पुष्प-फलाघ्राण-भू-बाष्प-घन-गर्जितैः ।हस्ति-मूषिक-वादित्र-निःस्वनैर् विष-संकटैः ॥६२॥३५.६२ -भू-बाष्प-घन-गर्जनैः पुरो-वातोत्पलामोद-मदनैर् वर्धते विषम् ।वर्षासु चाम्बु-योनि-त्वात् संक्लेदं गुड-वगतम् ॥६३॥३५.६३ वर्षासु वाम्बु-योनि-त्वात् विसर्पति घनापाये तअगस्त्यो हिनस्ति च ।प्रयाति मन्द-वीर्य-त्वं विषं तस्माघनात्यये ॥६४॥इति प्रकृति-सात्म्यर्तु-स्थान-वेग-बला-बलम् ।आलोच्य निपुणं बुद्ध्या कर्मान्-अन्तरम् आचरेत् ॥६५॥श्लैष्मिकं वमनैर् उष्ण-रूक्ष-तीक्ष्णैः प्रलेपनैः ।कषाय-कटु-तिक्तैश् च भोजनैः शमयेविषम् ॥६६॥पैत्तिकं स्रंसनैः सेक-प्रदेहैर् भृश-शीतलैः ।कषाय-तिक्त-मधुरैर् घृत-युक्तैश् च भोजनैः ॥६७॥वातात्मकं जयेत् स्वादु-स्निग्धाम्ल-लवणान्वितैः ।स-घृतैर् भोजनैर् लेपैस् तथैव पिशिताशनैः ॥६८॥३५.६८ -स्निग्धाम्ल-लवणायुतैः ना-घृतं स्रंसनं शस्तं प्रलेपो भोज्यम् औषधम् ।सर्वेषु सर्वावस्थासु विषेषु न घृतोपमम् ॥६९॥विद्यते भेषजं किञ्-चिविशेषात् प्रबले ऽनिले ।अ-यत्नाछ्लेष्म-गं साध्यं यत्नात् पित्ताशयाश्रयम् ॥७०॥३५.७० अ-यत्नाछ्लैष्मिकं साध्यं ३५.७० अ-यत्नाछ्लेष्मकं साध्यं ३५.७० यत्नात् पित्ताशयाश्रितम् सु-दुः-साध्यम् अ-साध्यं वा वाताशय-गतं विषम् ॥७०ऊ̆अ॥जतु-सर्ज-रसोशीर-सर्षपा-पत्त्र-वालकैः ।स-वैल्लारुष्कर-पुरैः कुसुमैर् अर्जुनस्य च ॥७०ऊ̆-१॥३५.७०ऊ̆-१ स-वैल्ल-पुष्कर-पुरैः धूपो वास-गृहे हन्ति विषं स्थावर-जङ्गमम् ।न तत्र कीटाः स-विषा नोन्दुरा न सरीसृपाः ॥७०ऊ̆-२॥न कृत्याः कार्मणाद्याश् च धूपो ऽयं यत्र दह्यते ॥७०ऊ̆-३अ॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP