संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|उत्तरस्थान| अध्याय १ उत्तरस्थान अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० उत्तरस्थान - अध्याय १ आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय १ Translation - भाषांतर जात-मात्रं विशोध्योल्बाबालं सैन्धव-सर्पिषा ।प्रसूति-क्लेशितं चानु बला-तैलेन सेचयेत् ॥१॥अश्मनोर् वादनं चास्य कर्ण-मूले समाचरेत् ।अथास्य दक्षिणे कर्णे मन्त्रम् उच्चारयेइमम् ॥२॥अङ्गाअङ्गात् संभवसि हृदयाअभिजायसे ।आत्मा वै पुत्र-नामासि संजीव शरदां शतम् ॥३॥१.३ संजीव शरदः शतम् शतायुः शत-वर्षो ऽसि दीर्घम् आयुर् अवाप्नुहि ।नक्षत्राणि दिशो रात्रिर् अहश् च त्वाभिरक्षतु ॥४॥१.४ अहश् चत्वारि रक्षतु स्वस्थी-भूतस्य नाभिं च सूत्रेण चतुर्-अङ्गुलात् ।बद्ध्वोर्ध्वं वर्धयित्वा च ग्रीवायाम् अवसञ्जयेत् ॥५॥१.५ बद्ध्वोर्ध्वं वर्धयित्वा तु १.५ ग्रीवायाम् अवसज्जयेत् नाभिं च कुष्ठ-तैलेन सेचयेत् स्नापयेअनु ।क्षीरि-वृक्ष-कषायेण सर्व-गन्धोदकेन वा ॥६॥१.६ नाभिं तु कुष्ठ-तैलेन १.६ सेचयेत् स्नपयेअनु कोष्णेन तप्त-रजत-तपनीय-निमज्जनैः ।ततो दक्षिण-तर्जन्या तालून्नम्यावगुण्ठयेत् ॥७॥शिरसि स्नेह-पिचुना प्राश्यं चास्य प्रयोजयेत् ।हरेणु-मात्रं मेधायुर्-बलार्थम् अभिमन्त्रितम् ॥८॥१.८ प्राशं चास्य प्रयोजयेत् ऐन्द्री-ब्राह्मी-वचा-शङ्खपुष्पी-कल्कं घृतं मधु ।चामीकर-वचा-ब्राह्मी-ताप्य-पथ्या रजी-कृताः ॥९॥१.९ -कुष्ठ-पथ्या रजी-कृताः लिह्यान् मधु-घृतोपेता हेम-धात्री-रजो ऽथ-वा ।गर्भाम्भः सैन्धव-वता सर्पिषा वामयेत् ततः ॥१०॥१.१० गर्भाम्भः सैन्धव-वचा- १.१० -सर्पिषा वामयेत् ततः प्राजापत्येन विधिना जात-कर्माणि कारयेत् ।सिराणां हृदय-स्थानां विवृत-त्वात् प्रसूतितः ॥११॥तृतीये ऽह्नि चतुर्थे वा स्त्रीणां स्तन्यं प्रवर्तते ।प्रथमे दिवसे तस्मात् त्रि-कालं मधु-सर्पिषी ॥१२॥अनन्ता-मिश्रिते मन्त्र-पाविते प्राशयेछिशुम् ।द्वितीये लक्ष्मणा-सिद्धं तृतीये च घृतं ततः ॥१३॥प्राङ्-निषिद्ध-स्तनस्यास्य तत्-पाणि-तल-संमितम् ।स्तन्यानु-पानं द्वौ कालौ नव-नीतं प्रयोजयेत् ॥१४॥मातुर् एव पिबेत् स्तन्यं तध्य् अलं देह-वृद्धये ।स्तन्य-धात्र्याव् उभे कार्ये तद्-अ-संपदि वत्सले ॥१५॥१.१५ तत् परं देह-वृद्धये अ-व्यङ्गे ब्रह्म-चारिण्यौ वर्ण-प्रकृतितः समे ।नी-रुजे मध्य-वयसौ जीवद्-वत्से न लोलुपे ॥१६॥हिताहार-विहारेण यत्नाउपचरेच ते ।शुक्-क्रोध-लङ्घनायासाः स्तन्य-नाशस्य हेतवः ॥१७॥स्तन्यस्य सीधु-वर्ज्यानि मद्यान्य् आनूप-जा रसाः ।क्षीरं क्षीरिण्य ओषध्यः शोकादेश् च विपर्ययः ॥१८॥१.१८ क्षीरं क्षीरिण्य् औषधयः विरुद्धाहार-भुक्तायाः क्षुधिताया वि-चेतसः ।प्रदुष्ट-धातोर् गर्भिण्याः स्तन्यं रोग-करं शिशोः ॥१९॥१.१९ विरुद्धाहार-चेष्टायाः स्तन्या-भावे पयश् छागं गव्यं वा तद्-गुणं पिबेत् ।ह्रस्वेन पञ्च-मूलेन स्थिराभ्यां वा सिता-युतम् ॥२०॥१.२० मूलैः सिद्धं बृहत्य्-आद्यैः षष्ठीं निशां विशेषेण कृत-रक्षा-बलि-क्रियाः ।जागृयुर् बान्धवास् तस्य दधतः परमां मुदम् ॥२१॥दशमे दिवसे पूर्णे विधिभिः स्व-कुलोचितैः ।कारयेत् सूतिकोत्थानं नाम बालस्य चार्चितम् ॥२२॥१.२२ विधि-वत् स्व-कुलोचितैः बिभ्रतो ऽङ्गैर् मनोह्वाल-रोचनागुरु-चन्दनम् ।नक्षत्र-देवता-युक्तं बान्धवं वा समाक्षरम् ॥२३॥ततः प्रकृति-भेदोक्त-रूपैर् आयुः-परीक्षणम् ।प्राग्-उदक्-शिरसः कुर्याबालस्य ज्ञान-वान् भिषक् ॥२४॥शुचि-धौतोपधानानि निर्-वलीनि मृदूनि च ।शय्यास्तरण-वासांसि रक्षो-घ्नैर् धूपितानि च ॥२५॥काको विशस्तः शस्तश् च धूपने त्रिवृतान्वितः ।जीवत्-खड्गादि-शृङ्गोत्थान् सदा बालः शुभान् मणीन् ॥२६॥१.२६ कङ्को विशस्तः शस्तश् च १.२६ जीवत्-खड्गादि-शृङ्ग-स्थान् धारयेऔषधीः श्रेष्ठाः ब्राह्म्य्-ऐन्द्री-जीवकादिकाः ।हस्ताभ्यां ग्रीवया मूर्ध्ना विशेषात् सततं वचाम् ॥२७॥१.२७ धारयेचौषधीः श्रेष्ठा १.२७ धारयेऔषधीश् चेष्टा आयुर्-मेधा-स्मृति-स्वास्थ्य-करीं रक्षो-ऽभिरक्षिणीम् ।षट्-सप्ताष्टम-मासेषु नी-रुजस्य शुभे ऽहनि ॥२८॥१.२८ षट्-सप्ताष्टसु मासेषु कर्णौ हिमागमे विध्येधात्र्य्-अङ्क-स्थस्य सान्त्वयन् ।प्राग् दक्षिणं कुमारस्य भिषग् वामं तु योषितः ॥२९॥दक्षिणेन दधत् सूचीं पालीम् अन्येन पाणिना ।मध्यतः कर्ण-पीठस्य किञ्-चिगण्डाश्रयं प्रति ॥३०॥जरायु-मात्र-प्रच्छन्ने रवि-रश्म्य्-अवभासिते ।घृतस्य निश्-चलं सम्यग् अलक्तक-रसाङ्किते ॥३१॥विध्येदैव-कृते च्छिद्रे सकृएवर्जु लाघवात् ।नोर्ध्वं न पार्श्वतो नाधः सिरास् तत्र हि संश्रिताः ॥३२॥कालिका-मर्मरी-रक्तास् तद्-व्यधाराग-रुग्-ज्वराः ।स-शोफ-दाह-संरम्भ-मन्या-स्तम्भापतानकाः ॥३३॥१.३३ तद्-बाधाराग-रुग्-ज्वराः तेषां यथामयं कुर्याविभज्याशु चिकित्सितम् ।स्थाने व्यधान् न रुधिरं न रुग्-रागादि-संभवः ॥३४॥१.३४ स्थान-व्यधान् न रुधिरं स्नेहाक्तं सूच्य्-अनुस्यूतं सूत्रं चानु निधापयेत् ।आम-तैलेन सिञ्चेच बहलां तद्-वआरया ॥३५॥विध्येत् पालीं हित-भुजः संचार्याथ स्थवीयसी ।वर्तिस् त्र्य्-अहात् ततो रूढं वर्धयेत शनैः शनैः ॥३६॥१.३६ संचार्यान्या स्थवीयसी १.३६ वर्तिस् त्र्य्-अहात् ततो रूढां अथैनं जात-दशनं क्रमेणापनयेत् स्तनात् ।पूर्वोक्तं योजयेत् क्षीरम् अन्नं च लघु बृंहणम् ॥३७॥१.३७ जात-दन्तं शिशुं शीते १.३७ क्रम-शो ऽपनयेत् स्तनात् प्रियाल-मज्ज-मधुक-मधु-लाज-सितोपलैः ।अप-स्तनस्य संयोज्यः प्रीणनो मोदकः शिशोः ॥३८॥दीपनो बाल-बिल्वैला-शर्करा-लाज-सक्तुभिः ।संग्राही धातकी-पुष्प-शर्करा-लाज-तर्पणैः ॥३९॥रोगांश् चास्य जयेत् सौम्यैर् भेषजैर् अ-विषादकैः ।अन्य-त्रात्ययिकाव्याधेर् विरेकं सु-तरां त्यजेत् ॥४०॥१.४० भेषजैर् अ-विषादिकैः १.४० भेषजैर् अ-विपादिकैः १.४० भेषजैर् अ-विपादकैः त्रासयेन् ना-विधेयं तं त्रस्तं गृह्णन्ति हि ग्रहाः ।वस्त्र-वातात् पर-स्पर्शात् पालयेल् लङ्घनाच तम् ॥४१॥१.४१ त्रासयेन् ना-विधेयं च १.४१ वस्त्र-पातात् खर-स्पर्शात् १.४१ वस्त्र-पातात् पर-स्पर्शात् १.४१ पालयेल् लङ्घिताच तम् ब्राह्मी-सिद्धार्थक-वचा-शारिवा-कुष्ठ-सैन्धवैः ।स-कणैः साधितं पीतं वाङ्-मेधा-स्मृति-कृघृतम् ॥४२॥आयुष्यं पाप्म-रक्षो-घ्नं भूतोन्माद-निबर्हणम् ।वचेन्दुलेखा-मण्डूकी-शङ्खपुष्पी-शतावरीः ॥४३॥१.४३ वचेन्दुलेखा मण्डूकी १.४३ शङ्खपुष्पी शतावरी ब्रह्मसोमामृता-ब्राह्मीः कल्की-कृत्य पलांशिकाः ।अष्टाङ्गं विपचेत् सर्पिः प्रस्थं क्षीर-चतुर्-गुणम् ॥४४॥१.४४ ब्रह्मसोमांर्ता ब्राह्मी १.४४ कल्की-कृत्य पलांशिकैः १.४४ प्रस्थं क्षीरं चतुर्-गुणम् तत् पीतं धन्यम् आयुष्यं वाङ्-मेधा-स्मृति-बुद्धि-कृत् ।अजा-क्षीराभया-व्योष-पाठोग्रा-शिग्रु-सैन्धवैः ॥४५॥१.४५ वाङ्-मेधा-स्मृति-कृत् परम् १.४५ वाङ्-मेधा-स्मृति-वह्नि-कृत् १.४५ -पाठोग्रा-शक्र-सैन्धवैः सिद्धं सारस्वतं सर्पिर् वाङ्-मेधा-स्मृति-वह्नि-कृत् ।वचामृता-शठी-पथ्या-शङ्खिनी-वेल्ल-नागरैः ॥४६॥१.४६ वाङ्-मेधा-स्मृति-बुद्धि-कृत् १.४६ वचामृता-वरी-पथ्या- अपामार्गेण च घृतं साधितं पूर्व-वगुणैः ।हेम श्वेत-वचा कुष्ठम् अर्कपुष्पी स-काञ्चना ॥४७॥१.४७ हेम श्वेत-वचा कुष्ठं १.४७ शङ्खपुष्पी स-काञ्चना १.४७ शङ्खपुष्पी स-रोचना हेम मत्स्याक्षकः शङ्खः कैडर्यः कनकं वचा ।चत्वार एते पादोक्ताः प्राशा मधु-घृत-प्लुताः ॥४८॥१.४८ हेम मत्स्याक्षकः फञ्जी १.४८ कैडर्यं कनकं वचा १.४८ प्राश्या मधु-घृत-प्लुताः वर्षं लीढा वपुर्-मेधा-बल-वर्ण-कराः शुभाः ।वचा-यष्ट्य्-आह्व-सिन्धूत्थ-पथ्या-नागर-दीप्यकैः ॥४९॥शुध्यते वाग् घविर्-लीढैः स-कुष्ठ-कण-जीरकैः ॥४९ऊ̆अ॥१.४९ऊ̆अव् शुध्यते वाग् घृतालीढैः N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP