संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|उत्तरस्थान| अध्याय २२ उत्तरस्थान अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० उत्तरस्थान - अध्याय २२ आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय २२ Translation - भाषांतर खण्डौष्ठस्य विलिख्यान्तौ स्यूत्वा व्रण-वआचरेत् ।यष्टी-ज्योतिष्मती-लोध्र-श्रावणी-शारिवोत्पलैः ॥१॥पटोल्या काकमाच्या च तैलम् अभ्यञ्जनं पचेत् ।नस्यं च तैलं वात-घ्न-मधुर-स्कन्ध-साधितम् ॥२॥महा-स्नेहेन वातौष्ठे सिद्धेनाक्तः पिचुर् हितः ।देव-धूप-मधूच्छिष्ट-गुग्गुल्व्-अमरदारुभिः ॥३॥यष्ट्य्-आह्व-चूर्ण-युक्तेन तेनैव प्रतिसारणम् ।नाड्य्-ओष्ठं स्वेदयेदुग्ध-सिद्धैर् एरण्ड-पल्लवैः ॥४॥२२.४ यष्ट्य्-आह्व-चूर्ण-युक्तैस् तु २२.४ तैर् एव प्रतिसारणम् खण्डौष्ठ-विहितं नस्यं तस्य मूर्ध्नि च तर्पणम् ।पित्ताभिघात-जाव् ओष्ठौ जलौकोभिर् उपाचरेत् ॥५॥लोध्र-सर्ज-रस-क्षौद्र-मधुकैः प्रतिसारणम् ।गुडूची-यष्टि-पत्तङ्ग-सिद्धम् अभ्यञ्जने घृतम् ॥६॥पित्त-विद्रधि-वचात्र क्रिया शोणित-जे ऽपि च ।इदम् एव नवे कार्यं कर्मौष्ठे तु कफातुरे ॥७॥२२.७ इदम् एव भवेत् कार्यं २२.७ कर्मौष्ठे तु कफोत्तरे पाठा-क्षार-मधु-व्योषैर् हृतास्रे प्रतिसारणम् ।धूम-नावन-गण्डूषाः प्रयोज्याश् च कफ-च्छिदः ॥८॥स्विन्नं भिन्नं वि-मेदस्कं दहेन् मेदो-जम् अग्निना ।प्रियङ्गु-लोध्र-त्रि-फला-माक्षिकैः प्रतिसारयेत् ॥९॥स-क्षौद्रा घर्षणं तीक्ष्णा भिन्न-शुद्धे जलार्बुदे ।अवगाढे ऽति-वृद्धे वा क्षारो ऽग्निर् वा प्रतिक्रिया ॥१०॥२२.१० स-क्षौद्रैर् घर्षणं तीक्ष्णैर् २२.१० क्षारो वह्निः प्रतिक्रिया आमाद्य्-अवस्थास्व् अलजीं गण्डे शोफ-वआचरेत् ।स्विन्नस्य शीत-दन्तस्य पालीं विलिखितां दहेत् ॥११॥तैलेन प्रतिसार्या च स-क्षौद्र-घन-सैन्धवैः ।दाडिम-त्वग्-वरा-तार्क्ष्य-कान्ता-जम्ब्व्-अस्थि-नागरैः ॥१२॥कवडः क्षीरिणां क्वाथैर् अणु-तैलं च नावनम् ।दन्त-हर्षे तथा भेदे सर्वा वात-हरा क्रिया ॥१३॥२२.१३ दन्त-भेदे तथा हर्षे २२.१३ सर्वा वात-हराः क्रियाः तिल-यष्टीमधु-शृतं क्षीरं गण्डूष-धारणम् ।स-स्नेहं दश-मूलाम्बु गण्डूषः प्रचलद्-द्वि-जे ॥१४॥२२.१४ स-स्नेह-दश-मूलाम्बु- २२.१४ -गण्डूषाः प्रचले द्वि-जे तुत्थ-लोध्र-कणा-श्रेष्ठा-पत्तङ्ग-पटु-घर्षणम् ।स्निग्धाः शील्या यथावस्थं नस्यान्न-कवडादयः ॥१५॥२२.१५ गण्डूष-कवडादयः अधि-दन्तकम् आलिप्तं यदा क्षारेण जर्जरम् ।कृमि-दन्तम् इवोत्पाट्य तद्-वचोपचरेत् तदा ॥१६॥अन्-अवस्थित-रक्ते च दग्धे व्रण इव क्रिया ।अ-हिंसन् दन्त-मूलानि दन्तेभ्यः शर्करां हरेत् ॥१७॥क्षार-चूर्णैर् मधु-युतैस् ततश् च प्रतिसारयेत् ।कपालिकायाम् अप्य् एवं हर्षोक्तं च समाचरेत् ॥१८॥जयेविस्रावणैः स्विन्नम् अ-चलं कृमि-दन्तकम् ।स्निग्धैश् चालेप-गण्डूष-नस्याहारैश् चलापहैः ॥१९॥२२.१९ अ-बलं कृमि-दन्तकम् गुडेन पूर्णं सुषिरं मधूच्छिष्टेन वा दहेत् ।सप्तच्छदार्क-क्षीराभ्यां पूरणं कृमि-शूल-जित् ॥२०॥हिङ्गु-कट्फल-कासीस-स्वर्जिका-कुष्ठ-वेल्ल-जम् ।रजो रुजं जयत्य् आशु वस्त्र-स्थं दशने घृतम् ॥२१॥२२.२१ वस्त्र-स्थं दशनैर् घृतम् अलक्तकं वा सिन्धूत्थं वेल्ल-धूमं स-हिङ्गु वा ।धान्याम्ल-सिद्धं शेवालं कोष्णं वा दशन-स्थितम् ॥२१-१॥२२.२१-१ वेश्म-धूमं स-हिङ्गु वा वराहकर्णी-मूलं वा शरपुङ्खा-जटाथ-वा ।वर्तिर् वावल्गुज-फलैर् बीजपूर-जटान्वितैः ॥२१-२॥गण्डूषं ग्राहयेत् तैलम् एभिर् एव च साधितम् ।क्वाथैर् वा युक्तम् एरण्ड-द्वि-व्याघ्री-भूकदम्ब-जैः ॥२२॥२२.२२ गण्डूषं धारयेत् तैलम् २२.२२ -व्याघ्री-भूर्ज-कदम्बकैः क्रिया-योगैर् बहु-विधैर् इत्य् अ-शान्त-रुजं भृशम् ।दृढम् अप्य् उद्धरेदन्तं पूर्वं मूलाविमोक्षितम् ॥२३॥संदंशकेन लघुना दन्त-निर्घातनेन वा ।तैलं स-यष्ट्य्-आह्व-रजो गण्डूषो मधु वा ततः ॥२४॥२२.२४ गण्डूषो मधुना ततः ततो विदारि-यष्ट्य्-आह्व-शृङ्गाटक-कसेरुभिः ।तैलं दश-गुण-क्षीरं सिद्धं युञ्जीत नावनम् ॥२५॥कृश-दुर्-बल-वृद्धानां वातार्तानां च नोद्धरेत् ।नोद्धरेचोत्तरं दन्तं बहूपद्रव-कृधि सः ॥२६॥एषाम् अप्य् उद्धृतौ स्निग्ध-स्वादु-शीत-क्रमो हितः ।विस्रावितास्रे शीतादे स-क्षौद्रैः प्रतिसारणम् ॥२७॥२२.२७ एषाम् अप्य् उद्धृतैः स्निग्ध- मुस्तार्जुन-त्वक्-त्रि-फला-फलिनी-तार्क्ष्य-नागरैः ।तत्-क्वाथः कवडो नस्यं तैलं मधुर-साधितम् ॥२८॥दन्त-मांसान्य् उप-कुशे स्विन्नान्य् उष्णाम्बु-धारणैः ।मण्डलाग्रेण शाकादि-पत्त्रैर् वा बहु-शो लिखेत् ॥२९॥ततश् च प्रतिसार्याणि घृत-मण्ड-मधु-द्रुतैः ।लाक्षा-प्रियङ्गु-पत्तङ्ग-लवणोत्तम-गैरिकैः ॥३०॥२२.३० घृत-मण्ड-मधु-प्लुतैः स-कुष्ठ-शुण्ठी-मरिच-यष्टीमधु-रसाञ्जनैः ।सुखोष्णो घृत-मण्डो ऽनु तैलं वा कवड-ग्रहः ॥३१॥२२.३१ तैलं वा कवड-ग्रहे घृतं च मधुरैः सिद्धं हितं कवड-नस्ययोः ।दन्त-पुप्पुटके स्विन्न-च्छिन्न-भिन्न-विलेखिते ॥३२॥२२.३२ घृतं वा मधुरैः सिद्धं यष्ट्य्-आह्व-स्वर्जिका-शुण्ठी-सैन्धवैः प्रतिसारणम् ।विद्रधौ कटु-तीक्ष्णोष्ण-रूक्षैः कवड-लेपनम् ॥३३॥घर्षणं कटुका-कुष्ठ-वृश्चिकाली-यवोद्भवैः ।रक्षेत् पाकं हिमैः पक्वः पाट्यो दाह्यो ऽवगाढकः ॥३४॥सुषिरे छिन्न-लिखिते स-क्षौद्रैः प्रतिसारणम् ।लोध्र-मुस्त-मिशि-श्रेष्ठा-तार्क्ष्य-पत्तङ्ग-किंशुकैः ॥३५॥२२.३५ सौषिरे छिन्न-लिखिते स-कट्फलैः कषायैश् च तेषां गण्डूष इष्यते ।यष्टी-लोध्रोत्पलानन्ता-शारिवागुरु-चन्दनैः ॥३६॥२२.३६ स-कट्फलैः कषायश् च स-गैरिक-सिता-पुण्ड्रैः सिद्धं तैलं च नावनम् ।छित्त्वाधि-मांसकं चूर्णैः स-क्षौद्रैः प्रतिसारयेत् ॥३७॥वचा-तेजोवती-पाठा-स्वर्जिका-यव-शूक-जैः ।पटोल-निम्ब-त्रि-फला-कषायः कवडो हितः ॥३८॥२२.३८ -स्वर्जिका-याव-शूक-जैः विदर्भे दन्त-मूलानि मण्डलाग्रेण शोधयेत् ।क्षारं युञ्ज्यात् ततो नस्यं गण्डूषादि च शीतलम् ॥३९॥संशोध्योभयतः कायं शिरश् चोपचरेत् ततः ।नाडीं दन्तानुगां दन्तं समुद्धृत्याग्निना दहेत् ॥४०॥कुब्जां नैक-गतिं पूर्णां गुडेन मदनेन वा ।धावनं जाति-मदन-खदिर-स्वादुकण्टकैः ॥४१॥२२.४१ न्युब्जां नैक-गतिं पूर्णां २२.४१ गुडेन मधुनाथ-वा क्षीरि-वृक्षाम्बु-गण्डूषो नस्यं तैलं च तत्-कृतम् ।कुर्यावातौष्ठ-कोपोक्तं कण्टकेष्व् अनिलात्मसु ॥४२॥जिह्वायां पित्त-जातेषु घृष्टेषु रुधिरे स्रुते ।प्रतिसारण-गण्डूष-नावनं मधुरैर् हितम् ॥४३॥तीक्ष्णैः कफोत्थेष्व् एवं च सर्षप-त्र्य्-ऊषणादिभिः ।नवे जिह्वालसे ऽप्य् एवं तं तु शस्त्रेण न स्पृशेत् ॥४४॥२२.४४ तीक्ष्णैः कफोत्थेष्व् अप्य् एवं २२.४४ तीक्ष्णैः कफोत्थेष्व् एवं तु उन्नम्य जिह्वाम् आकृष्टां बडिशेनाधि-जिह्विकाम् ।छेदयेन् मण्डलाग्रेण तीक्ष्णोष्णैर् घर्षणादि च ॥४५॥उप-जिह्वां परिस्राव्य यव-क्षारेण घर्षयेत् ।कफ-घ्नैः शुण्डिका साध्या नस्य-गण्डूष-घर्षणैः ॥४६॥एर्वारु-बीज-प्रतिमं वृद्धायाम् अ-सिरा-ततम् ।अग्रं निविष्टं जिह्वाया बडीशाद्य्-अवलम्बितम् ॥४७॥२२.४७ अग्रं निविष्टं जिह्वायां २२.४७ अग्रे निविष्टं जिह्वाया छेदयेन् मण्डलाग्रेण नात्य्-अग्रे न च मूलतः ।छेदे ऽत्य् असृक्-क्षयान् मृत्युर् हीने व्याधिर् विवर्धते ॥४८॥२२.४८ नात्य्-अग्रे नाति-मूलतः मरिचातिविषा-पाठा-वचा-कुष्ठ-कुटन्नटैः ।छिन्नायां स-पटु-क्षौद्रैर् घर्षणं कवडः पुनः ॥४९॥कटुकातिविषा-पाठा-निम्ब-रास्ना-वचाम्बुभिः ।संघाते पुप्पुटे कूर्मे विलिख्यैवं समाचरेत् ॥५०॥अ-पक्वे तालु-पाके तु कासीस-क्षौद्र-तार्क्ष्य-जैः ।घर्षणं कवडः शीत-कषाय-मधुरौषधैः ॥५१॥२२.५१ घर्षणं कवडः शीतः २२.५१ कषाय-मधुरौषधैः पक्वे ऽष्टा-पद-वभिन्ने तीक्ष्णोष्णैः प्रतिसारणम् ।वृष-निम्ब-पटोलाद्यैस् तिक्तैः कवड-धारणम् ॥५२॥तालु-शोषे त्व् अ-तृष्णस्य सर्पिर् उत्तर-भक्तिकम् ।कणा-शुण्ठी-शृतं पानम् अम्लैर् गण्डूष-धारणम् ॥५३॥२२.५३ तालु-शोषे तृषार्तस्य धन्व-मांस-रसाः स्निग्धाः क्षीर-सर्पिश् च नावनम् ।कण्ठ-रोगेष्व् असृङ्-मोक्षस् तीक्ष्णैर् नस्यादि कर्म च ॥५४॥क्वाथः पानं च दार्वी-त्वङ्-निम्ब-तार्क्ष्य-कलिङ्ग-जः ।हरीतकी-कषायो वा पेयो माक्षिक-संयुतः ॥५५॥श्रेष्ठा-व्योष-यव-क्षार-दार्वी-द्वीपि-रसाञ्जनैः ।स-पाठा-तेजिनी-निम्बैः शुक्त-गो-मूत्र-साधितैः ॥५६॥कवडो गुटिका वात्र कल्पिता प्रतिसारणम् ।निचुलं कटभी मुस्तं देवदारु महौषधम् ॥५७॥२२.५७ कवडो गुटिका चात्र २२.५७ निचुलं कटभी मुस्ता वचा दन्ती च मूर्वा च लेपः कोष्णो ऽर्ति-शोफ-हा ।अथान्तर्-बाह्यतः स्विन्नां वात-रोहिणिकां लिखेत् ॥५८॥अङ्गुली-शस्त्रकेणाशु पटु-युक्त-नखेन वा ।पञ्च-मूलाम्बु कवडस् तैलं गण्डूष-नावनम् ॥५९॥विस्राव्य पित्त-संभूतां सिता-क्षौद्र-प्रियङ्गुभिः ।घर्षेत् स-लोध्र-पत्तङ्गैः कवडः क्वथितैश् च तैः ॥६०॥द्राक्षा-परूषक-क्वाथो हितश् च कवड-ग्रहे ।उपाचरेएवम् एव प्रत्याख्यायास्र-संभवाम् ॥६१॥सागार-धूमैः कटुकैः कफ-जां प्रतिसारयेत् ।नस्य-गण्डूषयोस् तैलं साधितं च प्रशस्यते ॥६२॥अपामार्ग-फल-श्वेता-दन्ती-जन्तुघ्न-सैन्धवैः ।तद्-वच वृन्द-शालूक-तुण्डिकेरी-गिलायुषु ॥६३॥२२.६३ -तुण्डिकेरी-गलायुषु विद्रधौ स्राविते श्रेष्ठा-रोचना-तार्क्ष्य-गैरिकैः ।स-लोध्र-पटु-पत्तङ्ग-कणैर् गण्डूष-घर्षणे ॥६४॥२२.६४ -कणैर् गण्डूष-धारणम् २२.६४ -कणैर् गण्डूष-घर्षणम् गल-गण्डः पवन-जः स्विन्नो निःस्रुत-शोणितः ।तिलैर् बीजैश् च लट्वोमा-प्रियाल-शण-संभवैः ॥६५॥२२.६५ स्विन्नो विस्रुत-शोणितः उपनाह्यो व्रणे रूढे प्रलेप्यश् च पुनः पुनः ।शिग्रु-तिल्वक-तर्कारी-गज-कृष्णा-पुनर्नवैः ॥६६॥कालामृतार्क-मूलैश् च पुष्पैश् च करहाट-जैः ।एकैषीकान्वितैः पिष्टैः सुरया काञ्जिकेन वा ॥६७॥२२.६७ ताल-मूलार्क-मूलैश् च २२.६७ पुष्पैश् च करघाट-जैः गुडूची-निम्ब-कुटज-हंसपदी-बला-द्वयैः ।साधितं पाययेत् तैलं स-कृष्णा-देवदारुभिः ॥६८॥कर्तव्यं कफ-जे ऽप्य् एतत् स्वेद-विम्लापने त्व् अति ।लेपो ऽजगन्धातिविषा-विशल्याः स-विषाणिकाः ॥६९॥गुञ्जालाबु-शुकाह्वाश् च पलाश-क्षार-कल्किताः ।मूत्र-स्रुतं हठ-क्षारं पक्त्वा कोद्रव-भुक् पिबेत् ॥७०॥२२.७० मूत्र-शृतं यव-क्षारं २२.७० मूत्र-स्रुतं यव-क्षारं २२.७० सूत्र-स्रुतं यव-क्षारं साधितं वत्सकाद्यैर् वा तैलं स-पटु-पञ्चकैः ।कफ-घ्नान् धूम-वमन-नावनादींश् च शीलयेत् ॥७१॥२२.७१ कफ-घ्नान् धूम-गण्डूषान् २२.७१ वमनादींश् च शीलयेत् मेदो-भवे सिरां विध्येत् कफ-घ्नं च विधिं भजेत् ।असनादि-रजश् चैनं प्रातर् मूत्रेण पाययेत् ॥७२॥अ-शान्तौ पाचयित्वा च सर्वान् व्रण-वआचरेत् ।मुख-पाकेषु स-क्षौद्रा प्रयोज्या मुख-धावनाः ॥७३॥२२.७३ अ-शान्तौ पाटयित्वा च २२.७३ प्रयोज्या मुख-पावनाः क्वथितास् त्रि-फला-पाठा-मृद्वीका-जाति-पल्लवाः ।निष्ठेव्या भक्षयित्वा वा कुठेरादिर् गणो ऽथ-वा ॥७४॥२२.७४ निघृष्टव्या भक्षयित्वा मुख-पाके ऽनिलात् कृष्णा-पट्व्-एलाः प्रतिसारणम् ।तैलं वात-हरैः सिद्धं हितं कवड-नस्ययोः ॥७५॥पित्तास्रे पित्त-रक्त-घ्नः कफ-घ्नश् च कफे विधिः ।लिखेछाकादि-पत्त्रैश् च पिटिकाः कठिनाः स्थिराः ॥७६॥२२.७६ पित्तास्रे रक्त-पित्त-घ्नः यथा-दोषोदयं कुर्यात् संनिपाते चिकित्सितम् ।नवे ऽर्बुदे त्व् अ-संवृद्धे छेदिते प्रतिसारणम् ॥७७॥स्वर्जिका-नागर-क्षौद्रैः क्वाथो गण्डूष इष्यते ।गुडूची-निम्ब-कल्कोत्थो मधु-तैल-समन्वितः ॥७८॥यवान्न-भुक् तीक्ष्ण-तैल-नस्याभ्यङ्गांस् तथाचरेत् ।वमिते पूति-वदने धूमस् तीक्ष्णः स-नावनः ॥७९॥समङ्गा-धातकी-लोध्र-फलिनी-पद्मकैर् जलम् ।धावनं वदनस्यान्तश् चूर्णितैर् अवचूर्णितम् ॥८०॥२२.८० चूर्णितैर् अवचूर्णनम् शीतादोप-कुशोक्तं च नावनादि च शीलयेत् ॥८१अ॥फल-त्रय-द्वीपि-किराततिक्त-यष्ट्य्-आह्व-सिद्धार्थ-कटु-त्रिकाणि ॥८१च्॥मुस्ता-हरिद्रा-द्वय-याव-शूक-वृक्षाम्लकाम्लाग्रिम-वेतसाश् च ॥८१एf ॥अश्वत्थ-जम्ब्व्-आम्र-धनञ्जय-त्वक् त्वक् चाहिमारात् खदिरस्य सारः ।क्वाथेन तेषां घन-तां गतेन तच्-चूर्ण-युक्ता गुटिका विधेयाः ॥८२॥ता धारिता घ्नन्ति मुखेन नित्यं कण्ठौष्ठ-ताल्व्-आदि-गदान् सु-कृच्छ्रान् ।विशेषतो रोहिणिकास्य-शोष-गन्धान् विदेहाधिपति-प्रणीताः ॥८३॥खदिर-तुलाम् अम्बु-घटे पक्त्वा तोयेन तेन पिष्टैश् च ।चन्दन-जोङ्गक-कुङ्कुम-परिपेलव-वालकोशीरैः ॥८४॥सुरतरु-लोध्र-द्राक्षा-मञ्जिष्ठा-चोच-पद्मक-विडङ्गैः ।स्पृक्का-नत-नख-कट्फल-सूक्ष्मैला-ध्यामकैः स-पत्तङ्गैः ॥८५॥तैल-प्रस्थं विपचेत् कर्षांशैः पान-नस्य-गण्डूषैस् तत् ।हत्वास्ये सर्व-गदान् जनयति गार्ध्रीं दृशं श्रुतिं च वाराहीम् ॥८६॥२२.८६ कर्षांशैः पान-नस्य-गण्डूषैः २२.८६ हन्त्य् आस्ये सर्व-गदान् उद्वर्तितं च प्रपुनाट-लोध्र-दार्वीभिर् अभ्यक्तम् अनेन वक्त्रम् ।निर्-व्यङ्ग-नीली-मुख-दूषिकादि संजायते चन्द्र-समान-कान्ति ॥८७॥२२.८७ निर्-व्यङ्ग-नीली-मुख-दूषिकं च पल-शतं बाणात् तोय-घटे पक्त्वा रसे ऽस्मिंश् च पलार्धिकैः ।खदिर-जम्बू-यष्ट्यानन्ताम्रैर् अहिमार-नीलोत्पलान्वितैः ॥८८॥२२.८८ खदिर-जम्बू-यष्ट्यानन्ता-लोध्रैर् तैल-प्रस्थं पाचयेछ्लक्ष्ण-पिष्टैर् एभिर् द्रव्यैर् धारितं तन् मुखेन ।रोगान् सर्वान् हन्ति वक्त्रे विशेषात् स्थैर्यं धत्ते दन्त-पङ्क्तेश् चलायाः ॥८९॥२२.८९ तैल-प्रस्थं पाचयेत् सूक्ष्म-पिष्टैर् २२.८९ एभिर् द्रव्यैर् धारितं तत् सुखेन खदिर-साराद्वे तुले पचेवल्कात् तुलां चारिमेदसः ।घट-चतुष्के पाद-शेषे ऽस्मिन् पूते पुनः क्वथनाघने ॥९०॥२२.९० खदिर-साराद्वे तुले विपचे२२.९० वल्क-तुलां चारिमेदसः २२.९० वल्कल-तुलां चारिमेदसः २२.९० वल्कल-तुलां चारिमेदतः २२.९० ऽस्मिन् पूते पुनः क्वाथनाघने २२.९० ऽस्मिन् पूते पुनः क्वाथयेघने आक्षिकं क्षिपेत् सु-सूक्ष्मं रजः सेव्याम्बु-पत्तङ्ग-गैरिकम् ।चन्दन-द्वय-लोध्र-पुण्ड्राह्व-यष्ट्य्-आह्व-लाक्षाञ्जन-द्वयम् ॥९१॥२२.९१ आक्षिकं क्षिपेत् सु-सूक्ष्म-रजः २२.९१ आक्षिकं च क्षिपेत् सूक्ष्म-रजः २२.९१ कार्षिकं क्षिपेत् सु-सूक्ष्म-रजः २२.९१ चन्दन-द्वय-श्यामा-पुण्ड्राह्व- धातकी-कट्फल-द्वि-निशा-त्रि-फला-चतुर्-जात-जोङ्गकम् ।मुस्त-मञ्जिष्ठा-न्यग्रोध-प्ररोह-मांसी-यवासकम् ॥९२॥२२.९२ ंध-प्ररोह-वचा-मांसी-यवासकम् पद्मकैला-समङ्गाश् च शीते तस्मिंस् तथा पालिकां पृथक् ।जातीपत्त्रिकां स-जाति-फलां सह-लवङ्ग-कण्कोल्लकाम् ॥९३॥२२.९३ पद्मकैलेय-समङ्गाश् च २२.९३ शीते तथा पालिकां पृथक् २२.९३ सह-नख-लवङ्ग-कङ्कोल्लकाम् स्फटिक-शुभ्र-सुरभि-कर्पूर-कुडवं च तत्रावपेत् ततः ।कारयेगुटिकाः सदा चैता धार्या मुखे तद्-गदापहाः ॥९४॥२२.९४ कारयेगुटिकाश् चैता २२.९४ कार्याश् चैता गुटिका क्वाथ्यौषध-व्यत्यय-योजनेन तैलं पचेत् कल्पनयानयैव ।सर्वास्य-रोगोद्धृतये तआहुर् दन्त-स्थिर-त्वे त्व् इदम् एव मुख्यम् ॥९५॥२२.९५ क्वाथौषध-व्यत्यय-योजनेन २२.९५ सर्वास्य-रोग-प्रशमार्थम् उक्तं २२.९५ सर्वास्य-रोगे व्ययनं तआहुर् खदिरेणैता गुटिकास् तैलम् इदं चारिमेदसा प्रथितम् ।अनुशीलयन् प्रति-दिनं स्वस्थो ऽपि दृढ-द्वि-जो भवति ॥९६॥२२.९६ वृद्धो ऽपि दृढ-द्वि-जो भवति क्षुद्रा-गुडूची-सुमनः-प्रवाल-दार्वी-यवास-त्रि-फला-कषायः ।क्षौद्रेण युक्तः कवड-ग्रहो ऽयं सर्वामयान् वक्त्र-गतान् निहन्ति ॥९७॥२२.९७ द्राक्षा-गुडूची-सुमनः-प्रवाल- पाठा-दार्वी-त्वक्-कुष्ठ-मुस्ता-समङ्गा-तिक्ता-पीताङ्गी-लोध्र-तेजोवतीनाम् ।चूर्णः स-क्षौद्रो दन्त-मांसार्ति-कण्डू-पाक-स्रावाणां नाशनो घर्षणेन ॥९८॥गृह-धूम-तार्क्ष्य-पाठा-व्योष-क्षाराग्न्य्-अयो-वरा-तेजो-ह्वैः ।मुख-दन्त-गल-विकारे स-क्षौद्रः कालको विधार्यश् चूर्णः ॥९९॥२२.९९ स-क्षौद्रः कालिको विधार्यश् चूर्णः दार्वी-त्वक्-सिन्धूद्भव-मनःशिला-याव-शूक-हरितालैः ।धार्यः पीतक-चूर्णो दन्तास्य-गलामये स-मध्व्-आज्यः ॥१००॥द्वि-क्षार-धूमक-वरा-पञ्च-पटु-व्योष-वेल्ल-गिरि-तार्क्ष्यैः ।गो-मूत्रेण विपक्वा गलामय-घ्नी रस-क्रिया एषा ॥१०१॥२२.१०१ द्वि-क्षार-गृह-धूमक-वरा- २२.१०१ गो-मूत्रेण पिबन् क्वाथं गो-मूत्र-क्वथन-विलीन-विग्रहाणां पथ्यानां जल-मिशि-कुष्ठ-भावितानाम् ।अत्तारं नरम् अणवो ऽपि वक्त्र-रोगाः श्रोतारं नृपम् इव न स्पृशन्त्य् अन्-अर्थाः ॥१०२॥सप्तच्छदोशीर-पटोल-मुस्त-हरीतकी-तिक्तक-रोहिणीभिः ।यष्ट्य्-आह्व-राजद्रुम-चन्दनैश् च क्वाथं पिबेत् पाक-हरं मुखस्य ॥१०३॥पटोल-शुण्ठी-त्रि-फला-विशाला-त्रायन्ति-तिक्ता-द्वि-निशामृतानाम् ।पीतः कषायो मधुना निहन्ति मुखे स्थितश् चास्य-गदान् अ-शेषान् ॥१०४॥२२.१०४ मुखोत्थितांश् चाशु गदान् अ-शेषान् स्व-रसः क्वथितो दार्व्या घनी-भूतः स-गैरिकः ।आस्य-स्थः स-मधुर् वक्त्र-पाक-नाडी-व्रणापहः ॥१०५॥पटोल-निम्ब-यष्ट्य्-आह्व-वासा-जात्य्-अरिमेदसाम् ।खदिरस्य वरायाश् च पृथग् एवं प्रकल्पना ॥१०६॥खदिरायो-वरा-पार्थ-मदयन्त्य्-अहिमारकैः ।गण्डूषो ऽम्बु-शृतैर् धार्यो दुर्-बल-द्वि-ज-शान्तये ॥१०७॥मुख-दन्त-मूल-गल-जाः प्रायो रोगाः कफास्र-भूयिष्ठाः ।तस्मात् तेषाम् अ-सकृरुधिरं विस्रावयेदुष्टम् ॥१०८॥काय-शिरसोर् विरेको वमनं कवड-ग्रहाश् च कटु-तिक्ताः ।प्रायः शस्तं तेषां कफ-रक्त-हरं तथा कर्म ॥१०९॥यव-तृण-धान्यं भक्तं विदलैः क्षारोषितैर् अप-स्नेहाः ।यूषा भक्ष्याश् च हिता यचान्यछ्लेष्म-नाशाय ॥११०॥२२.११० यव-तृण-धान्यं भुक्तं २२.११० विदलैः क्षारोषितैर् अप-स्नेहम् प्राणानिल-पथ-संस्थाः श्वसितम् अपि निरुन्धते प्रमाद-वतः ।कण्ठामयाश् चिकित्सितम् अतो द्रुतं तेषु कुर्वीत ॥१११॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP