संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|उत्तरस्थान| अध्याय २४ उत्तरस्थान अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० उत्तरस्थान - अध्याय २४ आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय २४ Translation - भाषांतर शिरो-ऽभितापे ऽनिल-जे वात-व्याधि-विधिं चरेत् ।घृतम् अक्त-शिरा रात्रौ पिबेउष्ण-पयो-ऽनुपः ॥१॥२४.१ घृतम् अक्त-शिरो रात्रौ २४.१ घृताभ्यक्त-शिरो रात्रौ २४.१ पिबेत् सर्पिः पयो-ऽनुपः माषान् कुलत्थान् मुद्गान् वा तद्-वत् खादेघृतान्वितान् ।तैलं तिलानां कल्कं वा क्षीरेण सह पाययेत् ॥२॥पिण्डोपनाह-स्वेदाश् च मांस-धान्य-कृता हिताः ।वात-घ्न-दश-मूलादि-सिद्ध-क्षीरेण सेचनम् ॥३॥स्निग्धं नस्यं तथा धूमः शिरः-श्रवण-तर्पणम् ।वरणादौ गणे क्षुण्णे क्षीरम् अर्धोदकं पचेत् ॥४॥२४.४ वरुणादौ गणे क्षुण्णे क्षीरावशिष्टं तछीतं मथित्वा सारम् आहरेत् ।ततो मधुरकैः सिद्धं नस्यं तत् पूजितं हविः ॥५॥वर्गे ऽत्र पक्वं क्षीरे च पेयं सर्पिः स-शर्करम् ।कार्पास-मज्जा त्वङ् मुस्ता सुमनः-कोरकाणि च ॥६॥२४.६ तस्मिन् विपक्वं क्षीरे च २४.६ कार्पास-मज्जा त्वङ् मुस्तं २४.६ सुमनः-क्षारकाणि च नस्यम् उष्णाम्बु-पिष्टानि सर्व-मूर्ध-रुजापहम् ।शर्करा-कुङ्कुम-शृतं घृतं पित्तासृग्-अन्वये ॥७॥प्रलेपैः स-घृतैः कुष्ठ-कुटिलोत्पल-चन्दनैः ।वातोद्रेक-भयारक्तं न चास्मिन्न् अवसेचयेत् ॥८॥इत्य् अ-शान्तौ चले दाहः कफे चेष्टो यथोदितः ।अर्धावभेदके ऽप्य् एषा तथा दोषान्वयात् क्रिया ॥९॥२४.९ कफे चोष्णं यथोदितम् २४.९ यथा-दोषान्वया क्रिया २४.९ यथा-दोषान्वये क्रिया शिरीष-बीजापामार्ग-मूलं नस्यं विडान्वितम् ।स्थिरा-रसो वा लेपे तु प्रपुन्नाटो ऽम्ल-कल्कितः ॥१०॥२४.१० स्थिरा-रसो वा लेपो ऽत्र सूर्यावर्ते ऽपि तस्मिंस् तु सिरयापहरेअसृक् ।शिरो-ऽभितापे पित्तोत्थे स्निग्धस्य व्यधयेत् सिराम् ॥११॥२४.११ सूर्यावर्ते तु तस्मिंस् तु शीताः शिरो-मुखालेप-सेक-शोधन-वस्तयः ।जीवनीय-शृते क्षीर-सर्पिषी पान-नस्ययोः ॥१२॥कर्तव्यं रक्त-जे ऽप्य् एतत् प्रत्याख्याय च शङ्खके ।श्लेष्माभितापे जीर्णाज्य-स्नेहितैः कटुकैर् वमेत् ॥१३॥स्वेद-प्रलेप-नस्याद्या रूक्ष-तीक्ष्णोष्ण-भेषजैः ।शस्यन्ते चोपवासो ऽत्र निचये मिश्रम् आचरेत् ॥१४॥२४.१४ शस्यते चोपवासो ऽत्र कृमि-जे शोणितं नस्यं तेन मूर्छन्ति जन्तवः ।मत्ताः शोणित-गन्धेन निर्यान्ति घ्राण-वक्त्रयोः ॥१५॥२४.१५ निर्यान्ति घ्राण-वक्त्रतः सु-तीक्ष्ण-नस्य-धूमाभ्यां कुर्यान् निर्हरणं ततः ।विडङ्ग-स्वर्जिका-दन्ती-हिङ्गु-गो-मूत्र-साधितम् ॥१६॥कटु-निम्बेङ्गुदी-पीलु-तैलं नस्यं पृथक् पृथक् ।अजा-मूत्र-द्रुतं नस्यं कृमिजित् कृमि-जित् परम् ॥१७॥२४.१७ अजा-मूत्र-द्रुतं नस्ये पूति-मत्स्य-युतैः कुर्याधूमं नावन-भेषजैः ।कृमिभिः पीत-रक्त-त्वारक्तम् अत्र न निर्हरे॥१८॥पूति-मत्स्यः कृमीन् हत्वा दुर्-गन्ध-त्वात् तु वात-जे ॥१८.१-१अ॥वाताभिताप-विहितः कम्पे दाहाविना क्रमः ।नवे जन्मोत्तरं जाते योजयेउप-शीर्षके ॥१९॥वात-व्याधि-क्रियां पक्वे कर्म विद्रधि-चोदितम् ।आम-पक्वे यथा-योग्यं विद्रधि-पिटिकार्बुदे ॥२०॥अरूंषिका जलौकोभिर् हृतास्रा निम्ब-वारिणा ।सिक्ता प्रभूत-लवणैर् लिम्पेअश्व-शकृद्-रसैः ॥२१॥पटोल-निम्ब-पत्त्रैर् वा स-हरिद्रैः सु-कल्कितैः ।गो-मूत्र-जीर्ण-पिण्याक-कृकवाकु-मलैर् अपि ॥२२॥कपाल-भृष्टं कुष्ठं वा चूर्णितं तैल-संयुतम् ।रूंषिकालेपनं कण्डू-क्लेद-दाहार्ति-नाशनम् ॥२३॥मालती-चित्रकाश्वघ्न-नक्तमाल-प्रसाधितम् ।चाचारूंषिकयोस् तैलम् अभ्यङ्गः क्षुर-घृष्टयोः ॥२४॥२४.२४ अभ्यङ्गे क्षुर-घृष्टयोः २४.२४ अभ्यङ्गः क्षुर-मृष्टयोः अ-शान्तौ शिरसः शुद्ध्यै यतेत वमनादिभिः ।विध्येत् सिरां दारुणके लालाट्यां शीलयेन् मृजाम् ॥२५॥नावनं मूर्ध-वस्तिं च लेपयेच स-माक्षिकैः ।प्रियाल-बीज-मधुक-कुष्ठ-माषैः स-सर्षपैः ॥२६॥२४.२६ नावनं मूर्ध्नि वस्तिं च लाक्षा-शम्याक-पत्त्रैडगज-धात्री-फलैस् तथा ।कोरदूष-तृण-क्षार-वारि-प्रक्षालनं हितम् ॥२७॥२४.२७ -वारि प्रक्षालने हितम् इन्द्र-लुप्ते यथासन्नं सिरां विद्ध्वा प्रलेपयेत् ।प्रच्छाय गाढं कासीस-मनोह्वा-तुत्थकोषणैः ॥२८॥२४.२८ सिरां विद्ध्वा प्रलेपनम् वन्यामरतरुभ्यां वा गुञ्जा-मूल-फलैस् तथा ।तथा लाङ्गलिका-मूलैः करवीर-रसेन वा ॥२९॥२४.२९ कुटन्नट-मरुभ्यां वा २४.२९ धान्यामरतरुभ्यां वा स-क्षौद्र-क्षुद्र-वार्ताक-स्व-रसेन रसेन वा ।धत्तूरकस्य पत्त्राणां भल्लातक-रसेन वा ॥३०॥२४.३० स-क्षौद्र-क्षुद्र-बृहती- २४.३० भल्लातक-फलेन वा अथ-वा माक्षिक-हविस्-तिल-पुष्प-त्रिकण्टकैः ।तैलाक्ता हस्ति-दन्तस्य मषी चाचौषधं परम् ॥३१॥२४.३१ मषी वाप्य् औषधं परम् २४.३१ मषी वा चौषधं परम् शुक्ल-रोमोद्गमे तद्-वन् मषी मेष-विषाण-जा ।वर्जयेवारिणा सेकं यावरोम-समुद्भवः ॥३२॥२४.३२ यावरोम-समुद्गमः २४.३२ यावरोम-पुनर्-भवः खलतौ पलिते वल्यां हरिद्-रोम्नि च शोधितम् ।नस्य-वक्त्र-शिरो-ऽभ्यङ्ग-प्रदेहैः समुपाचरेत् ॥३३॥सिद्धं तैलं बृहत्य्-आद्यैर् जीवनीयैश् च नावनम् ।मासं वा निम्ब-जं तैलं क्षीर-भुङ् नावयेयतिः ॥३४॥नीली-शिरीष-कोरण्ट-भृङ्ग-स्व-रस-भावितम् ।शेल्व्-अक्ष-तिल-रामाणां बीजं काकाण्डकी-समम् ॥३५॥पिष्ट्वाज-पयसा लोहाल् लिप्ताअर्कांशु-तापितात् ।तैलं स्रुतं क्षीर-भुजो नावनात् पलितान्त-कृत् ॥३६॥२४.३६ पिष्ट्वाज-पयसा लोह- २४.३६ -लिप्ताअर्कांशु-तापितात् क्षीरात् साहचराभृङ्गरजसः सौरसारसात् ।प्रस्थैस् तैलस्य कुडवः सिद्धो यष्टी-पलान्वितः ॥३७॥२४.३७ क्षीरात् सहचराभृङ्गं २४.३७ क्षीरात् साहचराभृङ्ग- २४.३७ ंराजतः सौरसारसात् २४.३७ -रसतः सौरसारसात् नस्यं शैलासने भाण्डे शृङ्गे मेषस्य वा स्थितः ।क्षीरेण श्लक्ष्ण-पिष्टौ वा दुग्धिका-करवीरकौ ॥३८॥२४.३८ नस्यं शिला-मये भाण्डे २४.३८ नस्यं शैलोद्भवे भाण्डे उत्पाट्य पलितं देयाव् आशये पलितापहौ ।क्षीरं प्रियालं यष्ट्य्-आह्वं जीवनीयो गणस् तिलाः ॥३९॥कृष्णाः प्रलेपो वक्त्रस्य हरिद्-रोम-वली-हितः ।तिलाः सामलकाः पद्म-किञ्जल्को मधुकं मधु ॥४०॥२४.४० हरि-लोप-वली-हितः बृंहयेरञ्जयेचैतत् केशान् मूर्ध-प्रलेपनात् ।मांसी कुष्ठं तिलाः कृष्णाः शारिवा नीलम् उत्पलम् ॥४१॥२४.४१ बृंहयेच रजेचैतत् २४.४१ केशान् मूर्ध्नः प्रलेपनात् क्षौद्रं च क्षीर-पिष्टानि केश-संवर्धनम् परम् ।अयो-रजो भृङ्गरजस् त्रि-फला कृष्ण-मृत्तिका ॥४२॥स्थितम् इक्षु-रसे मासं स-मूलं पलितं रजेत् ।माष-कोद्रव-धान्याम्लैर् यवागूंस् त्रि-दिनोषिता ॥४३॥२४.४३ यव-कोद्रव-धान्याम्लैर् लोह-शुक्लोत्कटा पिष्टा बलाकाम् अपि रञ्जयेत् ।प्रपौण्डरीक-मधुक-पिप्पली-चन्दनोत्पलैः ॥४४॥२४.४४ लोह-कुष्ठोत्कटा पिष्टा २४.४४ लोह-शुक्तोत्कटा पिष्टा २४.४४ लोहे शुक्तोत्कटा पिष्टा २४.४४ लौहे शुक्लोत्कटा पिष्टा भृङ्गरजस्-त्रि-फलोत्पल-सारि-लोह-पुरीष-समन्वित-कारि ।तैलम् इदं पच दारुण-हारि लुञ्चित-केश-घन-स्थिर-कारि ॥४४.१-१॥२४.४४.१-१ -लोह-पुरीष-समन्वित-धारि सिद्धं धात्री-रसे तैलं नस्येनाभ्यञ्जनेन च ।सर्वान् मूर्ध-गदान् हन्ति पलितानि च शीलितम् ॥४५॥मधूक-यष्टी-कृमिजिद्-विश्व-भृङ्गैः शृतं हविः ।षड्-बिन्दु-दानात् तन् नस्यं सर्व-मूर्ध-गदापहम् ॥४५-१॥२४.४५-१ षड्-बिन्दु-नाम तन् नस्यं २४.४५-१ षड्-बिन्दु-नाम्ना तन् नस्यं वरी-जीवन्ति-निर्यास-पयोभिर् यमकं पचेत् ।जीवनीयैश् च तन् नस्यं सर्व-जत्रूर्ध्व-रोग-जित् ॥४६॥२४.४६ वरी-जीवन्ति-निर्यासैः २४.४६ -पयोभिर् यघृतं पचेत् २४.४६ स-पयोभिर् घृतं पचेत् मयूरं पक्ष-पित्तान्त्र-पाद-विट्-तुण्ड-वर्जितम् ।दश-मूल-बला-रास्ना-मधुकैस् त्रि-पलैर् युतम् ॥४७॥२४.४७ -शकृत्-पात्-तुण्ड-वर्जितम् २४.४७ -मधुकैस् त्रि-पलैः सहम् जले पक्त्वा घृत-प्रस्थं तस्मिन् क्षीर-समं पचेत् ।कल्कितैर् मधुर-द्रव्यैः सर्व-जत्रूर्ध्व-रोग-जित् ॥४८॥तअभ्यासी-कृतं पान-वस्त्य्-अभ्यञ्जन-नावनैः ।एतेनैव कषायेण घृत-प्रस्थं विपाचयेत् ॥४९॥चतुर्-गुणेन पयसा कल्कैर् एभिश् च कार्षिकैः ।जीवन्ती-त्रि-फला-मेदा-मृद्वीकर्द्धि-परूषकैः ॥५०॥समङ्गा-चविका-भार्गी-काश्मरी-कर्कटाह्वयैः ।आत्मगुप्ता-महामेदा-ताल-खर्जूर-मस्तकैः ॥५१॥२४.५१ -ताल-खर्जूर-मुस्तकैः मृणाल-बिस-खर्जूर-यष्टीमधुक-जीवकैः ।शतावरी-विदारीक्षु-बृहती-शारिवा-युगैः ॥५२॥२४.५२ -बृहती-श्रावणी-युगैः मूर्वा-श्वदंष्ट्रर्षभक-शृङ्गाटक-कसेरुकैः ।रास्ना-स्थिरा-तामलकी-सूक्ष्मैला-शठि-पौष्करैः ॥५३॥२४.५३ दूर्वा-श्वदंष्ट्रषभक- पुनर्नवा-तवक्षीरी-काकोली-धन्वयासकैः ।मधूकाक्षोट-वाताम-मुञ्जाताभिषुकैर् अपि ॥५४॥२४.५४ मधुकाक्षोट-वाताम- महा-मायूरम् इत्य् एतन् मायूराअधिकं गुणैः ।धात्व्-इन्द्रिय-स्वर-भ्रंश-श्वास-कासार्दितापहम् ॥५५॥योन्य्-असृक्-शुक्र-दोषेषु शस्तं वन्ध्या-सुत-प्रदम् ।आखुभिः कुक्कुटैर् हंसैः शशैश् चेति प्रकल्पयेत् ॥५६॥२४.५६ आखुभिः कर्कटैर् हंसैः जत्रूर्ध्व-जानां व्याधीनाम् एक-त्रिंशच्-छत-द्वयम् ।परस्-परम् अ-संकीर्णं विस्तरेण प्रकाशितम् ॥५७॥२४.५७ एक-त्रिंशं शत-द्वयम् ऊर्ध्व-मूलम् अधः-शाखम् ऋषयः पुरुषं विदुः ।मूल-प्रहारिणस् तस्मारोगाञ् छीघ्र-तरं जयेत् ॥५८॥सर्वेन्द्रियाणि येनास्मिन् प्राणा येन च संश्रिताः ।तेन तस्योत्तमाङ्गस्य रक्षायाम् आदृतो भवेत् ॥५९॥नीलोत्पलं सोत्पल-कुष्ठ-युक्तं स-पिप्पलीकं मधुकं शताह्वम् ।स-शृङ्गवेरं शिरसः प्रलेपः सद्यः शिरो-रोग-विनाशनाय ॥५९-१॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP