अर्थशास्त्रम् अध्याय ०७ - भाग १७

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


१७.०१
शमः संधिः समाधिर् इत्य् एको_अर्थः ॥

१७.०२
राज्ञां विश्वास.उपगमः शमः संधिः समाधिर् इति ॥

१७.०३
"सत्यं शपथो वा चलः संधिः, प्रतिभूः प्रतिग्रहो वा स्थावरः" इत्य् आचार्याः ॥

१७.०४
न_इति कौटिल्यः ॥

१७.०५
सत्यं शपथो वा परत्र_इह च स्थावरः संधिः, इह.अर्थ एव प्रतिभूः प्रतिग्रहो वा बल.अपेक्षः ॥

१७.०६
"संहिताः स्मः" इति सत्य.संधाः पूर्वे राजानः सत्येन संदधिरे ॥

१७.०७
तस्य_अतिक्रमे शपथेन अग्न्य्.उदक.सीता.प्राकार.लोष्ट.हस्ति.स्कन्ध.अश्व.पृष्ट.रथ.उपस्थ.शस्त्र.रत्न.बीज.गन्ध.रस.सुवर्ण.हिरण्यान्य् आलेभिरे "हन्युर् एतानि त्यजेयुश् च_एनं यः शपथम् अतिक्रामेत्" इति ॥

१७.०८
शपथ.अतिक्रमे महतां तपस्विनां मुख्यानां वा प्रातिभाव्य.बन्धः प्रतिभूः ॥

१७.०९
तस्मिन् यः पर.अवग्रह.समर्थान् प्रतिभुवो गृह्णाति, सो_अतिसंधत्ते ॥

१७.१०
विपरीतो_अतिसंधीयते ॥

१७.११
बन्धु.मुख्य.प्रग्रहः प्रतिग्रहः ॥

१७.१२
तस्मिन् यो दूष्य.अमात्यं दूष्य.अपत्यं वा ददाति, सो_अतिसंधत्ते ॥

१७.१३
विपरीतो_अतिसंधीयते

१७.१४
प्रतिग्रह.ग्रहण.विश्वस्तस्य हि परश् छिद्रेषु निरपेक्षः प्रहरति ॥

१७.१५
अपत्य.समाधौ तु कन्या.पुत्र.दाने ददत् तु कन्याम् अतिसंधत्ते ॥

१७.१६
कन्या ह्य् अदायादा परेषाम् एव_अर्थाय_आक्लेश्या(?) च ॥

१७.१७
विपरीतः पुत्रः ॥

१७.१८
पुत्रयोर् अपि यो जात्यं प्राज्ञं शूरं कृत.अस्त्रम् एक.पुत्रं वा ददाति सो_अतिसंधीयते ॥

१७.१९
विपरीतो_अतिसंधत्ते ॥

१७.२०
जात्याद् अजात्यो हि लुप्त.दायाद.संतानत्वाद् आधातुं श्रेयान्, प्राज्ञाद् अप्राज्ञो मन्त्र.शक्ति.लोपात्, शूराद् अशूर उत्साह.शक्ति.लोपात्, कृत.अस्त्राद् अकृत.अस्त्रः प्रहर्तव्य.सम्पल्.लोपात्, एक.पुत्राद् अनेक.पुत्रो निरपेक्षत्वात् ॥

१७.२१
जात्य.प्राज्ञयोर् जात्यम् अप्राज्ञम् ऐश्वर्य.प्रकृतिर् अनुवर्तते, प्राज्ञम् अजात्यं मन्त्र.अधिकारः ॥

१७.२२
मन्त्र.अधिकारे_अपि वृद्ध.सम्योगाज् जात्यः प्राज्ञम् अतिसंधत्ते ॥

१७.२३
प्राज्ञ.शूरयोः प्राज्ञम् अशूरं मति.कर्मणां योगो_अनुवर्तते, शूरम् अप्राज्ञं विक्रम.अधिकारः ॥

१७.२४
विक्रम.अधिकारे_अपि हस्तिनम् इव लुब्धकः प्राज्ञः शूरम् अतिसंधत्तेश् ॥

१७.२५
शूर.कृत.अस्त्रयोः शूरम् अकृत.अस्त्रं विक्रम.व्यवसायो_अनुवर्तते, कृत.अस्त्रम् अशूरं लक्ष्य.लम्भ.अधिकारः ॥

१७.२६
लक्ष्य.लम्भ.अधिकारे_अपि स्थैर्य.प्रतिपत्त्य्.असम्मोषैः शूरः कृत.अस्त्रम् अतिसंधत्ते ॥

१७.२७
बह्व्.एक.पुत्रयोर् बहु.पुत्र एकं दत्त्वा शेष.प्रतिष्टब्धः संधिम् अतिक्रामति, न_इतरः ॥

१७.२८
पुत्र.सर्व.स्व.दाने संधिश् चेत् पुत्र.फलतो विशेषः ॥

१७.२९
सम.फलयोः शक्त.प्रजननतो विशेषः ॥

१७.३०
शक्त.प्रजननयोर् अप्य् उपस्थित.प्रजननतो विशेषः ॥

१७.३१
शक्तिमत्य् एक.पुत्रे तु लुप्त.पुत्र.उत्पत्तिर् आत्मानम् आदध्यात्, न च_एक.पुत्रम् इति ॥

१७.३२
अभ्युच्चीयमानः समाधि.मोक्षं कारयेत् ॥

१७.३३
कुमार.आसन्नाः सत्त्रिणः कारु.शिल्पि.व्यञ्जनाः कर्माणि कुर्वाणाः सुरुङ्गया रात्राव् उपखानयित्वा कुमारम् अपहरेयुः ॥

१७.३४
नटनर्तक.गायन.वादक.वाग्.जीवन.कुशीलव.प्लवक.सौभिका वा पूर्व.प्रणिहिताः परम् उपतिष्ठेरन् ॥

१७.३५
ते कुमारं परं.परया_उपतिष्ठेरन् ॥

१७.३६
तेषाम् अनियत.काल.प्रवेश.स्थान.निर्गमनानि स्थापयेत् ॥

१७.३७
ततस् तद्.व्यञ्जनो वा रात्रौ प्रतिष्ठेत ॥

१७.३८
तेन रूप.आजीवा भार्या.व्यञ्जनाश् च व्याख्याताः ॥

१७.३९
तेषां वा तूर्य.भाण्ड.फेलां गृहीत्वा निर्गच्छेत् ॥

१७.४०
सूद.आरालिक.स्नापक.संवाहक.आस्तरक.कल्पक.प्रसाधक.उदक.परिचारकैर् वा द्रव्य.वस्त्र.भाण्ड.फेला.शयन.आसन.सम्भोगैर् निर्ह्रियेत ॥

१७.४१
परिचारकच्.छद्मना वा किंचिद् अरूप.वेलायाम् आदाय निर्गच्छेत्, सुरुङ्गा.मुखेन वा निशा.उपहारेण ॥

१७.४२
तोय.आशये वा वारुणं योगम् आतिष्ठेत् ॥

१७.४३
वैदेहक.व्यञ्जना वा पक्व.अन्न.फल.व्यवहारेण_आरक्षिषु रसम् उपचारयेयुः ॥

१७.४४
दैवत.उपहार.श्राद्ध.प्रहवण.निमित्तम् आरक्षिषु मदन.योग.युक्तम् अन्न.पानं रसं वा प्रयुज्य_अपगच्छेत्, आरक्षक.प्रोत्साहनेन वा ॥

१७.४५
नागरक.कुशीलव.चिकित्सक.आपूपिक.व्यञ्जना वा रात्रौ समृद्ध.गृहाण्य् आदीपयेयुः आरक्षिणां वा ॥

१७.४६
वैदेहक.व्यञ्जना वा पण्य.संस्थाम् आदीपयेयुः ॥

१७.४७
अन्यद् वा शरीरं निक्षिप्य स्व.गृहम् आदीपयेद् अनुपात.भयात् ॥

१७.४८
ततः संधिच्.छेद.खात.सुरुङ्गाभिर् अपगच्छेत् ॥

१७.४९
काच.कुम्भ.भाण्ड.भार.व्यञ्जनो वा रात्रौ प्रतिष्ठेत ॥

१७.५०
मुण्ड.जटिलानां प्रवासनान्य् अनुप्रविष्टो वा रात्रौ तद्.व्यञ्जनः प्रतिष्ठेत, विरूप.व्याधि.करण.अरण्य.चरच्.छद्मनाम् अन्यतमेन वा ॥

१७.५१
प्रेत.व्यञ्जनो वा गूढैर् निर्ह्रियेत ॥

१७.५२
प्रेतं वा स्त्री.वेषेण_अनुगच्छेत् ॥

१७.५३
वन.चर.व्यञ्जनाश् च_एनम् अन्यतो यान्तम् अन्यतो_अपदिशेयुः ॥

१७.५४
ततो_अन्यतो गच्छेत् ॥

१७.५५
चक्र.चराणां वा शकट.वाटैर् अपगच्छेत् ॥

१७.५६
आसन्ने च_अनुपाते सत्त्रं वा गृह्णीयात् ॥

१७.५७
सत्त्र.अभावे हिरण्यं रस.विद्धं वा भक्ष्य.जातम् उभयतः.पन्थानम् उत्सृजेत् ॥

१७.५८
ततो_अन्यतो_अपगच्छेत् ॥

१७.५९
गृहीतो वा साम.आदिभिर् अनुपातम् अतिसंदध्यात्, रस.विद्धेन वा पथ्य्.अदनेन ॥

१७.६०
वारुण.योग.अग्नि.दाहेषु वा शरीरम् अन्यद् आधाय शत्रुम् अभियुञ्जीत "पुत्रो मे त्वया हतः" इति ॥

१७.६१
उपात्तच्.छन्न.शस्त्रो वा रात्रौ विक्रम्य रक्षिषु ॥

१७.६१
शीघ्र.पातैर् अपसरेद् गूढ.प्रणिहितैः सह ॥

(मध्यम.चरितम् - उदासीन.चरितम् - मण्डल.चरितम्)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP