संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ७| भाग ६ अध्याय ७ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ अर्थशास्त्रम् अध्याय ०७ - भाग ६ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ६ Translation - भाषांतर ६.०१विजिगीषुर् द्वितीयां प्रकृतिम् एवम् अतिसंदध्यात् ॥६.०२सामन्तं संहित.प्रयाणे योजयेत् "त्वम् इतो याहि, अहम् इतो यास्यामि, समानो लाभः" इति ॥६.०३लाभ.साम्ये संधिः, वैषम्ये विक्रमः ॥६.०४संधिः परिपणितश् च_अपरिपणितश् च ॥६.०५"त्वम् एतं देशं याहि, अहम् इमं देशं यास्यामि" इति परिपणित.देशः ॥६.०६"त्वम् एतावन्तं कालं चेष्टस्व, अहम् एतावन्तं कालं चेष्टिष्ये" इति परिपणित.कालः ॥६.०७"त्वम् एतावत्.कार्यं साधय, अहम् इदं कार्यं साधयिष्यामि" इति परिपणित.अर्थः ॥६.०८यदि वा मन्येत "शैल.वन.नदी.दुर्गम् अटवी.व्यवहितं छिन्न.धान्य.पुरुष.वीवध.आसारम् अयवस.इन्धन.उदकम् अविज्ञातं प्रकृष्टम् अन्य.भाव.देशीयं वा सैन्य.व्यायामानाम् अलब्ध.भौमं वा देशं परो यास्यति, विपरीतम् अहम्" इत्य् एतस्मिन् विशेषे परिपणित.देशं संधिम् उपेयात् ॥६.०९यदि वा मन्येत "प्रवर्ष.उष्ण.शीतम् अतिव्याधि.प्रायम् उपक्षीण.आहार.उपभोगं सैन्य.व्यायामानां च_औपरोधिकं कार्य.साधनानाम् ऊनम् अतिरिक्तं वा कालं परश् चेष्टिष्यते, विपरीतम् अहम्" इत्य् एतस्मिन् विशेषे परिपणित.कालं संधिम् उपेयात् ॥६.१०यदि वा मन्येत "प्रत्यादेयं प्रकृति.कोपकं दीर्घ.कालं महा.क्षय.व्ययम् अल्पम् अनर्थ.अनुबन्धम् अकल्यम् अधर्म्यं मध्यम.उदासीन.विरुद्धं मित्र.उपघातकं वा कार्यं परः साधयिष्यति, विपरीतम् अहम्" इत्य् एतस्मिन् विशेषे परिपणित.अर्थं संधिम् उपेयात् ॥६.११एवं देश.कालयोः काल.कार्ययोर् देश.कार्ययोर् देश.काल.कार्याणां च_अवस्थापनात् सप्त.विधः परिपणितः ॥६.१२तस्मिन् प्राग् एव_आरभ्य प्रतिष्ठाप्य च स्व.कर्माणि पर.कर्मसु विक्रमेत ॥६.१३व्यसन.त्वर.अवमान.आलस्य.युक्तम् अज्ञं वा शत्रुम् अतिसंधातु.कामो देश.काल.कार्याणाम् अनवस्थापनात् "संहितौ स्वः" इति संधि.विश्वासेन परच्.छिद्रम् आसाद्य प्रहरेद् इत्य् अपरिपणितः ॥६.१४तत्र_एतद् भवति ॥६.१५सामन्तेन_एव सामन्तं विद्वान् आयोज्य विग्रहे ।६.१५ततो_अन्यस्य हरेद् भूमिं छित्त्वा पक्षं समन्ततः ॥६.१६संधेर् अकृत.चिकीर्षा कृत.श्लेषणं कृत.विदूषणम् अवशीर्ण.क्रिया च ॥६.१७विक्रमस्य प्रकाश.युद्धं कूट.युद्धं तूष्णीं.युद्धम् ॥६.१८इति संधि.विक्रमौ ॥६.१९अपूर्वस्य संधेः स.अनुबन्धैः साम.आदिभिः पर्येषणं सम.हीन.ज्यायसां च यथा.बलम् अवस्थापनम् अकृत.चिकीर्षा ॥६.२०कृतस्य प्रिय.हिताभ्याम् उभयतः परिपालनं यथा.सम्भाषितस्य च निबन्धनस्य_अनुवर्तनं रक्षणं च "कथं परस्मान् न भिद्येत" इति कृत.श्लेषणम् ॥६.२१परस्य_अपसंधेयतां दूष्य.अतिसंधानेन स्थापयित्वा व्यतिक्रमः कृत.विदूषणम् ॥६.२२भृत्येन मित्रेण वा दोष.अपसृतेन प्रतिसंधानम् अवशीर्ण.क्रिया ॥६.२३तस्यां गत.आगतश् चतुर्.विधः - कारणाद् गत.आगतो, विपरीतः, कारणाद् गतो_अकारणाद् आगतो, विपरीतश् च_इति ॥६.२४स्वामिनो दोषेण गतो गुणेन_आगतः परस्य गुणेन गतो दोषेण_आगत इति कारणाद् गत.आगतः संधेयः ॥६.२५स्व.दोषेण गत.आगतो गुणम् उभयोः परित्यज्य अकारणाद् गत.आगतः चल.बुद्धिर् असंधेयः ॥६.२६स्वामिनो दोषेण गतः परस्मात् स्व.दोषेण_आगत इति कारणाद् गतो_अकारणाद् आगतः तर्कयितव्यः "पर.प्रयुक्तः स्वेन वा दोषेण_अपकर्तु.कामः, परस्य_उच्छेत्तारम् अमित्रं मे ज्ञात्वा प्रतिघात.भयाद् आगतः, परं वा माम् उच्छेत्तु.कामं परित्यज्य_आनृशंस्याद् आगतः" इति ॥६.२७ज्ञात्वा कल्याण.बुद्धिं पूजयेद्, अन्यथा.बुद्धिम् अपकृष्टं वासयेत् ॥६.२८स्व.दोषेण गतः पर.दोषेण_आगत इत्य् अकारणाद् गतः कारणाद् आगतः तर्कयितव्यः " छिद्रं मे पूरयिष्यति, उचितो_अयम् अस्य वासः, परत्र_अस्य जनो न रमते, मित्रैर् मे संहितः, शत्रुभिर् विगृहीतः, लुब्ध.क्रूराद् आविग्नः शत्रु.संहिताद् वा परस्मात्" इति ॥६.२९ज्ञात्वा यथा.बुद्ध्य् अवस्थापयितव्यः ॥६.३०"कृत.प्रणाशः शक्ति.हानिर् विद्या.पण्यत्वम् आशा.निर्वेदो देश.लौल्यम् अविश्वासो बलवद्.विग्रहो वा परित्याग.स्थानम्" इत्य् आचार्याः ॥६.३१भयम् अवृत्तिर् अमर्ष इति कौटिल्यः ॥६.३२इह_अपकारी त्याज्यः, पर.अपकारी संधेयः, उभय.अपकारी तर्कयितव्य इति समानम् ॥६.३३असंधेयेन त्व् अवश्यं संधातव्ये यतः प्रभावस् ततः प्रतिविदध्यात् ॥६.३४स.उपकारं व्यवहितं गुप्तम् आयुः.क्षयाद् इति ।६.३४वासयेद् अरि.पक्षीयम् अवशीर्ण.क्रिया.विधौ ॥६.३५विक्रमयेद् भर्तरि वा सिद्धं वा दण्ड.चारिणम् ॥६.३५कुर्याद् अमित्र.अटवीषु प्रत्यन्ते वा_अन्यतः क्षिपेत् ॥६.३६पण्यं कुर्याद् असिद्धं वा सिद्धं वा तेन संवृतम् ॥६.३६तस्य_एव दोषेण.अदूष्य पर.संधेय.कारणात् ॥६.३७अथ वा शमयेद् एनम् आयत्य्.अर्थम् उपांशुना ॥६.३७आयत्यां च वध.प्रेप्सुं दृष्ट्वा हन्याद् गत.आगतम् ॥६.३८अरितो_अभ्यागतो दोषः शत्रु.संवास.कारितः ॥६.३८सर्प.संवास.धर्मित्वान् नित्य.उद्वेगेन दूषितः ॥६.३९जायते प्लक्ष.बीज.आशात् कपोताद् इव शाल्मलेः ॥६.३९उद्वेग.जननो नित्यं पश्चाद् अपि भय.आवहः ॥६.४०प्रकाश.युद्धं निर्दिष्टे देशे काले च विक्रमः ॥६.४०विभीषणम् अवस्कन्दः प्रमाद.व्यसन.अर्दनम् ॥६.४१एकत्र त्याग.घातौ च कूट.युद्धस्य मातृका ॥६.४१योग.गूढ.उपजाप.अर्थं तूष्णीं.युद्धस्य लक्षणम् ॥(द्वैधी.भाविकाः संधि.विक्रमाह्) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP