संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ७| भाग १२ अध्याय ७ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ अर्थशास्त्रम् अध्याय ०७ - भाग १२ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १२ Translation - भाषांतर १२.०१"त्वं च_अहं च दुर्गं कारयावहे" इति कर्म.संधिः ॥१२.०२तयोर् यो दैव.कृतम् अविषह्यम् अल्प.व्यय.आरम्भं दुर्गं कारयति सो_अतिसंधत्ते ॥१२.०३तत्र_अपि स्थल.नदी.पर्वत.दुर्गाणाम् उत्तर.उत्तरं श्रेयः ॥१२.०४सेतु.बन्धयोर् अप्य् आहार्य.उदकात् सह.उदकः श्रेयान् ॥१२.०५सह.उदकयोर् अपि प्रभूत.वाप.स्थानः श्रेयान् ॥१२.०६द्रव्य.वनयोर् अपि यो महत्.सारवद्.द्रव्य.अटवीकं विषय.अन्ते नदी.मातृकं द्रव्य.वनं छेदयति सो_अतिसंधत्ते ॥१२.०७नदी.मातृकं हि स्व्.आजीवम् अपाश्रयश् च_आपदि भवति ॥१२.०८हस्ति.वनयोर् अपि यो बहु.शूर.मृगं दुर्बल.प्रतिवेशं.अनन्त.अवक्लेशि विषय.अन्ते हस्ति.वनं बध्नाति सो_अतिसंधत्ते ॥१२.०९तत्र_अपि "बहु.कुण्ठ.अल्प.शूरयोः अल्प.शूरं श्रेयः, शूरेषु हि युद्धम्, अल्पाः शूरा बहून् अशूरान् भञ्जन्ति, ते भग्नाः स्व.सैन्य.अवघातिनो भवन्ति" इत्य् आचार्याः ॥१२.१०न_इति कौटिल्यः ॥१२.११कुण्ठा बहवः श्रेयांसः, स्कन्ध.विनियोगाद् अनेकं कर्म कुर्वाणाः स्वेषाम् अपाश्रयो युद्धे, परेषां दुर्धर्षा विभीषणाश् च ॥१२.१२बहुषु हि कुण्ठेषु विनय.कर्मणा शक्यं शौर्यम् आधातुम्, न त्व् एव_अल्पेषु शूरेषु बहुत्वम् इति ॥१२.१३खन्योर् अपि यः प्रभूत.साराम् अदुर्ग.मार्गाम् अल्प.व्यय.आरम्भां खनिं खानयति, सो_अतिसंधत्ते ॥१२.१४तत्र_अपि महा.सारम् अल्पम् अल्प.सारं वा प्रभूतम् इति "महा.सारम् अल्पं श्रेयः, वज्र.मणि.मुक्ता.प्रवाल.हेम.रूप्य.धातुर् हि प्रभूतम् अल्प.सारम् अत्यर्घेण ग्रसते" इत्य् आचार्याः ॥१२.१५न_इति कौटिल्यः ॥१२.१६चिराद् अल्पो महा.सारस्य क्रेता विद्यते, प्रभूतः सातत्याद् अल्प.सारस्य ॥१२.१७एतेन वणिक्.पथो व्याख्यातः ॥१२.१८तत्र_अपि "वारि.स्थल.पथयोर् वारि.पथः श्रेयान्, अल्प.व्यय.व्यायामः प्रभूत.पण्य.उदयश् च" इत्य् आचार्याः ॥१२.१९न_इति कौटिल्यः ॥१२.२०सम्रुद्ध.गतिर् असार्वकालिकः प्रकृष्ट.भय.योनिर् निष्प्रतीकारश् च वारि.पथः, विपरीतः स्थल.पथः ॥१२.२१वारि.पथे तु कूल.सम्यान.पथयोः कूल.पथः पण्य.पत्तन.बाहुल्यात्_श्रेयान्, नदी.पथो वा, सातत्याद् विषह्य.आबाधत्वाच् च ॥१२.२२स्थल.पथे_अपि "हैमवतो दक्षिणा.पथात्_श्रेयान्, हस्त्य्.अश्व.गन्ध.दन्त.अजिन.रूप्य.सुवर्ण.पण्याः सारवत्तराः" इत्य् आचार्याः" ॥१२.२३न_इति कौटिल्यः ॥१२.२४कम्बल.अजिन.अश्व.पण्य.वर्जाः शङ्ख.वज्र.मणि.मुक्ता.सुवर्ण.पण्याश् च प्रभूततरा दक्षिणा.पथे ॥१२.२५दक्षिणा.पथे_अपि बहु.खनिः सार.पण्यः प्रसिद्ध.गतिर् अल्प.व्यय.व्यायामो वा वणिक्.पथः श्रेयान्, प्रभूत.विषयो वा फल्गु.पुण्यः ॥१२.२६तेन पूर्वः पश्चिमश् च वणिक्.पथो व्याख्यातः ॥१२.२७तत्र_अपि चक्र.पाद.पथयोश् चक्र.पथो विपुल.आरम्भत्वात्_श्रेयान्, देश.काल.सम्भावनो वा खर.उष्ट्र.पथः ॥१२.२८आभ्याम् अंस.पथो व्याख्यातः ॥१२.२९पर.कर्म.उदयो नेतुः क्षयो वृद्धिर् विपर्यये ॥१२.३०तुल्ये कर्म.पथे स्थानं ज्ञेयं स्वं विजिगीषुणा ॥१२.३१अल्प.आगम.अतिव्ययता क्षयो वृद्धिर् विपर्यये ॥१२.३२समाय.व्ययता स्थानं कर्मसु ज्ञेयम् आत्मनः ॥१२.३३तस्माद् अल्प.व्यय.आरम्भं दुर्ग.आदिषु महा.उदयम् ॥१२.३४कर्म लब्ध्वा विशिष्टः स्याद् इत्य् उक्ताः कर्म.संधयः ॥(पार्ष्णि.ग्राह्.चिन्ता) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP