संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ७| भाग ५ अध्याय ७ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ अर्थशास्त्रम् अध्याय ०७ - भाग ५ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ५ Translation - भाषांतर ५.०१तुल्य.सामन्त.व्यसने यातव्यम् अमित्रं वा_इत्य् अमित्रम् अभियायात्, तत्.सिद्धौ यातव्यम् ॥५.०२अमित्र.सिद्धौ हि यातव्यः साहाय्यं दद्यान् न_अमित्रो यातव्य.सिद्धौ ॥५.०३गुरु.व्यसनं यातव्यं लघु.व्यसनम् अमित्रं वा_इति "गुरु.व्यसनं सौकर्यतो यायाद्" इत्य् आचार्याः ॥५.०४न_इति कौटिल्यः ॥५.०५लघु.व्यसनम् अमित्रं यायात् ॥५.०६लघ्व् अपि हि व्यसनम् अभियुक्तस्य कृच्छ्रं भवति ॥५.०७सत्यं गुर्व् अपि गुरुतरं भवति ॥५.०८अनभियुक्तस् तु लघु.व्यसनः सुखेन व्यसनं प्रतिकृत्य_अमित्रो यातव्यम् अभिसरेत्, पार्ष्णिं वा गृह्णीयात् ॥५.०९यातव्य.यौगपद्ये गुरु.व्यसनं न्याय.वृत्तिं लघु.व्यसनम् अन्याय.वृत्तिं विरक्त.प्रकृतिं वा_इति विरक्त.प्रकृतिं यायात् ॥५.१०गुरु.व्यसनं न्याय.वृत्तिम् अभियुक्तं प्रकृतयो_अनुगृह्णन्ति, लघु.व्यसनम् अन्याय.वृत्तिम् उपेक्षन्ते, विरक्ता बलवन्तम् अप्य् उच्छिन्दन्ति ॥५.११तस्माद् विरक्त.प्रकृतिम् एव यायात् ॥५.१२क्षीण.लुब्ध.प्रकृतिम् अपचरित.प्रकृतिं वा_इति क्षीण.लुब्ध.प्रकृतिं यायात्, क्षीण.लुब्धा हि प्रकृतयः सुखेन_उपजापं पीडां वा_उपगच्छन्ति, न_अपचरिताः प्रधान.अवग्रह.साध्याः" इत्य् आचार्याः ॥५.१३न_इति कौटिल्यः ॥५.१४क्षीण.लुब्धा हि प्रकृतयो भर्तरि स्निग्धा भर्तृ.हिते तिष्ठन्ति, उपजापं वा विसंवादयन्ति, अनुरागे सार्वगुण्यम् इति ॥५.१५तस्माद् अपचरित.प्रकृतिम् एव यायात् ॥५.१६बलवन्तम् अन्याय.वृत्तिं दुर्बलं वा न्याय.वृत्तिम् इति बलवन्तम् अन्याय.वृत्तिं यायात् ॥५.१७बलवन्तम् अन्याय.वृत्तिम् अभियुक्तं प्रकृतयो न_अनुगृह्णन्ति, निष्पातयन्ति, अमित्रं वा_अस्य भजन्ते ॥५.१८दुर्बलं तु न्याय.वृत्तिम् अभियुक्तं प्रकृतयः परिगृह्णन्ति, अनुनिष्पतन्ति वा ॥५.१९अवक्षेपेण हि सताम् असतां प्रग्रहेण च ।५.१९अभूतानां च हिंसानाम् अधर्म्याणां प्रवर्तनैः ॥५.२०उचितानां चरित्राणां धर्मिष्ठानां निवर्तनैः ।५.२०अधर्मस्य प्रसङ्गेन धर्मस्य_अवग्रहेण च ॥५.२१अकार्याणां च करणैः कार्याणां च प्रणाशनैः ।५.२१अप्रदानैश् च देयानाम् अदेयानां च साधनैः ॥५.२२अदण्डनैश् च दण्ड्यानाम् अदण्ड्यानां च दण्डनैः ।५.२२अग्राह्याणाम् उपग्राहैर् ग्राह्याणां च_अनभिग्रहैः ॥५.२३अनर्थ्यानां च करणैर् अर्थ्यानां च विघातनैः ।५.२३अरक्षणैश् च चोरेभ्यः स्वयं च परिमोषणैः ॥५.२४पातैः पुरुष.काराणां कर्मणां गुण.दूषणैः ।५.२४उपघातैः प्रधानानां मान्यानां च_अवमाननैः ॥५.२५विरोधनैश् च वृद्धानां वैषम्येण_अनृतेन च ।५.२५कृतस्य_अप्रतिकारेण स्थितस्य_अकरणेन च ॥५.२६राज्ञः प्रमाद.आलस्याभ्यां योग.क्षेम.वधेन वा ।५.२६प्रकृतीनां क्षयो लोभो वैराग्यं च_उपजायते ॥५.२७क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागताम् ।५.२७विरक्ता यान्त्य् अमित्रं वा भर्तारं घ्नन्ति वा स्वयम् ॥५.२८तस्मात् प्रकृतीनां क्षय.लोभ.विराग.कारणानि न_उत्पादयेत्, उत्पन्नानि वा सद्यः प्रतिकुर्वीत ॥५.२९क्षीणा लुब्धा विरक्ता वा प्रकृतय इति ॥५.३०क्षीणाः पीडन.उच्छेदन.भयात् सद्यः संधिं युद्धं निष्पतनं वा रोचयन्ते ॥५.३१लुब्धा लोभेन_असंतुष्टाः पर.उपजापं लिप्सन्ते ॥५.३२विरक्ताः पर.अभियोगम् अभ्युत्तिष्ठन्ते ॥५.३३तासां हिरण्य.धान्य.क्षयः सर्व.उपघाती कृच्छ्र.प्रतीकारश् च, युग्य.पुरुष.क्षयो हिरण्य.धान्य.साध्यः ॥५.३४लोभ ऐकदेशिको मुख्य.आयत्तः पर.अर्थेषु शक्यः प्रतिहन्तुम् आदातुं वा ॥५.३५विरागः प्रधान.अवग्रह.साध्यः ॥५.३६निष्प्रधाना हि प्रकृतयो भोग्या भवन्त्य् अनुपजाप्याश् च_अन्येषाम्, अनापत्.सहास् तु ॥५.३७प्रकृति.मुख्य.प्रग्रहैस् तु बहुधा भिन्ना गुप्ता भवन्त्य् आपत्.सहाश् च ॥५.३८सामवायिकानाम् अपि संधि.विग्रह.कारणान्य् अवेक्ष्य शक्ति.शौच.युक्तैः सम्भूय यायात् ॥५.३९शक्तिमान् हि पार्ष्णि.ग्रहणे यात्रा.साहाय्य.दाने वा शक्तः, शुचिः सिद्धौ च_असिद्धौ च यथा.स्थित.कारी_इति ॥५.४०तेषां ज्यायसा_एकेन द्वाभ्यां समाभ्यां वा सम्भूय यातव्यम् इति द्वाभ्यां समाभ्यां श्रेयः ॥५.४१ज्यायसा ह्य् अवगृहीतश् चरति, समाभ्याम् अतिसंधान.आधिक्ये वा ॥५.४२तौ हि सुखौ भेदयितुम्, दुष्टश् च_एको द्वाभ्यां नियन्तुं भेद.उपग्रहं च_उपगन्तुम् इति ॥५.४३समेन_एकेन द्वाभ्यां हीनाभ्यां वा_इति द्वाभ्यां हीनाभ्यां श्रेयः ॥५.४४तौ हि द्वि.कार्य.साधकौ वश्यौ च भवतः ॥५.४५कार्य.सिद्धौ तु - कृत.अर्थाज् ज्यायसो गूढः स.अपदेशम् अपस्रवेत् ।५.४५अशुचेः शुचि.वृत्तात् तु प्रतीक्षेत_आ विसर्जनात् ॥५.४६सत्त्राद् अपसरेद् यत्तः कलत्रम् अपनीय वा ।५.४६समाद् अपि हि लब्ध.अर्थाद् विश्वस् तस्य भयं भवेत् ॥५.४७ज्यायस्त्वे च_अपि लब्ध.अर्थः समो_अपि परिकल्पते ।५.४७अभ्युच्चितश् च_अविश्वास्यो वृद्धिश् चित्त.विकारिणी ॥५.४८विशिष्टाद् अल्पम् अप्य् अंशं लब्ध्वा तुष्ट.मुखो व्रजेत् ।५.४८अनंशो वा ततो_अस्य_अङ्के प्रहृत्य द्वि.गुणं हरेत् ॥५.४९कृत.अर्थस् तु स्वयं नेता विसृजेत् सामवायिकान् ।५.४९अपि जीयेत न जयेन् मण्डल.इष्टस् तथा भवेत् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP