संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ७| भाग ३ अध्याय ७ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ अर्थशास्त्रम् अध्याय ०७ - भाग ३ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ३ Translation - भाषांतर ३.०१विजिगीषुः शक्त्य्.अपेक्षः षाड्गुण्यम् उपयुञ्जीत ॥३.०२सम.ज्यायोभ्यां संधीयेत, हीनेन विगृह्णीयात् ॥३.०३विगृहीतो हि ज्यायसा हस्तिना पाद.युद्धम् इव_अभ्युपैति ॥३.०४समेन च_आमं पात्रम् आमेन_अहतम् इव_उभयतः क्षयं करोति ॥३.०५कुम्भेन_इव_अश्मा हीनेन_एक.अन्त.सिद्धिम् अवाप्नोति ॥३.०६ज्यायांश् चेन् न संधिम् इच्छेद् दण्ड.उपनत.वृत्तम् आबलीयसं वा योगम् आतिष्ठेत् ॥३.०७समश् चेन् न संधिम् इच्छेद् यावन्.मात्रम् अपकुर्यात् तावन्.मात्रम् अस्य प्रत्यपकुर्यात् ॥३.०८तेजो हि संधान.कारणम् ॥३.०९न_अतप्तं लोहं लोहेन संधत्त इति ॥३.१०हीनश् चेत् सर्वत्र_अनुप्रणतस् तिष्ठेत् संधिम् उपेयात् ॥३.११आरण्यो_अग्निर् इव हि दुःख.अमर्षजं तेजो विक्रमयति ॥३.१२मण्डलस्य च_अनुग्राह्यो भवति ॥३.१३संहितश् चेत् "पर.प्रकृतयो लुब्ध.क्षीण.अपचरिताः प्रत्यादान.भयाद् वा न_उपगच्छन्ति" इति पश्येद्द् हीनो_अपि विगृह्णीयात् ॥३.१४विगृहीतश् चेत् "पर.प्रकृतयो लुब्ध.क्षीण.अपचरिता विग्रह.उद्विग्ना वा मां न_उपगच्छन्ति" इति पश्येज् ज्यायान् अपि संधीयेत, विग्रह.उद्वेगं वा शमयेत् ॥३.१५व्यसन.यौगपद्ये_अपि "गुरु.व्यसनो_अस्मि, लघु.व्यसनः परः सुखेन प्रतिकृत्य व्यसनम् आत्मनो_अभियुञ्ज्याद्" इति पश्येज् ज्यायान् अपि संधीयेत ॥३.१६संधि.विग्रहयोश् चेत् पर.कर्शनम् आत्म.उपचयं वा न_अभिपश्येज् ज्यायान् अप्य् आसीत ॥३.१७पर.व्यसनम् अप्रतिकार्यं चेत् पश्येद्द् हीनो_अप्य् अभियायात् ॥३.१८अप्रतिकार्य.आसन्न.व्यसनो वा ज्यायान् अपि संश्रयेत ॥३.१९संधिना_एकतो विग्रहेण_एकतश् चेत् कार्य.सिद्धिं पश्येज् ज्यायान् अपि द्वैधी.भूतस् तिष्ठेत् ॥३.२०एवं समस्य षाड्गुण्य.उपयोगः ॥३.२१तत्र तु प्रतिविशेषः ॥३.२२प्रवृत्त.चक्रेण_आक्रान्तो राज्ञा बलवता_अबलः ।३.२२संधिना_उपनमेत् तूर्णं कोश.दण्ड.आत्म.भूमिभिः ॥३.२३स्वयं संख्यात.दण्डेन दण्डस्य विभवेन वा ।३.२३उपस्थातव्यम् इत्य् एष संधिर् आत्म.आमिषो मतः ॥३.२४सेना.पति.कुमाराभ्याम् उपस्थातव्यम् इत्य् अयम् ।३.२४पुरुष.अन्तर.संधिः स्यान् न_आत्मना_इत्य् आत्म.रक्षणः ॥३.२५एकेन_अन्यत्र यातव्यं स्वयं दण्डेन वा_इत्य् अयम् ।३.२५अदृष्ट.पुरुषः संधिर् दण्ड.मुख्य.आत्म.रक्षणः ॥३.२६मुख्य.स्त्री.बन्धनं कुर्यात् पूर्वयोः पश्चिमे त्व् अरिम् ।३.२६साधयेद् गूढम् इत्य् एते दण्ड.उपनत.संधयः ॥३.२७कोश.दानेन शेषाणां प्रकृतीनां विमोक्षणम् ।३.२७परिक्रयो भवेत् संधिः स एव च यथा.सुखम् ॥३.२८स्कन्ध.उपनेयो बहुधा ज्ञेयः संधिर् उपग्रहः ।३.२८निरुद्धो देश.कालाभ्याम् अत्ययः स्याद् उपग्रहः ॥३.२९विषह्य.दानाद् आयत्यां क्षमः स्त्री.बन्धनाद् अपि ।३.२९सुवर्ण.संधिर् विश्वासाद् एकी.भाव.गतो भवेत् ॥३.३०विपरीतः कपालः स्याद् अत्यादान.अभिभाषितः ।३.३०पूर्वयोः प्रणयेत् कुप्यं हस्त्य्.अश्वं वा गर.अन्वितम् ॥३.३१तृतीये प्रणयेद् अर्थं कथयन् कर्मणां क्षयम् ।३.३१तिष्ठेच् चतुर्थ इत्य् एते कोश.उपनत.संधयः ॥३.३२भूम्य्.एक.देश.त्यागेन शेष.प्रकृति.रक्षणम् ।३.३२आदिष्ट.संधिस् तत्र_इष्टो गूढ.स्तेन.उपघातिनः ॥३.३३भूमीनाम् आत्त.साराणां मूल.वर्जं प्रणामनम् ।३.३३उच्छिन्न.संधिस् तत्र_इष्टः पर.व्यसन.काङ्क्षिणः ॥३.३४फल.दानेन भूमीनां मोक्षणं स्याद् अवक्रयः ।३.३४फल.अतिमुक्तो भूमिभ्यः संधिः स परिदूषणः ॥३.३५कुर्याद् अवेक्षणं पूर्वौ पश्चिमौ त्व् आबलीयसम् ।३.३५आदाय फलम् इत्य् एते देश.उपनत.संधयः ॥३.३६स्व.कार्याणां वशेन_एते देशे काले च भाषिताः ।३.३६आबलीयसिकाः कार्यास् त्रिविधा हीन.संधयः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP