संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ७| भाग १० अध्याय ७ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ अर्थशास्त्रम् अध्याय ०७ - भाग १० अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १० Translation - भाषांतर १०.०१"त्वं च_अहं च भूमिं लभावहे" इति भूमि.संधिः ॥१०.०२तयोर् यः प्रत्युपस्थित.अर्थः सम्पन्नां भूमिम् अवाप्नोति सो_अतिसंधत्ते ॥१०.०३तुल्ये सम्पन्न.अलाभे यो बलवन्तम् आक्रम्य भूमिम् अवाप्नोति सो_अतिसंधत्ते ॥१०.०४भूमि.लाभं शत्रु.कर्शनं प्रतापं च हि प्राप्नोति ॥१०.०५दुर्बलाद्.भूमि.लाभे सत्यं सौकर्यं भवति ॥१०.०६दुर्बल एव च भूमि.लाभः, तत्.सामन्तश् च मित्रम् अमित्र.भावं गच्छति ॥१०.०७तुल्ये बलीयस्त्वे यः स्थित.शत्रुम् उत्पाट्य भूमिम् अवाप्नोति सो_अतिसंधत्ते ॥१०.०८दुर्ग.अवाप्तिर् हि स्व.भूमि.रक्षणम् अमित्र.अटवी.प्रतिषेधं च करोति ॥१०.०९चल.अमित्राद्.भूमि.लाभे शक्य.सामन्ततो विशेषः ॥१०.१०दुर्बल.सामन्ता हि क्षिप्र.आप्यायन.योग.क्षेमा भवति ॥१०.११विपरीता बलवत् सामन्ता कोश.दण्ड.अवच्छेदनी च भूमिर् भवति ॥१०.१२सम्पन्ना नित्य.अमित्रा मन्द.गुणा वा भूमिर् अनित्य.अमित्रा_इति "सम्पन्ना नित्य.अमित्रा श्रेयसी भूमिः सम्पन्ना हि कोश.दण्डौ सम्पादयति, तौ च_अमित्र.प्रतिघातकौ इत्य् आचार्याः ॥१०.१३न_इति कौटिल्यः ॥१०.१४नित्य.अमित्र.अलाभे भूयान् शत्रु.लाभो भवति ॥१०.१५नित्यश् च शत्रुर् उपकृते च_अपकृते च शत्रुर् एव भवति, अनित्यस् तु शत्रुर् उपकाराद् अनपकाराद् वा शाम्यति ॥१०.१६यस्या हि भूमेर् बहु.दुर्गाश् चोर.गणैर् म्लेच्छ.अटवीभिर् वा नित्य.अविरहिताः प्रत्यन्ताः सा नित्य.अमित्रा, विपर्यये त्व् अनित्य.अमित्रा ॥१०.१७अल्पा प्रत्यासन्ना महती व्यवहिता वा भूमिर् इति अल्पा प्रत्यासन्ना श्रेयसी ॥१०.१८सुखा हि प्राप्तुं पालयितुम् अभिसारयितुं च भवति ॥१०.१९विपरीता व्यवहिता ॥१०.२०व्यवहितयोर् अपि दण्ड.धारणा_आत्म.धारणा वा भूमिर् इति आत्म.धारणा श्रेयसी ॥१०.२१सा हि स्व.समुत्थाभ्यां कोश.दण्डाभ्यां धार्यते ॥१०.२२विपरीता दण्ड.धारणा दण्ड.स्थानम् ॥१०.२३बालिशात् प्राज्ञाद् वा भूमि.लाभ इति बालिशाद्.भूमि.लाभः श्रेयान् ॥१०.२४सुप्राप्या_अनुपाल्या हि भवति, अप्रत्यादेया च ॥१०.२५विपरीता प्राज्ञाद् अनुरक्ता ॥१०.२६पीडनीय.उच्छेदनीययोर् उच्छेदनीयाद् भूमि.लाभः श्रेयान् ॥१०.२७उच्छेदनीयो ह्य् अनपाश्रयो दुर्बल.अपाश्रयो वा_अभियुक्तः कोश.दण्डाव् आदाय_अपसर्तु.कामः प्रकृतिभिस् त्यज्यते, न पीडनीयो दुर्ग.मित्र.प्रतिष्टब्धः ॥१०.२८दुर्ग.प्रतिष्टब्धयोर् अपि स्थल.नदी.दुर्गीयाभ्यां स्थल.दुर्गीयाद् भूमि.लाभः श्रेयान् ॥१०.२९स्थालेयं हि सुरोध.अवमर्द.अवस्कन्दम् अनिह्श्रावि.शत्रु च ॥१०.३०नदी.दुर्गं तु द्वि.गुण.क्लेश.करम्, उदकं च पातव्यं वृत्ति.करं च_अमित्रस्य ॥१०.३१नदी.पर्वत.दुर्गीयाभ्यां नदी.दुर्गीयाद् ब्भूमि.लाभः श्रेयान् ॥१०.३२नदी.दुर्गं हि हस्ति.स्तम्भ.संक्रम.सेतु.बन्ध.नौभिः साध्यम् अनित्य.गाम्भीर्यम् अवस्राव्य् उदकं च ॥१०.३३पार्वतं तु स्व्.आरक्षं दुरुपरोधि कृच्छ्र.आरोहणम्, भग्ने च_एकस्मिन् न सर्व.वधः, शिला.वृक्ष.प्रमोक्षश् च महा.अपकारिणाम् ॥१०.३४निम्न.स्थल.योधिभ्यो निम्न.योधिभ्यो भूमि.लाभः श्रेयान् ॥१०.३५निम्न.योधिनो ह्य् उपरुद्ध.देश.कालाः, स्थल.योधिनस् तु सर्व.देश.काल.योधिनः ॥१०.३६खनक.आकाश.योधिभ्यः खनकेभ्यो भूमि.लाभः श्रेयान् ॥१०.३७खनका हि खातेन शस्त्रेण च_उभयथा युध्यन्ते, शस्त्रेण_एव_आकाश.योधिनः ॥१०.३८एवं.विध्येभ्यः पृथिवीं लभमानो_अर्थ.शास्त्रवित् ।१०.३८संहितेभ्यः परेभ्यश् च विशेषम् अधिगच्छति ॥(मित्र.हिरण्य.भूमि.कर्म.सम्धयह् - तत्र अनवसित.सम्धिह्) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP