संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ७| भाग १६ अध्याय ७ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ अर्थशास्त्रम् अध्याय ०७ - भाग १६ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १६ Translation - भाषांतर १६.०१अनुज्ञात.संधि.पण.उद्वेग.करं बलवान् विजिगीषमाणो यतः स्व.भूमिः स्व.ऋतु.वृत्तिश् च स्व.सैन्यानाम्, अदुर्ग.अपसारः शत्रुर्.अपार्ष्णिर् अनासारश् च, ततो यायात् ॥१६.०२विपर्यये कृत.प्रतीकारो यायात् ॥१६.०३साम.दानाभ्यां दुर्बलान् उपनमयेत्, भेद.दण्डाभ्यां बलवतः ॥१६.०४नियोग.विकल्प.समुच्चयैश् च_उपायानाम् अनन्तर.एक.अन्तराः प्रकृतीः साधयेत् ॥१६.०५ग्राम.अरण्य.उपजीवि.व्रज.वणिक्.पथ.अनुपालनम् उज्झित.अपसृत.अपकारिणां च_अर्पणम् इति सान्त्वम् आचरेत् ॥१६.०६भूमि.द्रव्य.कन्या.दानम् अभयस्य च_इति दानम् आचरेत् ॥१६.०७सामन्त.आटविक.तत्.कुलीन.अपरुद्धानाम् अन्यतम.उपग्रहेण कोश.दण्ड.भूमि.दाय.याचनम् इति भेदम् आचरेत् ॥१६.०८प्रकाश.कूट.तूष्णीं.युद्ध.दुर्ग.लम्भ.उपायैर् अमित्र.प्रग्रहणम् इति दण्डम् आचरेत् ॥१६.०९एवम् उत्साहवतो दण्ड.उपकारिणः स्थापयेत्, स्व.प्रभाववतः कोश.उपकारिणः, प्रज्ञावतो भूम्य्.उपकारिणः ॥१६.१०तेषां पण्य.पत्तन.ग्राम.खनि.संजातेन रत्न.सार.फल्गु.कुप्येन द्रव्य.हस्ति.वन.व्रज.समुत्थेन यान.वाहनेन वा यद् बहुश उपकरोति तच् चित्र.भोगम् ॥१६.११यद् दण्डेन कोशेन वा महद् उपकरोति तन् महा.भोगम् ॥१६.१२यद् दण्ड.कोश.भूमीभिर् उपकरोति तत् सर्व.भोगम् ॥१६.१३यद् अमित्रम् एकतः प्रतिकरोति तद् एकतो.भोगि ॥१६.१४यद् अमित्रम् आसारं च_उभयतः प्रतिकरोति तद् उभयतो.भोगि ॥१६.१५यद् अमित्र.आसार.प्रतिवेश.आटविकान् सर्वतः प्रतिकरोति तत् सर्वतो.भोगि ॥१६.१६पार्ष्णि.ग्राहश् च_आटविकः शत्रु.मुख्यः शत्रुर् वा भूमि.दान.साध्यः कश्चिद् आसाद्येत, निर्गुणया भूम्या_एनम् उपग्राहयेत्, अप्रतिसम्बद्धया दुर्गस्थम्, निरुपजीव्यया_आटविकं - ॥१६.१६प्रत्यादेयया तत्.कुलीनं शत्रोः, अपच्छिन्नया शत्रोर् अपरुद्धं नित्य.अमित्रया श्रेणी.बलम्, बलवत्.सामन्तया संहत.बलम्, उभाभ्यां युद्धे प्रतिलोमम्, - ॥१६.१६अलब्ध.व्यायामया_उत्साहिनम्, शूयया_अरि.पक्षीयम्, कर्शितया_अपवाहितम्, महा.क्षय.व्यय.निवेशया गत.प्रत्यागतम्, अनपाश्रयया प्रत्यपसृतम्, परेण_अनधिवास्यया स्वयम् एव भर्तारम् उपग्राहयेत् ॥१६.१७तेषां महा.उपकारं निर्विकारं च_अनुवर्तयेत् ॥१६.१८प्रतिलोमम् उपांशुना साधयेत् ॥१६.१९उपकारिणम् उपकार.शक्त्या तोषयेत् ॥१६.२०प्रयासतश् च_अर्थ.मानौ कुर्याद्, व्यसनेषु च_अनुग्रहम् ॥१६.२१स्वयं.आगतानां यथा.इष्ट.दर्शनं प्रतिविधानं च कुर्यात् ॥१६.२२परिभव.उपघात.कुत्स.अतिवादांश् च_एषु न प्रयुञ्जीत ॥१६.२३दत्त्वा च_अभयं पिता_इव_अनुगृह्णीयात् ॥१६.२४यश् च_अस्य_अपकुर्यात् तद् दोषम् अभिविख्याप्य प्रकाशम् एनं घातयेत् ॥१६.२५पर.उद्वेग.कारणाद् वा दाण्डकर्मिकवच् चेष्टेत ॥१६.२६न च हतस्य भूमि.द्रव्य.पुत्र.दारान् अभिमन्येत ॥१६.२७कुल्यान् अप्य् अस्य स्वेषु पात्रेषु स्थापयेत् ॥१६.२८कर्मणि मृतस्य पुत्रं राज्ये स्थापयेत् ॥१६.२९एवम् अस्य दण्ड.उपनताः पुत्र.पौत्रान् अनुवर्तन्ते ॥१६.३०यस् तु_उपनतान् हत्वा बद्ध्वा वा भूमि.द्रव्य.पुत्र.दारान् अभिमन्येत तस्य_उद्विग्नं मण्डलम् अभावाय_उत्तिष्ठते ॥१६.३१ये च_अस्य_अमात्याः स्व.भूमिष्व् आयत्तास् ते च_अस्य_उद्विग्ना मण्डलम् आश्रयन्ते ॥१६.३२स्वयं वा राज्यं प्राणान् वा_अस्य_अभिमन्यन्ते ॥१६.३३स्व.भूमिषु च राजानस् तस्मात् साम्ना_अनुपालिताः ।१६.३३भवन्त्य् अनुगुणा राज्ञः पुत्र.पौत्र.अनुवर्तिनः ॥(सम्धि.कर्म -समाधि.मोक्षह्) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP