संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ७| भाग १८ अध्याय ७ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ अर्थशास्त्रम् अध्याय ०७ - भाग १८ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १८ Translation - भाषांतर १८.०१मध्यमस्य_आत्मा तृतीया पञ्चमी च प्रकृती प्रकृतयः ॥१८.०२द्वितीया चतुर्थी षष्ठी च विकृतयः ॥१८.०३तच् चेद् उभयं मध्यमो_अनुगृह्णीयात्, विजिगीषुर् मध्यम.अनुलोमः स्यात् ॥१८.०४न चेद् अनुगृह्णीयात्, प्रकृत्य्.अनुलोमः स्यात् ॥१८.०५मद्यमश् चेद् विजिगीषोर् मित्रं मित्र.भावि लिप्सेत, मित्रस्य_आत्मनश् च मित्राण्य् उत्थाप्य मध्यमाच् च मित्राणि भेदयित्वा मित्रं त्रायेत ॥१८.०६मण्डलं वा प्रोत्साहयेत् "अतिप्रवृद्धो_अयं मध्यमः सर्वेषां नो विनाशाय_अभ्युत्थितः, सम्भूय_अस्य यात्रां विहनाम" इति ॥१८.०७तच् चेन् मण्डलम् अनुगृह्णीयात्, मध्यम.अवग्रहेण_आत्मानम् उपबृंहयेत् ॥१८.०८न चेद् अनुगृह्णीयात्, कोश.दण्डाभ्यां मित्रम् अनुगृह्य ये मध्यम.द्वेषिणो राजानः परस्पर.अनुगृहीता वा बहवस् तिष्ठेयुः, एक.सिद्धौ वा बहवः सिध्येयुः, परस्पराद् वा शङ्किता न_उत्तिष्ठेरन्, तेषां प्रधानम् एकम् आसन्नं वा साम.दानाभ्यां लभेत ॥१८.०९द्वि.गुणो द्वितीयं त्रि.गुनस् तृतीयम् ॥१८.१०एवम् अभ्युच्चितो मध्यमम् अवगृह्णीयात् ॥१८.११देश.काल.अतिपत्तौ वा संधाय मध्यमेन मित्रस्य साचिव्यं कुर्यात्, दूष्येषु वा कर्म.संधिम् ॥१८.१२कर्शनीयं वा_अस्य मित्रं मध्यमो लिप्सेत, प्रतिस्तम्भयेद् एनं "अहं त्वा त्रायेय" इति आ कर्शनात् ॥१८.१३कर्शितम् एनं त्रायेत ॥१८.१४उच्छेदनीयं वा_अस्य मित्रं मध्यमो लिप्सेत, कर्शितम् एनं त्रायेत मध्यम.वृद्धि.भयात् ॥१८.१५उच्छिन्नं वा भूम्य्.अनुग्रहेण हस्ते कुर्याद् अन्यत्र_अपसार.भयात् ॥१८.१६कर्शनीय.उच्छेदनीययोश् चेन् मित्राणि मध्यमस्य साचिव्य.कराणि स्युः, पुरुष.अन्तरेण संधीयेत ॥१८.१७विजिगीषोर् वा तयोर् मित्राण्य् अवग्रह.समर्थानि स्युः, संधिम् उपेयात् ॥१८.१८अमित्रं वा_अस्य मध्यमो लिप्सेत, संधिम् उपेयात् ॥१८.१९एवं स्व.अर्थश् च कृतो भवति मध्यमस्य प्रियं च ॥१८.२०मध्यमश् चेत् स्व.मित्रं मित्र.भावि लिप्सेत, पुरुष.अन्तरेण संदध्यात् ॥१८.२१स.अपेक्षं वा "न_अर्हसि मित्रम् उच्छेत्तुम्" इति वारयेत् ॥१८.२२उपेक्षेत वा "मण्डलम् अस्य कुप्यतु स्व.पक्ष.वधात्" इति ॥१८.२३अमित्रम् आत्मनो वा मध्यमो लिप्सेत, कोश.दण्डाभ्याम् एनम् अदृश्यमानो_अनुगृह्णीयात् ॥१८.२४उदासीनं वा मध्यमो लिप्सेत, अस्मै साहाय्यं दद्याद् "उदासीनाद् भिद्यताम्" इति ॥१८.२५मध्यम.उदासीनयोर् यो मण्डलस्य_अभिप्रेतस् तम् आश्रयेत ॥१८.२६मध्यम.चरितेन_उदासीन.चरितं व्याख्यातम् ॥१८.२७उदासीनश् चेन् मध्यमं लिप्सेत, यतः शत्रुम् अतिसंदध्यान् मित्रस्य_उपकारं कुर्याद् उदासीनं वा दण्ड.उपकारिणं लभेत ततः परिणमेत ॥१८.२८एवम् उपबृह्य_आत्मानम् अरि.प्रकृतिं कर्शयेन् मित्र.प्रकृतिं च_उपगृह्णीयात् ॥१८.२९सत्य् अप्य् अमित्र.भावे तस्य_अनात्मवान् नित्य.अपकारी शत्रुः शत्रु.संहितः पार्ष्णि.ग्राहो वा व्यसनी यातव्यो व्यसने वा नेतुर् अभियोक्ता इत्य् अरि.भाविनः, एक.अर्थ.अभिप्रयातः पृथग्.अर्थ.अभिप्रयातः सम्भूय.यात्रिकः संहित.प्रयाणिकः स्व.अर्थ.अभिप्रयातः सामुत्थायिकः कोश.दण्डयोर् अन्यतरस्य क्रेता विक्रेता वा द्वैधी.भाविक इति मित्र.भाविनः, - ॥१८.२९सामन्तो बलवतः प्रतिघातो_अन्तर्धिः प्रतिवेशो वा बलवतः पार्ष्णि.ग्राहो वा स्वयम् उपनतः प्रताप.उपनतो वा दण्ड.उपनत इति भृत्य.भाविनः सामन्ताः ॥१८.३०तैर् भूम्य्.एक.अन्तरा व्याख्याताः ॥१८.३१तेषां शत्रु.विरोधे यन् मित्रम् एक.अर्थतां व्रजेत् ।१८.३१शक्त्या तद्.अनुगृह्णीयाद् विषहेत यया परम् ॥१८.३२प्रसाध्य शत्रुं यन् मित्रं वृद्धं गच्छेद् अवश्यताम् ।१८.३२सामन्त.एक.अन्तराभ्यां तत्.प्रकृतिभ्यां विरोधयेत् ॥१८.३३तत्.कुलीन.अपरुद्धाभ्यां भूमिं वा तस्य हारयेत् ।१८.३३यथा वा_अनुग्रह.अपेक्षं वश्यं तिष्ठेत् तथा चरेत् ॥१८.३४न_उपकुर्याद् अमित्रं वा गच्छेद् यद् अतिकर्शितम् ।१८.३४तद् अहीनम् अवृद्धं च स्थापयेन् मित्रम् अर्थवित् ॥१८.३५अर्थ.युक्त्या चलं मित्रं संधिं यद् उपगच्छति ।१८.३५तस्य_अपगमने हेतुं विहन्यान् न चलेद् यथा ॥१८.३६अरि.साधारणं यद् वा तिष्ठेत् तद् अरितः शठम् ।१८.३६भेदयेद् भिन्नम् उच्छिन्द्यात् ततः शत्रुम् अनन्तरम् ॥१८.३७उदासीनं च यत् तिष्ठेत् सामन्तैस् तद् विरोधयेत् ।१८.३७ततो विग्रह.संतप्तम् उपकारे निवेशयेत् ॥१८.३८अमित्रं विजिगीषुं च यत् संचरति दुर्बलम् ।१८.३८तद् बलेन_अनुगृह्णीयाद् यथा स्यान् न परान्.मुखम् ॥१८.३९अपनीय ततो_अन्यस्यां भूमौ वा सम्निवेशयेत् ।१८.३९निवेश्य पूर्वं तत्र_अन्यद् दण्ड.अनुग्रह.हेतुना ॥१८.४०अपकुर्यात् समर्थं वा न_उपकुर्याद् यद् आपदि ।१८.४०उच्छिन्द्याद् एव तन्.मित्रं विश्वस्य_अङ्कम् उपस्थितम् ॥१८.४१मित्र.व्यसनतो वा_अरिर् उत्तिष्ठेद् यो_अनवग्रहः ।१८.४१मित्रेण_एव भवेत् साध्यश् छादित.व्यसनेन सः ॥१८.४१अमित्र.व्यसनान् मित्रम् उत्थितं यद् विरज्यति ।१८.४१अरि.व्यसन.सिद्ध्या तत्.शत्रुणा_एव प्रसिध्यति ॥१८.४२वृद्धिं क्षयं च स्थानं च कर्शन.उच्छेदनं तथा ॥१८.४२सर्व.उपायान् समादध्याद् एतान् यश् च_अर्थ.शास्त्रवित् ।१८.४३एवम् अन्योन्य.संचारं षाड्गुण्यं यो_अनुपश्यति ॥१८.४३स बुद्धि.निगलैर् बद्धैर् इष्टं क्रीडति पार्थिवैः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP