अर्थशास्त्रम् अध्याय ०७ - भाग १५

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


१५.०१
दुर्बलो राजा बलवता_अभियुक्तस् तद्.विशिष्ट.बलम् आश्रयेत यम् इतरो मन्त्र.शक्त्या न_अतिसंदध्यात् ॥

१५.०२
तुल्य.मन्त्र.शक्तीनाम् आयत्त.सम्पदो वृद्ध.सम्योगाद् वा विशेषः ॥

१५.०३
विशिष्ट.बल.अभावे सम.बलैस् तुल्य.बल.संघैर् वा बलवतः सम्भूय तिष्ठेद् यान् न मन्त्र.प्रभाव.शक्तिभ्याम् अतिसंदध्यात् ॥

१५.०४
तुल्य.मन्त्र.प्रभाव.शक्तीनां विपुल.आरम्भतो विशेषः ॥

१५.०५
सम.बल.अभावे हीन.बलैः शुचिभिर् उत्साहिभिः प्रत्यनीक.भूतैर् बलवतः सम्भूय तिष्ठेद् यान् न मन्त्र.प्रभाव.उत्साह.शक्तिभिर् अतिसंदध्यात् ॥

१५.०६
तुल्य.उत्साह.शक्तीनां स्व.युद्ध.भूमि.लाभाद् विशेषः ॥

१५.०७
तुल्य.भूमीनां स्व.युद्ध.काल.लाभाद् विशेषः ॥

१५.०८
तुल्य.देश.कालानां युग्य.शस्त्र.आवरणतो विशेषः ॥

१५.०९
सहाय.अभावे दुर्गम् आश्रयेत यत्र_अमित्रः प्रभूत.सैन्यो_अपि भक्त.यवस.इन्धन.उदक.उपरोधं न कुर्यात् स्वयं च क्षय.व्ययाभ्यां युज्येत ॥

१५.१०
तुल्य.दुर्गाणां निचय.अपसारतो विशेषः ॥

१५.११
निचय.अपसार.सम्पन्नं हि मनुष्य.दुर्गम् इच्छेद् इति कौटिल्यः ॥

१५.१२अ/तद् एभिः कार्णैर् आश्रयेत - "पार्ष्णि.ग्राहम् आसारं मध्यमम् उदासीनं वा प्रतिपादयिष्यामि, सामन्त.आटविक.तत्.कुलीन.अपरुद्धानाम् अन्यतमेन_अस्य राज्यं हारयिष्यामि घातयिष्यामि वा - ॥

१५.१२
कृत्य.पक्ष.उपग्रहेण वा_अस्य दुर्गे राष्ट्रे स्कन्ध.आवारे वा कोपं समुत्थापयिष्यामि, शस्त्र.अग्नि.रस.प्रणिधानैर् औपनिषदिकैर् वा यथा.इष्टम् आसन्नं हनिष्यामि - ॥

१५.१२
स्वयं.अधिष्ठितेन वा योग.प्रणिधानेन क्षय.व्ययम् एनम् उपनेष्यामि, क्षय.व्यय.प्रवास.उपतप्ते वा_अस्य मित्र.वर्गे सैन्ये वा क्रमेण_उपजापं प्राप्स्यामि - ॥

१५.१२
वीवध.आसार.प्रसार.वधेन वा_अस्य स्कन्ध.आवार.अवग्रहं करिष्यामि, दण्ड.उपनयेन वा_अस्य रन्ध्रम् उत्थाप्य सर्व.संदोहेन प्रहरिष्यामि, प्रतिहत.उत्साहेन वा यथा.इष्टं संधिम् अवाप्स्यामि, मयि प्रतिबद्धस्य वा सर्वतः कोपाः समुत्थास्यन्ति - ॥

१५.१२
निरासारं वा_अस्य मूलं मित्र.अटवी.दण्डैर् उद्धातयिष्यामि, महतो वा देशस्य योग.क्षेमम् इहस्थः पालयिष्यामि, स्व.विक्षिप्तं मित्र.विक्षिप्तं वा मे सैन्यम् इहस्थस्य_एकस्थम् अविषह्यं भविष्यति, निम्न.खात.रात्रि.युद्ध.विशारदं वा मे सैन्यं पथ्य.आबाध.मुक्तम् आसन्ने कर्म करिष्यति - ॥

१५.१२
विरुद्ध.देश.कालम् इह.आगतो वा स्वयम् एव क्षय.व्ययाभ्यां न भविष्यति, महा.क्षय.व्यय.अभिगम्यो_अयं देशो दुर्ग.अटव्य्.अपसार.बाहुल्यात् - ॥

१५.१२
परेषां व्याधि.प्रायः सैन्य.व्यायामानाम् अलब्ध.भौमश् च, तम् आपद्.गतः प्रवेक्ष्यति, प्रविष्टो वा न निर्गमिष्यति" इति ॥

१५.१३
"कारण.अभावे बल.समुच्छ्रये वा परस्य दुर्गम् उन्मुच्य_अपगच्छेत् ॥

१५.१४
अग्नि.पतङ्गवद् अमित्रे वा प्रविशेत् ॥

१५.१५
अन्यतर.सिद्धिर् हि त्यक्त.आत्मनो भवति" इत्य् आचार्याः ॥

१५.१६
न_इति कौटिल्यः ॥

१५.१७
संधेयताम् आत्मनः परस्य च_उपलभ्य संदधीत ॥

१५.१८
विपर्यये विक्रमेण संधिम् अपसारं वा लिप्सेत ॥

१५.१९
संधेयस्य वा दूतं प्रेषयेत् ॥

१५.२०
तेन वा प्रेषितम् अर्थ.मानाभ्यां सत्कृत्य ब्रूयात् "इदं राज्ञः पण्य.अगारम्, इदं देवी.कुमाराणाम्, देवी.कुमार.वचनात्, इदं राज्यम् अहं च त्वद्.अर्पणः" इति ॥

१५.२१
लब्ध.संश्रयः समय.आचारिकवद् भर्तरि वर्तेत ॥

१५.२२
दुर्ग.आदीनि च कर्माणि आवाह.विवाह.पुत्र.अभिषेक.अश्व.पण्य.हस्ति.ग्रहण.सत्त्र.यात्रा.विहार.गमनानि च_अनुज्ञातः कुर्वीत ॥

१५.२३
स्व.भूम्य्.अवस्थित.प्रकृति.संधिम् उपघातम् अपसृतेषु वा सर्वम् अनुज्ञातः कुर्वीत ॥

१५.२४
दुष्ट.पौर.जानपदो वा न्याय.वृत्तिर् अन्यां भूमिं याचेत ॥

१५.२५
दुष्यवद् उपांशु.दण्डेन वा प्रतिकुर्वीत ॥

१५.२६
उचितां वा मित्राद् भूमिं दीयमानां न प्रतिगृह्णीयात् ॥

१५.२७
मन्त्रि.पुरोहित.सेना.पति.युव.राजानाम् अन्यतमम् अदृश्यमाने भर्तरि पश्येत्, यथा.शक्ति च_उपकुर्यात् ॥

१५.२८
दैवत.स्वस्ति.वाचनेषु तत्.परा आशिषो वाचयेत् ॥

१५.२९
सर्वत्र_आत्म.निसर्गं गुणं ब्रूयात् ॥

१५.३०
सम्युक्त.बलवत्.सेवी विरुद्धः शङ्कित.आदिभिः ।

१५.३०
वर्तेत दण्ड.उपनतो भर्तर्य् एवम् अवस्थितः ॥

(दण्ड.उपनायि.वृत्तम्)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP