संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ७| भाग २ अध्याय ७ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ अर्थशास्त्रम् अध्याय ०७ - भाग २ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग २ Translation - भाषांतर २.०१संधि.विग्रहयोस् तुल्यायां वृद्धौ संधिम् उपेयात् ॥२.०२विग्रहे हि क्षय.व्यय.प्रवास.प्रत्यवाया भवन्ति ॥२.०३तेन_आसन.यानयोर् आसनं व्याख्यातम् ॥२.०४द्वैधी.भाव.संश्रययोर् द्वैधी.भावं गच्छेत् ॥२.०५द्वैधी.भूतो हि स्व.कर्म.प्रधान आत्मन एव_उपकरोति, संश्रितस् तु परस्य_उपकरोति, न_आत्मनः ॥२.०६यद्.बलः सामन्तस् तद्.विशिष्ट.बलम् आश्रयेत् ॥२.०७तद्.विशिष्ट.बल.अभावे तम् एव_आश्रितः कोश.दण्ड.भूमीनाम् अन्यतमेन_अस्य_उपकर्तुम् अदृष्टः प्रयतेत ॥२.०८महा.दोषो हि विशिष्ट.बल.समागमो राज्ञाम्, अन्यत्र_अरि.विगृहीतात् ॥२.०९अशक्ये दण्ड.उपनतवद् वर्तेत ॥२.१०यदा च_अस्य प्राण.हरं व्याधिम् अन्तः.कोपं शत्रु.वृद्धिं मित्र.व्यसनम् उपस्थितं वा तन्.निमित्ताम् आत्मनश् च वृद्धिं पश्येत् तदा सम्भाव्य.व्याधि.धर्म.कार्य.अपदेशेन_अपयायात् ॥२.११स्व.विषयस्थो वा न_उपगच्छेत् ॥२.१२आसन्नो वा_अस्य च्छिद्रेषु प्रहरेत् ॥२.१३बलीयसोर् वा मध्य.गतस् त्राण.समर्थम् आश्रयेत, यस्य वा_अन्तर्धिः स्यात्, उभौ वा ॥२.१४कपाल.संश्रयस् तिष्ठेत्, मूल.हरम् इतरस्य_इतरम् अपदिशन् ॥२.१५भेदम् उभयोर् वा परस्पर.अपदेशं प्रयुञ्जीत, भिन्नयोर् उपांशु.दण्डम् ॥२.१६पार्श्वस्थो वा बलस्थयोर् आसन्न.भयात् प्रतिकुर्वीत ॥२.१७दुर्ग.अपाश्रयो वा द्वैधी.भूतस् तिष्ठेत् ॥२.१८संधि.विग्रह.क्रम.हेतुभिर् वा चेष्टेत ॥२.१९दूष्य.अमित्र.आटविकान् उभयोर् उपगृह्णीयात् ॥२.२०एतयोर् अन्यतरं गच्छंस् तैर् एव_अन्यतरस्य व्यसने प्रहरेत् ॥२.२१द्वाभ्याम् उपहतो वा मण्डल.अपाश्रयस् तिष्ठेत्, मध्यमम् उदासीनं वा संश्रयेत ॥२.२२तेन सह_एकम् उपगृह्य_इतरम् उच्छिन्द्याद्, उभौ वा ॥२.२३द्वाभ्याम् उच्छिन्नो वा मध्यम.उदासीनयोस् तत्.पक्षीयाणां वा राज्ञां न्याय.वृत्तिम् आश्रयेत ॥२.२४तुल्यानां वा यस्य प्रकृतयः सुख्येयुर् एनम्, यत्रस्थो वा शक्नुयाद् आत्मानम् उद्धर्तुम्, यत्र वा पूर्व.पुरुष.उचिता गतिर् आसन्नः सम्बन्धो वा, मित्राणि भूयांस्य् अतिशक्तिमन्ति वा भवेयुः ॥२.२५प्रियो यस्य भवेद् यो वा प्रियो_अस्य कतरस् तयोः ।२.२५प्रियो यस्य स तं गच्छेद् इत्य् आश्रय.गतिः परा ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP