संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ७| भाग ९ अध्याय ७ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ अर्थशास्त्रम् अध्याय ०७ - भाग ९ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ९ Translation - भाषांतर ९.०१संहित.प्रयाणे मित्र.हिरण्य.भूमि.लाभानाम् उत्तर.उत्तरो लाभः श्रेयान् ॥९.०२मित्र.हिरण्ये हि भूमि.लाभाद् भवतः, मित्रं हिरण्य.लाभात् ॥९.०३यो वा लाभः सिद्धः शेषयोर् अन्यतरं साधयति ॥९.०४"त्वं च_अहं च मित्रं लभावहे" इत्य् एवं.आदिध् सम.संधिः ॥९.०५"त्वं मित्रम्" इत्य् एवं.आदिर् विषम.संधिः ॥९.०६तयोर् विशेष.लाभाद् अतिसंधिः ॥९.०७सम.संधौ तु यः सम्पन्नं मित्रं मित्र.कृच्छ्रे वा मित्रम् अवाप्नोति सो_अतिसंधत्ते ॥९.०८आपद्द् हि सौहृद.स्थैर्यम् उत्पादयति ॥९.०९मित्र.कृच्छ्रे_अपि नित्यम् अवश्यम् अनित्यं वश्यं वा_इति "नित्यम् अवश्यं श्रेयः, तद्द् हि अनुपकुर्वद् अपि न_अपकरोति" इत्य् आचार्याः ॥९.१०न_इति कौटिल्यः ॥९.११वश्यम् अनित्यं श्रेयः ॥९.१२यावद् उपकरोति तावन् मित्रं भवति, उपकार.लक्षणं मित्रम् इति ॥९.१३वश्ययोर् अपि महा.भोगम् अनित्यम् अल्प.भोगं वा नित्यम् इति ॥ महा.भोगम् अनित्यं श्रेयः, महा.भोगम् अनित्यम् अल्प.कालेन महद्.उपकुर्वन् महान्ति व्यय.स्थानानि प्रतिकरोति" इत्य् आचार्याः ॥९.१४न_इति कौटिल्यः ॥९.१५नित्यम् अल्प.भोगं श्रेयः ॥९.१६महा.भोगम् अनित्यम् उपकार.भयाद् अपक्रामति, उपकृत्य वा प्रत्यादातुम् ईहते ॥९.१७नित्यम् अल्प.भोगं सातत्याद् अल्पम् उपकुर्वन् महता कालेन महद् उपकरोति ॥९.१८गुरु.समुत्थं महन् मित्रं लघु.समुत्थम् अल्पं वा_इति "गुरु.समुत्थं महन् मित्रं प्रताप.करं भवति, यदा च_उत्तिष्ठते तदा कार्यं साधयति" इत्य् आचार्याः ॥९.१९न_इति कौटिल्यः ॥९.२०लघु.समुत्थम् अल्पं श्रेयः ॥९.२१लगु.समुत्थम् अल्पं मित्रं कार्य.कालं न_अतिपातयति दौर्बल्याच् च यथा.इष्ट.भोग्यं भवति, न_इतरत् प्रकृष्ट.भौमम् ॥९.२२विक्षिप्त.सैन्यम् अवश्य.सैन्यं वा_इति "विक्षिप्तं सैन्यं शक्यं प्रतिसंहर्तुं वश्यत्वाद्" इत्य् आचार्याः ॥९.२३न_इति कौटिल्यः ॥९.२४अवश्य.सैन्यं श्रेयः ॥९.२५अवश्यं हि शक्यं साम.आदिभिर् वश्यं कर्तुम्, न_इतरत् कार्य.व्यासक्तं प्रतिसंहर्तुम् ॥९.२६पुरुष.भोगं हिरण्य.भोगं वा मित्रम् इति "पुरुष.भोगं मित्रं श्रेयः, प्रुष.भोगं मित्रं प्रताप.करं भवति, यदा च_उत्तिष्ठते तदा कार्यं साधयति" इत्य् आचार्याः ॥९.२७न_इति कौटिल्यः ॥९.२८हिरण्य.भोगं मित्रं श्रेयः ॥९.२९नित्यो हि हिरण्येन योगः कदाचिद् दण्डेन ॥९.३०दण्डश् च हिरण्येन_अन्ये च कामाः प्राप्यन्त इति ॥९.३१हिरण्य.भोगं भूमि.भोगं वा मित्रम् इति "हिरण्य.भोगं गतिमत्त्वात् सर्व.व्यय.प्रतीकार.करम्" इत्य् आचार्याः ॥९.३२न_इति कौटिल्यः ॥९.३३मित्र.हिरण्ये हि भूमि.लाभाद् भवत इत्य् उक्तं पुरस्ताद् ॥९.३४तस्माद् भूमि.भोगं मित्रं श्रेय इति ॥९.३५तुल्ये पुरुष.भोगे विक्रमः क्लेश.सहत्वम् अनुरागः सर्व.बल.लाभो वा मित्र.कुलाद् विशेषः ॥९.३६तुल्ये हिरण्य.भोगे प्रार्थित.अर्थता प्राभूत्यम् अल्प.प्रयसता सातत्यं च विशेषः ॥९.३७तत्र_एतद् भवति ॥९.३८नित्यं वश्यं लघु.उत्थानं पितृ.पैतामहं महत् ।९.३८अद्वैध्यं च_इति सम्पन्नं मित्रं षड्.गुणम् उच्यते ॥९.३९ऋते यद् अर्थं प्रणयाद् रक्ष्यते यच् च रक्षति ।९.३९पूर्व.उपचित.सम्बन्धं तन् मित्रं नित्यम् उच्यते ॥९.४०सर्व.चित्र.महा.भोगं त्रिविधं वश्यम् उच्यते ।९.४०एकतो.भोग्य् उभयतः सर्वतो.भोगि च_अपरम् ॥९.४१आदातृ वा दात्र्.अपि वा जीवत्य् अरिषु हिंसया ।९.४१मित्रं नित्यम् अवश्यं तद्.दुर्ग.अटव्य्.अपसारि च ॥९.४२अन्यतो विगृहीतं यल् लघु.व्यसनम् एव वा ।९.४२संधत्ते च_उपकाराय तन् मित्रं वश्यम् अध्रुवम् ॥९.४३एक.अर्थेन_अथ सम्बद्धम् उपकार्य.विकारि च ।९.४३मित्र.भावि भवत्य् एतन् मित्रम् अद्वैध्यम् आपदि ॥९.४४मित्र.भावाद् ध्रुवं मित्रं शत्रु.साधारणाच् चलम् ।९.४४न कस्यचिद् उदासीनं द्वयोर् उभय.भावि तत् ॥९.४५विजिगीषोर् अमित्रं यन् मित्रम् अन्तर्धितां गतम् ।९.४५उपकारे_अनिविष्टं वा_अशक्तं वा_अनुपकारि तत् ॥९.४६प्रियं परस्य वा रक्ष्यं पूज्यं सम्बद्धम् एव वा ।९.४६अनुगृह्णाति यन् मित्रं शत्रु.साधारणं हि तत् ॥९.४७प्रकृष्ट.भौमं संतुष्टं बलवच् च_आलसं च यत् ।९.४७उदासीनं भवत्य् एतद् व्यसनाद् अवमानितम् ॥९.४८अरेर् नेतुश् च यद् वृद्धिं दौर्बल्याद् अनुवर्तते ।९.४८उभयस्य_अप्य् अविद्विष्टं विद्याद् उभय.भावि तत् ॥९.४९कारण.अकारण.ध्वस्तं कारण.अकारण.आगतम् ।९.४९यो मित्रं समुपेक्षेत स मृत्युम् उपगूहति ॥९.५०क्षिप्रम् अल्पो लाभश् चिरान् महान् इति वा "क्षिप्रम् अल्पो लाभः कार्य.देश.काल.संवादकः श्रेयान्" इत्य् आचार्याः ॥९.५१न_इति कौटिल्यः ॥९.५२चिराद् अविनिपाती बीज.सधर्मा महाम्ल् लाभः श्रेयान्, विपर्यये पूर्वः ॥९.५३एवं दृष्ट्वा ध्रुवे लाभे लाभ.अंशे च गुण.उदयम् ।९.५३स्व.अर्थ.सिद्धि.परो यायात् संहितः सामवायिकैः ॥(मित्र.हिरण्य.भूमि.कर्म.संधयः, तत्र भूमि.संधिह्) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP