संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ७| भाग ८ अध्याय ७ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ अर्थशास्त्रम् अध्याय ०७ - भाग ८ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ८ Translation - भाषांतर ८.०१यातव्यो_अभियास्यमानः संधि.कारणम् आदातु.कामो विहन्तु.कामो वा सामवायिकानाम् अन्यतमं लाभ.द्वैगुण्येन पणेत ॥८.०२पणमानः क्षय.व्यय.प्रवास.प्रत्यवाय.पर.उपकार.शरीर.आबाधांश् च_अस्य वर्णयेत् ॥८.०३प्रतिपन्नम् अर्थेन योजयेत् ॥८.०४वैरं वा परैर् ग्राहयित्वा विसंवादयेत् ॥८.०५दुरारब्ध.कर्माणं भूयः क्षय.व्ययाभ्यां योक्तु.कामः स्व्.आरब्धां वा यात्रा.सिद्धिं विघातयितु.कामो मूले यात्रायां वा प्रहर्तु.कामो यातव्य.संहितः पुनर् याचितु.कामः प्रत्युत्पन्न.अर्थ.कृच्छ्रस् तस्मिन्न् अविश्वस्तो वा तदात्वे लाभम् अल्पम् इच्छेत्, आयत्यां प्रभूतम् ॥८.०६मित्र.उपकारम् अमित्र.उपघातम् अर्थ.अनुबन्धम् अवेक्षमाणः पूर्व.उपकारकं कारयितु.कामो भूयस् तदात्वे महान्तं लाभम् उत्सृज्य_आयत्याम् अल्पम् इच्छेत् ॥८.०७दूष्य.अमित्राभ्यां मूल.हरेण वा ज्यायसा विगृहीतं त्रातु.कामस् तथा.विधम् उपकारं कारयितु.कामः सम्बन्ध.अवेक्षी वा तदात्वे च_आयत्यां च लाभं न प्रतिगृह्णीयात् ॥८.०८कृत.संधिर् अतिक्रमितु.कामः परस्य प्रकृति.कर्शनं मित्र.अमित्र.संधि.विश्लेषणं वा कर्तु.कामः पर.अभियोगात्_शङ्कमानो लाभम् अप्राप्तम् अधिकं वा याचेत ॥८.०९तम् इतरस् तदात्वे च_आयत्यां च क्रमम् अवेक्षेत ॥८.१०तेन पूर्वे व्याख्याताः ॥८.११अरि.विजिगीष्वोस् तु स्वं स्वं मित्रम् अनुगृह्णतोः शक्य.कल्य.भव्य.आरम्भि.स्थिर.कर्म.अनुरक्त.प्रकृतिभ्यो विशेषः ॥८.१२शक्य.आरम्भी विषह्यं कर्म_आरभते, कल्य.आरम्भी निर्दोषम्, भव्य.आरम्भी कल्याण.उदयम् ॥८.१३स्थिर.कर्मा न_असमाप्य कर्म_उपरमते ॥८.१४अनुरक्त.प्रकृतिः सुसहायत्वाद् अल्पेन_अप्य् अनुग्रहेण कार्यं साधयति ॥८.१५त एते कृत.अर्थाः सुखेन प्रभूतं च_उपकुर्वन्ति ॥८.१६अतः प्रतिलोमा न_अनुग्राह्याः ॥८.१७तयोर् एक.पुरुष.अनुग्रहे यो मित्रं मित्र.तरं वा_अनुगृह्णाति सो_अतिसंधत्ते ॥८.१८मित्राद् आत्म.वृद्धिं हि प्राप्नोति, क्षय.व्यय.प्रवास.पर.उपकारान् इतरः ॥८.१९कृत.अर्थश् च शत्रुर् वैगुण्यम् एति ॥८.२०मध्यमं त्व् अनुगृह्णतोर् यो मध्यमं मित्रं मित्रतरं वा_अनुगृह्णाति सो_अतिसंधत्ते ॥८.२१मित्राद् आत्म.वृद्धिं हि प्राप्नोति, क्षय.व्यय.प्रवास.पर.उपकारान् इतरः ॥८.२२मध्यमश् चेद् अनुगृहीतो विगुणः स्याद् अमित्रो_अतिसंधत्ते ॥८.२३कृत.प्रयासं हि मध्यम.अमित्रम् अपसृतम् एक.अर्थ.उपगतं प्राप्नोति ॥८.२४तेन_उदासीन.अनुग्रहो व्याख्यातः ॥८.२५मध्यम.उदासीनयोर् बल.अंश.दाने यः शूरं कृत.अस्त्रं दुःख.सहम् अनुरक्तं वा दण्डं ददाति सो_अतिसंधीयते ॥८.२६विपरीतो_अतिसंधत्ते ॥८.२७यत्र तु दण्डः प्रहितस् तं वा च_अर्थम् अन्यांश् च साधयति तत्र मौल.भृत.श्रेणी.मित्र.अटवी.बलानाम् अन्यतमम् उपलब्ध.देश.कालं दण्डं दद्यात्, अमित्र.अटवी.बलं वा व्यवहित.देश.कालम् ॥८.२८यं तु मन्येत "कृत.अर्थो मे दण्डं गृह्णीयाद्, अमित्र.अटव्य्.अभूम्य्.अनृतुषु वा वासयेद्, अफलं वा कुर्याद्" इति, दण्ड.व्यासङ्ग.अपदेशेन न_एनम् अनुगृह्णीयात् ॥८.२९एवम् अवश्यं त्व् अनुग्रहीतव्ये तत्.काल.सहम् अस्मै दण्डं दद्यात् ॥८.३०आ.समाप्तेश् च_एनं वासयेद् योधयेच् च बल.व्यसनेभ्यश् च रक्षेत् ॥८.३१कृत.अर्थाच् च स.अपदेशम् अपस्रावयेत् ॥८.३२दूष्य.अमित्र.अटवी.दण्डं वा_अस्मै दद्यात् ॥८.३३यातव्येन वा संधाय_एनम् अतिसंदध्यात् ॥८.३४समे हि लाभे संधिः स्याद् विषमे विक्रमो मतः ॥८.३४सम.हीन.विशिष्टानाम् इत्य् उक्ताः संधि.विक्रमाः ॥(मित्र.हिरण्य.भूमि.कर्म.संधयः, तत्र मित्र.संधिः हिरण्य.संधिश् च) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP