अर्थशास्त्रम् अध्याय ०७ - भाग ११

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


११.०१
"त्वं च_अहं च शून्यं निवेशयावहे" इत्य् अनवसित.संधिः ॥

११.०२
तयोर् यः प्रत्युपस्थित.अर्थो यथा.उक्त.गुणां भूमिं निवेशयति सो_अतिसंधत्ते ॥

११.०३
तत्र_अपि स्थलम् औदकं वा_इति महतः स्थलाद् अल्पम् औदकं श्रेयः, सातत्याद् अवस्थितत्वाच् च फलानाम् ॥

११.०४
स्थलयोर् अपि प्रभूत.पूर्व.अपर.सस्यम् अल्प.वर्ष.पाकम् असक्त.आरम्भं श्रेयः ॥

११.०५
औदकयोर् अपि धान्य.वापम् अधान्य.वापात्_श्रेयः ॥

११.०६
तयोर् अल्प.बहुत्वे धान्य.कान्ताद् अल्पान् महद् अधान्य.कान्तं श्रेयः ॥

११.०७
महत्य् अवकाशे हि स्थाल्याश् च_अनूप्याश् च_ओषधयो भवन्ति ॥

११.०८
दुर्ग.आदीनि च कर्माणि प्रभूत्येन क्रियन्ते ॥

११.०९
कृत्रिमा हि भूमि.गुणाः ॥

११.१०
खनि.धान्य.भोगयोः खनि.भोगः कोश.करः, धान्य.भोगः कोश.कोष्ठ.अगार.करः ॥

११.११
धान्य.मूला हि दुर्ग.आदीनां कर्मणाम् आरम्भाः ॥

११.१२
महा.विषय.विक्रयो वा खनि.भोगः श्रेयान् ॥

११.१३
"द्रव्य.हस्ति.वन.भोगयोर् द्रव्य.वन.भोगः सर्व.कर्मणां योनिः प्रभूत.निधान.क्षमश् च, विपरीतो हस्ति.वन.भोगः" इत्य् आचार्याः ॥

११.१४
न_इति कौटिल्यः ॥

११.१५
शक्यं द्रव्य.वनम् अनेकम् अनेकस्यां भूमौ वापयितुम्, न हस्ति.वनम् ॥

११.१६
हस्ति.प्रधानो हि पर.अनीक.वध इति ॥

११.१७
वारि.स्थल.पथ.भोगयोर् अनित्यो वारि.पथ.भोगः, नित्यः स्थल.पथ.भोगः ॥

११.१८
भिन्न.मनुष्या श्रेणी.मनुष्या वा भूमिर् इति भिन्न.मनुष्या श्रेयसी ॥

११.१९
भिन्न.मनुष्या भोग्या भवति, अनुपजाप्या च_अन्येषाम्, अनापत्.सहा तु ॥

११.२०
विपरीता श्रेणी.मनुष्या, कोपे महा.दोषा ॥

११.२१
तस्यां चातुर्वर्ण्य.निवेशे सर्व.भोग.सहत्वाद् अवर.वर्ण.प्राया श्रेयसी, बाहुल्याद् ध्रुवत्वाच् च कृष्याः कर्षकवती, कृष्याश् च_अन्येषां च_आरम्भाणां प्रयोजकत्वात् गो.रक्षकवती, पण्य.निचय.ऋण.अनुग्रहाद् आढ्य.वणिग्वती ॥

११.२२
भूमि.गुणानाम् अपाश्रयः श्रेयान् ॥

११.२३
दुर्ग.अपाश्रया पुरुष.अपाश्रया वा भूमिर् इति पुरुष.अपाश्रया श्रेयसी ॥

११.२४
पुरुषवद् धि राज्यम् ॥

११.२५
अपुरुषा गौर् वन्ध्य् एव किं दुहीत ॥

११.२६
महा.क्षय.व्यय.निवेशां तु भूमिम् अवाप्तु.कामः पूर्वम् एव क्रेतारं पणेत दुर्बलम् अराज.बीजिनं निरुत्साहम् अपक्षम् अन्याय.वृत्तिं व्यसनिनं दैव.प्रमाणं यत्.किंचन.कारिणं वा ॥

११.२७
महा.क्षय.व्यय.निवेशायां हि भूमौ दुर्बलो राज.बीजी निविष्टः सगन्धाभिः प्रकृतिभिः सह क्षय.व्ययेन_अवसीदति ॥

११.२८
बलवान् अराज.बीजी क्षय.व्यय.भयाद् असगन्धाभिः प्रकृतिभिस् त्यज्यते ॥

११.२९
निरुत्साहस् तु दण्डवान् अपि दण्डस्य_अप्रणेता सदण्डः क्षय.व्ययेन_अवभज्यते ॥

११.३०
कोशवान् अप्य् अपक्षः क्षय.व्यय.अनुग्रह.हीनत्वान् न कुतश्चित् प्राप्नोति ॥

११.३१
अन्याय.वृत्तिर् निविष्टम् अप्य् उत्थापयेत् ॥

११.३२
स कथम् अनिविष्टं निवेशयेत् ॥

११.३३
तेन व्यसनी व्याख्यातः ॥

११.३४
दैव.प्रमाणो मानुष.हीनो निरारम्भो विपन्न.कर्म.आरम्भो वा_अवसीदति ॥

११.३५
यत्.किंचन.कारी न किंचिद् आसादयति ॥

११.३६
स च_एषां पापिष्ठतमो भवति ॥

११.३७
"यत्.किंचिद्.आरभमाणो हि विजिगीषोः कदाचिच् छिद्रम् आसादयेद्" इत्य् आचार्याः ॥

११.३८
यथा छिद्रं तथा विनाशम् अप्य् आसादयेद् इति कौटिल्यः ॥

११.३९
तेषाम् अलाभे यथा पार्ष्णि.ग्राह.उपग्रहे वक्ष्यामस् तथा भूमिम् अवस्थापयेत् ॥

११.४०
इत्य् अभिहित.संधिः ॥

११.४१
गुणवतीम् आदेयां वा भूमिं बलवता क्रयेण याचितः संधिम् अवस्थाप्य दद्यात् ॥

११.४२
इत्य् अनिभृत.संधिः ॥

११.४३
समेन वा याचितः कारणम् अवेक्ष्य दद्यात् "प्रत्यादेया मे भूमिर् वश्या वा, अनया प्रतिबद्धः परो मे वश्यो भविष्यति_ भूमि.विक्रयाद् वा मित्र.हिरण्य.लाभः कार्य.सामर्थ्य.करो मे भविष्यति" इति ॥

११.४४
तेन हीनः क्रेता व्याख्यातः ॥

११.४५
एवं मित्रं हिरण्यं च सजनाम् अजनां च गाम् ।

११.४५
लभमानो_अतिसंधत्ते शास्त्रवित् सामवायिकान् ॥

(मित्र.हिरण्य.भूमि.कर्म.सम्धयह्, तत्र कर्म.सम्धिह्)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP