पदकांड - संख्यासमुद्देशः

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


संख्यावान् सत्त्वभूतो ऽर्थः सर्व एवाभिधीयते ।
भेदाभेदविभागो हि लोके संख्यानिबन्धनः ॥१॥

स धर्मो व्यतिरिक्तो वा तेषां आत्मैव वा तथा ।
भेदहेतुत्वम् आश्रित्य संख्येति व्यपदिश्यते ॥२॥

समवेता परिच्छेद्ये क्व चिद् अन्यत्र सा स्थिता ।
प्रकल्पयति भावानां संख्या भेदं तथात्मनः ॥३॥

परत्वे चापरत्वे च भेदे तुल्या श्रुतिर् यथा ।
संख्याशब्दाभिधेयत्वं भेदहेतोस् तथा गुणे ॥४॥

अस्वतन्त्रे स्वतन्त्रत्वं परधर्मो यथा गुणे ।
अभेद्ये भेद्यभावो ऽपि द्रव्यधर्मस् तथा गुणे ॥५॥

स्वबुद्ध्या तम् अपोद्धृत्य लोको ऽप्य् आगमम् आश्रितः ।
स्वधर्माद् अन्यधर्मेण व्याचष्टे प्रतिपत्तये ॥६॥

परोपकारतत्त्वानां स्वातन्त्र्येनाभिधायकः ।
शब्दः सर्वपदार्थाना स्वधर्मद् विप्रकृष्यते ॥७॥

यथैवाविषयं ज्ञानं न किं चिद् अवभासते ।
तथा भावो ऽप्य् असंसृष्टो न कश् चिद् उपलभ्यते ॥८॥

भेदेन तु समाख्यातं यल् लोको ऽप्य् अनुवर्तते ।
आगमाच् छास्त्रसदृशो व्यवहारः स वर्ण्यते ॥९॥

बुद्धौ स्थितेषु तेष्व् एवम् अध्यारोपो न दुर्लभः ।
परधर्मस्य न ह्य् अत्र सदसत्त्वं प्रयोजकम् ॥१०॥

सामान्येष्व् अपि सामान्यं विशेषेषु विशिष्टता ।
संख्यासु संख्या लिङ्गेषु लिङ्गम् एवं प्रकल्पते ॥११॥

अतो द्रव्याश्रितां संख्याम् आहुः संसर्गवादिनः ।
भेदाभेदव्यतीतेषु भेदाभेदविधायिनीम् ॥१२॥

आत्मान्तरानां येनात्मा तद्रूप इव लक्ष्यते ।
अतद्रूपेण संसर्गात् सा निमित्तसरूपता ॥१३॥

संसृष्टेष्व् अपि निर्भागे भूतेष्व् अर्थक्रिया यथा ।
सत्त्वादिषु च मात्रासु सर्वास्व् एवं प्रतीयते ॥१४॥

द्वित्वादियोनिर् एकत्वं भेदास् तत्पूर्वका यतः ।
विना तेन न संख्यानाम् अन्यासाम् अस्ति संभवः ॥१५॥

एकत्वे बुद्धिसहिते निमित्तं द्वित्वजन्मनि ।
एकत्वाभ्यां समुत्पन्नम् एवं वा तत् प्रतीयते ॥१६॥

एकत्वसमुदायो वा सापेक्षे वा पृथक् पृथक् ।
एकत्वे द्वित्वम् इत्य् एवं तयोर् द्विवचनं भवेत् ॥१७॥

एको ऽपि गुणभेदेन सङ्घो भेदं प्रकल्पयेत् ।
आश्रयाश्रयिभेदो हि तदाश्रयनिबन्धनः ॥१८॥

संख्येयसङ्घसंख्यान- सङ्घः संख्येति कथ्यते ।
विम्शत्यादिसु सान्यस्व द्रव्यसङ्घस्य भेदिका ॥१९॥

एकविंशतिसंख्वावां संख्यान्तरसरूपयोः ।
एकस्यां बुद्ध्यनावृत्त्या, भागयोर् इव कल्पना ॥२०॥

असंख्यासमुदायत्वात् संख्याकार्यं विधीयते ।
समूहत्वे तु तन् न स्यात् स्वाङ्गादिसमुदायवत् ॥२१॥

संख्येयान्तरतन्त्रासु या संख्यासु प्रवर्तते ।
आवृत्तिवर्गसंख्येया तां संख्यां तादृशीं विदुः ॥२२॥

न संख्यायां न संख्येये द्वौ दशेत्य् अस्ति संभवः ।
भेदाभावान् न संख्यायां विरोधान् न तदाश्रये ॥२३॥

संख्यायेते दशद्वर्गौ द्विदशा इति संख्यया ।
तद्रूपे वापि संख्येय आवृत्तिः परिगण्यते ॥२४॥

संख्या नाम न संख्यास्ति संज्ञैषेति यथोच्यते ।
रूपं न रूपम् अप्य् एवं सम्ज्ञा सा हि सितादिषु ॥२५॥

संख्यानजातियोगात् तु संख्या संख्येति कथ्यते ।
रूपत्वजातियोगाच् च रूपे रूपम् इति स्मृतम् ॥२६॥

निमित्तम् एकम् इत्य् अत्र विभक्त्या नाभिधीयते ।
तद्वतस् तु यद् एकत्वं विभक्तिस् तत्र वर्तते ॥२७॥

एकस्य प्रचयो दृष्टः समूहश् च द्वयोस् तथा ।
निमित्तव्यतिरेकेण संख्यान्या भेदिका ततः ॥२८॥

तद् एकम् अपि चैकत्वं विभक्तिश्रवणाद् ऋते ।
नोच्यते तेन शब्देन विभक्त्या तु सहोच्यते ॥२९॥

अन्वयव्यतिरेकौ च यदि स्याद् वचनान्तरम् ।
स्याताम् असति तस्मिम्श् च प्रकृत्यर्थो न कल्प्यते ॥३०॥

एकत्वम् एक इत्य् अत्र शुद्धद्रव्यविशेषणम् ।
सगुणस् तु प्रकृत्यर्थो विभक्त्यर्थेन भिद्यते ॥३१॥

द्व्येकयोर् इति निर्देशात् संख्यामात्रे ऽपि संभवः ।
एकादीनां प्रसिद्ध्या तु संख्येयार्थत्वम् उच्यते ॥३२॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP